सञ्जय़ उवाच:
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षय़े |
१ क
सञ्जय़ उवाच:
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ||
१ ख
सञ्जय़ उवाच:
व्यपय़ातेषु सैन्येषु वासाय़ भरतर्षभ |
२ क
सञ्जय़ उवाच:
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ||
२ ख
सञ्जय़ उवाच:
प्राय़ात्स्वशिविरं जिष्णुर्जैत्रमास्थाय़ तं रथम् |
३ क
सञ्जय़ उवाच:
गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ||
३ ख
सञ्जय़ उवाच:
किं नु मे हृदय़ं त्रस्तं वाक्यं सज्जति केशव |
४ क
सञ्जय़ उवाच:
स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ||
४ ख
सञ्जय़ उवाच:
अनिष्टं चैव मे श्लिष्टं हृदय़ान्नापसर्पति |
५ क
सञ्जय़ उवाच:
भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासय़न्ति माम् ||
५ ख
सञ्जय़ उवाच:
वहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः |
६ क
सञ्जय़ उवाच:
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ||
६ ख
वासुदेव उवाच:
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति |
७ क
वासुदेव उवाच:
मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ||
७ ख
सञ्जय़ उवाच:
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने |
८ क
सञ्जय़ उवाच:
कथय़न्तौ रणे वृत्तं प्रय़ातौ रथमास्थितौ ||
८ ख
सञ्जय़ उवाच:
ततः स्वशिविरं प्राप्तौ हतानन्दं हतत्विषम् |
९ क
सञ्जय़ उवाच:
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ||
९ ख
सञ्जय़ उवाच:
ध्वस्ताकारं समालक्ष्य शिविरं परवीरहा |
१० क
सञ्जय़ उवाच:
वीभत्सुरव्रवीत्कृष्णमस्वस्थहृदय़स्ततः ||
१० ख
सञ्जय़ उवाच:
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन |
११ क
सञ्जय़ उवाच:
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्वरैः सह |
११ ख
सञ्जय़ उवाच:
वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ||
११ ग
सञ्जय़ उवाच:
मङ्गल्यानि च गीतानि न गाय़न्ति पठन्ति च |
१२ क
सञ्जय़ उवाच:
स्तुतिय़ुक्तानि रम्याणि ममानीकेषु वन्दिनः ||
१२ ख
सञ्जय़ उवाच:
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः |
१३ क
सञ्जय़ उवाच:
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ||
१३ ख
सञ्जय़ उवाच:
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव |
१४ क
सञ्जय़ उवाच:
न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ||
१४ ख
सञ्जय़ उवाच:
अपि पाञ्चालराजस्य विराटस्य च मानद |
१५ क
सञ्जय़ उवाच:
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ||
१५ ख
सञ्जय़ उवाच:
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह |
१६ क
सञ्जय़ उवाच:
रणादाय़ान्तमुचितं प्रत्युद्याति हसन्निव ||
१६ ख
सञ्जय़ उवाच:
एवं सङ्कथय़न्तौ तौ प्रविष्टौ शिविरं स्वकम् |
१७ क
सञ्जय़ उवाच:
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ||
१७ ख
सञ्जय़ उवाच:
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः |
१८ क
सञ्जय़ उवाच:
अपश्यंश्चैव सौभद्रमिदं वचनमव्रवीत् ||
१८ ख
सञ्जय़ उवाच:
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते |
१९ क
सञ्जय़ उवाच:
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ||
१९ ख
सञ्जय़ उवाच:
मय़ा श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः |
२० क
सञ्जय़ उवाच:
न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ||
२० ख
सञ्जय़ उवाच:
न चोपदिष्टस्तस्यासीन्मय़ानीकविनिर्गमः |
२१ क
सञ्जय़ उवाच:
कच्चिन्न वालो युष्माभिः परानीकं प्रवेशितः ||
२१ ख
सञ्जय़ उवाच:
भित्त्वानीकं महेष्वासः परेषां वहुशो युधि |
२२ क
सञ्जय़ उवाच:
कच्चिन्न निहतः शेते सौभद्रः परवीरहा ||
२२ ख
सञ्जय़ उवाच:
लोहिताक्षं महावाहुं जातं सिंहमिवाद्रिषु |
२३ क
सञ्जय़ उवाच:
उपेन्द्रसदृशं व्रूत कथमाय़ोधने हतः ||
२३ ख
सञ्जय़ उवाच:
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् |
२४ क
सञ्जय़ उवाच:
सदा मम प्रिय़ं व्रूत कथमाय़ोधने हतः ||
२४ ख
