सञ्जय़ उवाच:
त्वद्युक्तोऽय़मनुप्रश्नो महाराज यथार्हसि |
१ क
सञ्जय़ उवाच:
न तु दुर्योधने दोषमिममासक्तुमर्हसि ||
१ ख
सञ्जय़ उवाच:
य आत्मनो दुश्चरितादशुभं प्राप्नुय़ान्नरः |
२ क
सञ्जय़ उवाच:
एनसा तेन नान्यं स उपाशङ्कितुमर्हति ||
२ ख
सञ्जय़ उवाच:
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |
३ क
सञ्जय़ उवाच:
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||
३ ख
सञ्जय़ उवाच:
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षय़ा |
४ क
सञ्जय़ उवाच:
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ||
४ ख
सञ्जय़ उवाच:
हय़ानां च गजानां च शूराणां चामितौजसाम् |
५ क
सञ्जय़ उवाच:
प्रत्यक्षं यन्मय़ा दृष्टं दृष्टं योगवलेन च ||
५ ख
सञ्जय़ उवाच:
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः |
६ क
सञ्जय़ उवाच:
दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप ||
६ ख
सञ्जय़ उवाच:
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय़ धीमते |
७ क
सञ्जय़ उवाच:
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ||
७ ख
सञ्जय़ उवाच:
दृष्टिश्चातीन्द्रिय़ा राजन्दूराच्छ्रवणमेव च |
८ क
सञ्जय़ उवाच:
परचित्तस्य विज्ञानमतीतानागतस्य च ||
८ ख
सञ्जय़ उवाच:
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा |
९ क
सञ्जय़ उवाच:
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ||
९ ख
सञ्जय़ उवाच:
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् |
१० क
सञ्जय़ उवाच:
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ||
१० ख
सञ्जय़ उवाच:
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः |
११ क
सञ्जय़ उवाच:
दुर्योधनो महाराज दुःशासनमथाव्रवीत् ||
११ ख
सञ्जय़ उवाच:
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |
१२ क
सञ्जय़ उवाच:
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय़ ||
१२ ख
सञ्जय़ उवाच:
अय़ं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः |
१३ क
सञ्जय़ उवाच:
पाण्डवानां ससैन्यानां कुरूणां च समागमः ||
१३ ख
सञ्जय़ उवाच:
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् |
१४ क
सञ्जय़ उवाच:
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जय़ान् ||
१४ ख
सञ्जय़ उवाच:
अव्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |
१५ क
सञ्जय़ उवाच:
श्रूय़ते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ||
१५ ख
सञ्जय़ उवाच:
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः |
१६ क
सञ्जय़ उवाच:
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ||
१६ ख
सञ्जय़ उवाच:
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः |
१७ क
सञ्जय़ उवाच:
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ||
१७ ख
सञ्जय़ उवाच:
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावलम् |
१८ क
सञ्जय़ उवाच:
मा सिंहं जम्वुकेनेव घातय़ामः शिखण्डिना ||
१८ ख
सञ्जय़ उवाच:
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् |
१९ क
सञ्जय़ उवाच:
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ||
१९ ख
सञ्जय़ उवाच:
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः |
२० क
सञ्जय़ उवाच:
यथा न हन्याद्गाङ्गेय़ं दुःशासन तथा कुरु ||
२० ख
सञ्जय़ उवाच:
ततो रजन्यां व्युष्टाय़ां शव्दः समभवन्महान् |
२१ क
सञ्जय़ उवाच:
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ||
२१ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत |
२२ क
सञ्जय़ उवाच:
हय़हेषितशव्दैश्च रथनेमिस्वनैस्तथा ||
२२ ख
सञ्जय़ उवाच:
गजानां वृंहतां चैव योधानां चाभिगर्जताम् |
२३ क
सञ्जय़ उवाच:
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ||
२३ ख
सञ्जय़ उवाच:
