chevron_left उद्योग पर्व अध्याय १६
वृहस्पतिरु उवाच:
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् |
१ क
वृहस्पतिरु उवाच:
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ||
१ ख
वृहस्पतिरु उवाच:
त्वामाहुरेकं कवय़स्त्वामाहुस्त्रिविधं पुनः |
२ क
वृहस्पतिरु उवाच:
त्वय़ा त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ||
२ ख
वृहस्पतिरु उवाच:
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् |
३ क
वृहस्पतिरु उवाच:
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||
३ ख
वृहस्पतिरु उवाच:
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः |
४ क
वृहस्पतिरु उवाच:
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ||
४ ख
वृहस्पतिरु उवाच:
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः |
५ क
वृहस्पतिरु उवाच:
सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||
५ ख
वृहस्पतिरु उवाच:
त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि |
६ क
वृहस्पतिरु उवाच:
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हाय़नाः ||
६ ख
वृहस्पतिरु उवाच:
त्वय़्यापो निहिताः सर्वास्त्वय़ि सर्वमिदं जगत् |
७ क
वृहस्पतिरु उवाच:
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक ||
७ ख
वृहस्पतिरु उवाच:
स्वय़ोनिं भजते सर्वो विशस्वापोऽविशङ्कितः |
८ क
वृहस्पतिरु उवाच:
अहं त्वां वर्धय़िष्यामि व्राह्मैर्मन्त्रैः सनातनैः ||
८ ख
शल्य उवाच:
एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः |
९ क
शल्य उवाच:
वृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् |
९ ख
शल्य उवाच:
दर्शय़िष्यामि ते शक्रं सत्यमेतद्व्रवीमि ते ||
९ ग
शल्य उवाच:
प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः |
१० क
शल्य उवाच:
आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ||
१० ख
शल्य उवाच:
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ |
११ क
शल्य उवाच:
अन्वपश्यत्स देवेन्द्रं विसमध्यगतं स्थितम् ||
११ ख
शल्य उवाच:
आगत्य च ततस्तूर्णं तमाचष्ट वृहस्पतेः |
१२ क
शल्य उवाच:
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ||
१२ ख
शल्य उवाच:
गत्वा देवर्षिगन्धर्वैः सहितोऽथ वृहस्पतिः |
१३ क
शल्य उवाच:
पुराणैः कर्मभिर्देवं तुष्टाव वलसूदनम् ||
१३ ख
शल्य उवाच:
महासुरो हतः शक्र नमुचिर्दारुणस्त्वय़ा |
१४ क
शल्य उवाच:
शम्वरश्च वलश्चैव तथोभौ घोरविक्रमौ ||
१४ ख
शल्य उवाच:
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय़ |
१५ क
शल्य उवाच:
उत्तिष्ठ वज्रिन्सम्पश्य देवर्षींश्च समागतान् ||
१५ ख
शल्य उवाच:
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वय़ा विभो |
१६ क
शल्य उवाच:
अपां फेनं समासाद्य विष्णुतेजोपवृंहितम् |
१६ ख
शल्य उवाच:
त्वय़ा वृत्रो हतः पूर्वं देवराज जगत्पते ||
१६ ग
शल्य उवाच:
त्वं सर्वभूतेषु वरेण्य ईड्य; स्त्वय़ा समं विद्यते नेह भूतम् |
१७ क
शल्य उवाच:
त्वय़ा धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ ||
१७ ख
शल्य उवाच:
पाहि देवान्सलोकांश्च महेन्द्र वलमाप्नुहि |
१८ क
शल्य उवाच:
एवं संस्तूय़मानश्च सोऽवर्धत शनैः शनैः ||
१८ ख
शल्य उवाच:
स्वं चैव वपुरास्थाय़ वभूव स वलान्वितः |
१९ क
शल्य उवाच:
अव्रवीच्च गुरुं देवो वृहस्पतिमुपस्थितम् ||
१९ ख
शल्य उवाच:
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः |
२० क
शल्य उवाच:
वृत्रश्च सुमहाकाय़ो ग्रस्तुं लोकानिय़ेष यः ||
२० ख
वृहस्पतिरु उवाच:
मानुषो नहुषो राजा देवर्षिगणतेजसा |
२१ क
वृहस्पतिरु उवाच:
देवराज्यमनुप्राप्तः सर्वान्नो वाधते भृशम् ||
२१ ख
इन्द्र उवाच:
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् |
२२ क
इन्द्र उवाच:
तपसा केन वा युक्तः किंवीर्यो वा वृहस्पते ||
२२ ख
वृहस्पतिरु उवाच:
देवा भीताः शक्रमकामय़न्त; त्वय़ा त्यक्तं महदैन्द्रं पदं तत् |
२३ क
वृहस्पतिरु उवाच:
तदा देवाः पितरोऽथर्षय़श्च; गन्धर्वसङ्घाश्च समेत्य सर्वे ||
२३ ख
वृहस्पतिरु उवाच:
गत्वाव्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता |
२४ क
वृहस्पतिरु उवाच:
तानव्रवीन्नहुषो नास्मि शक्त; आप्याय़ध्वं तपसा तेजसा च ||
२४ ख
वृहस्पतिरु उवाच:
एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः |
२५ क
वृहस्पतिरु उवाच:
त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा ||
२५ ख
वृहस्पतिरु उवाच:
तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित् |
२६ क
वृहस्पतिरु उवाच:
देवाश्च सर्वे नहुषं भय़ार्ता; न पश्यन्तो गूढरूपाश्चरन्ति ||
२६ ख
शल्य उवाच:
एवं वदत्यङ्गिरसां वरिष्ठे; वृहस्पतौ लोकपालः कुवेरः |
२७ क
शल्य उवाच:
वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम ||
२७ ख
शल्य उवाच:
ते वै समागम्य महेन्द्रमूचु; र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः |
२८ क
शल्य उवाच:
दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र ||
२८ ख
शल्य उवाच:
स तान्यथावत्प्रतिभाष्य शक्रः; सञ्चोदय़न्नहुषस्यान्तरेण |
२९ क
शल्य उवाच:
राजा देवानां नहुषो घोररूप; स्तत्र साह्यं दीय़तां मे भवद्भिः ||
२९ ख
शल्य उवाच:
ते चाव्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य विभीम देव |
३० क
शल्य उवाच:
त्वं चेद्राजन्नहुषं पराजय़े; स्तद्वै वय़ं भागमर्हाम शक्र ||
३० ख
शल्य उवाच:
इन्द्रोऽव्रवीद्भवतु भवानपां पति; र्यमः कुवेरश्च महाभिषेकम् |
३१ क
शल्य उवाच:
सम्प्राप्नुवन्त्वद्य सहैव तेन; रिपुं जय़ामो नहुषं घोरदृष्टिम् ||
३१ ख
शल्य उवाच:
ततः शक्रं ज्वलनोऽप्याह भागं; प्रय़च्छ मह्यं तव साह्यं करिष्ये |
३२ क
शल्य उवाच:
तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ ||
३२ ख
शल्य उवाच:
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः |
३३ क
शल्य उवाच:
कुवेरं सर्वय़क्षाणां धनानां च प्रभुं तथा ||
३३ ख
शल्य उवाच:
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा |
३४ क
शल्य उवाच:
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा ||
३४ ख