धृतराष्ट्र उवाच:
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी |
१ क
धृतराष्ट्र उवाच:
उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ||
१ ख
धृतराष्ट्र उवाच:
प्रविश्य विचरन्तं च रणे शूरमवस्थितम् |
२ क
धृतराष्ट्र उवाच:
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारय़न् ||
२ ख
धृतराष्ट्र उवाच:
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः |
३ क
धृतराष्ट्र उवाच:
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ||
३ ख
धृतराष्ट्र उवाच:
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः |
४ क
धृतराष्ट्र उवाच:
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेय़िवान् ||
४ ख
सञ्जय़ उवाच:
साय़ाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च |
५ क
सञ्जय़ उवाच:
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ||
५ ख
सञ्जय़ उवाच:
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः |
६ क
सञ्जय़ उवाच:
पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ||
६ ख
सञ्जय़ उवाच:
तथैव नकुलो धीमान्सहदेवश्च दुर्जय़ः |
७ क
सञ्जय़ उवाच:
धृष्टद्युम्नः शतानीको विराटश्च सकेकय़ः |
७ ख
सञ्जय़ उवाच:
मत्स्याः शाल्वेय़सेनाश्च द्रोणमेव यय़ुर्युधि ||
७ ग
सञ्जय़ उवाच:
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः |
८ क
सञ्जय़ उवाच:
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ||
८ ख
सञ्जय़ उवाच:
द्रौपदेय़ा महेष्वासा राक्षसश्च घटोत्कचः |
९ क
सञ्जय़ उवाच:
ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ||
९ ख
सञ्जय़ उवाच:
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः |
१० क
सञ्जय़ उवाच:
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ||
१० ख
सञ्जय़ उवाच:
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः |
११ क
सञ्जय़ उवाच:
सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ||
११ ख
सञ्जय़ उवाच:
तेषु शूरेषु युद्धाय़ गतेषु भरतर्षभ |
१२ क
सञ्जय़ उवाच:
वभूव रजनी घोरा भीरूणां भय़वर्धिनी ||
१२ ख
सञ्जय़ उवाच:
योधानामशिवा रौद्रा राजन्नन्तकगामिनी |
१३ क
सञ्जय़ उवाच:
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ||
१३ ख
सञ्जय़ उवाच:
तस्यां रजन्यां घोराय़ां नदन्त्यः सर्वतः शिवाः |
१४ क
सञ्जय़ उवाच:
न्यवेदय़न्भय़ं घोरं सज्वालकवलैर्मुखैः ||
१४ ख
सञ्जय़ उवाच:
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भय़म् |
१५ क
सञ्जय़ उवाच:
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ||
१५ ख
सञ्जय़ उवाच:
ततः सैन्येषु राजेन्द्र शव्दः समभवन्महान् |
१६ क
सञ्जय़ उवाच:
भेरीशव्देन महता मृदङ्गानां स्वनेन च ||
१६ ख
सञ्जय़ उवाच:
गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः |
१७ क
सञ्जय़ उवाच:
खुरशव्दनिपातैश्च तुमुलः सर्वतोऽभवत् ||
१७ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं सन्ध्याय़ामतिदारुणम् |
१८ क
सञ्जय़ उवाच:
द्रोणस्य च महाराज सृञ्जय़ानां च सर्वशः ||
१८ ख
सञ्जय़ उवाच:
तमसा चावृते लोके न प्राज्ञाय़त किञ्चन |
१९ क
सञ्जय़ उवाच:
सैन्येन रजसा चैव समन्तादुत्थितेन ह ||
१९ ख
सञ्जय़ उवाच:
नरस्याश्वस्य नागस्य समसज्जत शोणितम् |
२० क
सञ्जय़ उवाच:
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ||
२० ख
सञ्जय़ उवाच:
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते |
२१ क
सञ्जय़ उवाच:
घोरश्चटचटाशव्दः शस्त्राणां पततामभूत् ||
२१ ख
सञ्जय़ उवाच:
नैव स्वे न परे राजन्प्राज्ञाय़न्त तमोवृते |
२२ क
सञ्जय़ उवाच:
उन्मत्तमिव तत्सर्वं वभूव रजनीमुखे ||
२२ ख
सञ्जय़ उवाच:
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् |
२३ क
सञ्जय़ उवाच:
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ||
२३ ख
सञ्जय़ उवाच:
ततः सा भारती सेना मणिहेमविभूषिता |
२४ क
सञ्जय़ उवाच:
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ||
२४ ख
सञ्जय़ उवाच:
गोमाय़ुवडसङ्घुष्टा शक्तिध्वजसमाकुला |
२५ क
सञ्जय़ उवाच:
दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ||
२५ ख
सञ्जय़ उवाच:
ततोऽभवन्महाशव्दस्तुमुलो लोमहर्षणः |
२६ क
सञ्जय़ उवाच:
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ||
२६ ख
सञ्जय़ उवाच:
सा निशीथे महाराज सेनादृश्यत भारती |
२७ क
सञ्जय़ उवाच:
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ||
२७ ख
सञ्जय़ उवाच:
तत्र नागा रथाश्चैव जाम्वूनदविभूषिताः |
२८ क
सञ्जय़ उवाच:
निशाय़ां प्रत्यदृश्यन्त मेघा इव सविद्युतः ||
२८ ख
सञ्जय़ उवाच:
ऋष्टिशक्तिगदावाणमुसलप्रासपट्टिशाः |
२९ क
सञ्जय़ उवाच:
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नय़ः ||
२९ ख
सञ्जय़ उवाच:
दुर्योधनपुरोवातां रथनागवलाहकाम् |
३० क
सञ्जय़ उवाच:
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ||
३० ख
सञ्जय़ उवाच:
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् |
३१ क
सञ्जय़ उवाच:
शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् ||
३१ ख
सञ्जय़ उवाच:
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् |
३२ क
सञ्जय़ उवाच:
तां प्राविशन्नतिभय़ां सेनां युद्धचिकीर्षवः ||
३२ ख
सञ्जय़ उवाच:
तस्मिन्रात्रिमुखे घोरे महाशव्दनिनादिते |
३३ क
सञ्जय़ उवाच:
भीरूणां त्रासजनने शूराणां हर्षवर्धने ||
३३ ख
सञ्जय़ उवाच:
रात्रिय़ुद्धे तदा घोरे वर्तमाने सुदारुणे |
३४ क
सञ्जय़ उवाच:
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जय़ाः ||
३४ ख
सञ्जय़ उवाच:
ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः |
३५ क
सञ्जय़ उवाच:
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षय़म् ||
३५ ख