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः |
२४ क
सञ्जय़ उवाच:
सूर्योदय़े महत्सैन्यं कुरुपाण्डवसेनय़ोः |
२४ ख
सञ्जय़ उवाच:
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ||
२४ ग
सञ्जय़ उवाच:
तत्र नागा रथाश्चैव जाम्वूनदपरिष्कृताः |
२५ क
सञ्जय़ उवाच:
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ||
२५ ख
सञ्जय़ उवाच:
रथानीकान्यदृश्यन्त नगराणीव भूरिशः |
२६ क
सञ्जय़ उवाच:
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ||
२६ ख
सञ्जय़ उवाच:
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः |
२७ क
सञ्जय़ उवाच:
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ||
२७ ख
सञ्जय़ उवाच:
गजा रथाः पदाताश्च तुरगाश्च विशां पते |
२८ क
सञ्जय़ उवाच:
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ||
२८ ख
सञ्जय़ उवाच:
ध्वजा वहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः |
२९ क
सञ्जय़ उवाच:
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ||
२९ ख
सञ्जय़ उवाच:
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः |
३० क
सञ्जय़ उवाच:
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ||
३० ख
सञ्जय़ उवाच:
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव |
३१ क
सञ्जय़ उवाच:
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ||
३१ ख
सञ्जय़ उवाच:
उद्यतैराय़ुधैश्चित्रास्तलवद्धाः कलापिनः |
३२ क
सञ्जय़ उवाच:
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता वभुः ||
३२ ख
सञ्जय़ उवाच:
शकुनिः सौवलः शल्यः सैन्धवोऽथ जय़द्रथः |
३३ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ काम्वोजश्च सुदक्षिणः ||
३३ ख
सञ्जय़ उवाच:
श्रुताय़ुधश्च कालिङ्गो जय़त्सेनश्च पार्थिवः |
३४ क
सञ्जय़ उवाच:
वृहद्वलश्च कौशल्यः कृतवर्मा च सात्वतः ||
३४ ख
सञ्जय़ उवाच:
दशैते पुरुषव्याघ्राः शूराः परिघवाहवः |
३५ क
सञ्जय़ उवाच:
अक्षौहिणीनां पतय़ो यज्वानो भूरिदक्षिणाः ||
३५ ख
सञ्जय़ उवाच:
एते चान्ये च वहवो दुर्योधनवशानुगाः |
३६ क
सञ्जय़ उवाच:
राजानो राजपुत्राश्च नीतिमन्तो महावलाः ||
३६ ख
सञ्जय़ उवाच:
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः |
३७ क
सञ्जय़ उवाच:
वद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ||
३७ ख
सञ्जय़ उवाच:
सृष्टा दुर्योधनस्यार्थे व्रह्मलोकाय़ दीक्षिताः |
३८ क
सञ्जय़ उवाच:
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ||
३८ ख
सञ्जय़ उवाच:
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः |
३९ क
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ||
३९ ख
सञ्जय़ उवाच:
श्वेतोष्णीषं श्वेतहय़ं श्वेतवर्माणमच्युतम् |
४० क
सञ्जय़ उवाच:
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ||
४० ख
सञ्जय़ उवाच:
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् |
४१ क
सञ्जय़ उवाच:
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ||
४१ ख
सञ्जय़ उवाच:
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः |
४२ क
सञ्जय़ उवाच:
सृञ्जय़ाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ||
४२ ख
सञ्जय़ उवाच:
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा |
४३ क
सञ्जय़ उवाच:
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ||
४३ ख
सञ्जय़ उवाच:
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत |
४४ क
सञ्जय़ उवाच:
पाण्डवानां तथा सप्त महापुरुषपालिताः ||
४४ ख
सञ्जय़ उवाच:
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ |
४५ क
सञ्जय़ उवाच:
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ||
४५ ख
सञ्जय़ उवाच:
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः |
४६ क
सञ्जय़ उवाच:
अनीकानां समेतानां समवाय़स्तथाविधः ||
४६ ख