सञ्जय़ उवाच:
वार्ष्णेय़ीदय़ितं शूरं मय़ा सततलालितम् |
२५ क
सञ्जय़ उवाच:
अम्वाय़ाश्च प्रिय़ं नित्यं कोऽवधीत्कालचोदितः ||
२५ ख
सञ्जय़ उवाच:
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः |
२६ क
सञ्जय़ उवाच:
विक्रमश्रुतमाहात्म्यैः कथमाय़ोधने हतः ||
२६ ख
सञ्जय़ उवाच:
सुभद्राय़ाः प्रिय़ं नित्यं द्रौपद्याः केशवस्य च |
२७ क
सञ्जय़ उवाच:
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||
२७ ख
सञ्जय़ उवाच:
मृदुकुञ्चितकेशान्तं वालं वालमृगेक्षणम् |
२८ क
सञ्जय़ उवाच:
मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ||
२८ ख
सञ्जय़ उवाच:
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा |
२९ क
सञ्जय़ उवाच:
वाल्येऽप्यवालकर्माणं प्रिय़वाक्यममत्सरम् ||
२९ ख
सञ्जय़ उवाच:
महोत्साहं महावाहुं दीर्घराजीवलोचनम् |
३० क
सञ्जय़ उवाच:
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ||
३० ख
सञ्जय़ उवाच:
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् |
३१ क
सञ्जय़ उवाच:
युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ||
३१ ख
सञ्जय़ उवाच:
स्वेषां प्रिय़हिते युक्तं पितॄणां जय़गृद्धिनम् |
३२ क
सञ्जय़ उवाच:
न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् |
३२ ख
सञ्जय़ उवाच:
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ||
३२ ग
सञ्जय़ उवाच:
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् |
३३ क
सञ्जय़ उवाच:
अपश्यतस्तद्वदनं का शान्तिर्हृदय़स्य मे ||
३३ ख
सञ्जय़ उवाच:
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् |
३४ क
सञ्जय़ उवाच:
अशृण्वतः स्वनं तस्य का शान्तिर्हृदय़स्य मे ||
३४ ख
सञ्जय़ उवाच:
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् |
३५ क
सञ्जय़ उवाच:
अपश्यतोऽद्य वीरस्य का शान्तिर्हृदय़स्य मे ||
३५ ख
सञ्जय़ उवाच:
अभिवादनदक्षं तं पितॄणां वचने रतम् |
३६ क
सञ्जय़ उवाच:
नाद्याहं यदि पश्यामि का शान्तिर्हृदय़स्य मे ||
३६ ख
सञ्जय़ उवाच:
सुकुमारः सदा वीरो महार्हशय़नोचितः |
३७ क
सञ्जय़ उवाच:
भूमावनाथवच्छेते नूनं नाथवतां वरः ||
३७ ख
सञ्जय़ उवाच:
शय़ानं समुपासन्ति यं पुरा परमस्त्रिय़ः |
३८ क
सञ्जय़ उवाच:
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ||
३८ ख
सञ्जय़ उवाच:
यः पुरा वोध्यते सुप्तः सूतमागधवन्दिभिः |
३९ क
सञ्जय़ उवाच:
वोधय़न्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ||
३९ ख
सञ्जय़ उवाच:
छत्रच्छाय़ासमुचितं तस्य तद्वदनं शुभम् |
४० क
सञ्जय़ उवाच:
नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ||
४० ख
सञ्जय़ उवाच:
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने |
४१ क
सञ्जय़ उवाच:
भाग्यहीनस्य कालेन यथा मे नीय़से वलात् ||
४१ ख
सञ्जय़ उवाच:
साद्य संय़मनी नूनं सदा सुकृतिनां गतिः |
४२ क
सञ्जय़ उवाच:
स्वभाभिर्भासिता रम्या त्वय़ात्यर्थं विराजते ||
४२ ख
सञ्जय़ उवाच:
नूनं वैवस्वतश्च त्वा वरुणश्च प्रिय़ातिथिः |
४३ क
सञ्जय़ उवाच:
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ||
४३ ख
सञ्जय़ उवाच:
एवं विलप्य वहुधा भिन्नपोतो वणिग्यथा |
४४ क
सञ्जय़ उवाच:
दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ||
४४ ख
सञ्जय़ उवाच:
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन |
४५ क
सञ्जय़ उवाच:
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ||
४५ ख
सञ्जय़ उवाच:
स नूनं वहुभिर्यत्तैर्युध्यमानो नरर्षभैः |
४६ क
सञ्जय़ उवाच:
असहाय़ः सहाय़ार्थी मामनुध्यातवान्ध्रुवम् ||
४६ ख
सञ्जय़ उवाच:
पीड्यमानः शरैर्वालस्तात साध्वभिधाव माम् |
४७ क
सञ्जय़ उवाच:
इति विप्रलपन्मन्ये नृशंसैर्वहुभिर्हतः ||
४७ ख
सञ्जय़ उवाच:
अथ वा मत्प्रसूतश्च स्वस्रीय़ो माधवस्य च |
४८ क
सञ्जय़ उवाच:
सुभद्राय़ां च सम्भूतो नैवं वक्तुमिहार्हति ||
४८ ख
सञ्जय़ उवाच:
वज्रसारमय़ं नूनं हृदय़ं सुदृढं मम |
४९ क
सञ्जय़ उवाच:
अपश्यतो दीर्घवाहुं रक्ताक्षं यन्न दीर्यते ||
४९ ख