chevron_left द्रोण पर्व अध्याय १६
सञ्जय़ उवाच:
ते सेने शिविरं गत्वा न्यविशेतां विशां पते |
१ क
सञ्जय़ उवाच:
यथाभागं यथान्याय़ं यथागुल्मं च सर्वशः ||
१ ख
सञ्जय़ उवाच:
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः |
२ क
सञ्जय़ उवाच:
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
उक्तमेतन्मय़ा पूर्वं न तिष्ठति धनञ्जय़े |
३ क
सञ्जय़ उवाच:
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ||
३ ख
सञ्जय़ उवाच:
इति तद्वः प्रय़ततां कृतं पार्थेन संय़ुगे |
४ क
सञ्जय़ उवाच:
मातिशङ्कीर्वचो मह्यमजेय़ौ कृष्णपाण्डवौ ||
४ ख
सञ्जय़ उवाच:
अपनीते तु योगेन केनचिच्छ्वेतवाहने |
५ क
सञ्जय़ उवाच:
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ||
५ ख
सञ्जय़ उवाच:
कश्चिदाह्वय़तां सङ्ख्ये देशमन्यं प्रकर्षतु |
६ क
सञ्जय़ उवाच:
तमजित्वा तु कौन्तेय़ो न निवर्तेत्कथञ्चन ||
६ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप |
७ क
सञ्जय़ उवाच:
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ||
७ ख
सञ्जय़ उवाच:
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् |
८ क
सञ्जय़ उवाच:
मामुपाय़ान्तमालोक्य गृहीतमिति विद्धि तम् ||
८ ख
सञ्जय़ उवाच:
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् |
९ क
सञ्जय़ उवाच:
समानेष्यामि सगणं वशमद्य न संशय़ः ||
९ ख
सञ्जय़ उवाच:
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः |
१० क
सञ्जय़ उवाच:
अथापय़ाति सङ्ग्रामाद्विजय़ात्तद्विशिष्यते ||
१० ख
सञ्जय़ उवाच:
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः |
११ क
सञ्जय़ उवाच:
भ्रातृभिः सहितो राजन्निदं वचनमव्रवीत् ||
११ ख
सञ्जय़ उवाच:
वय़ं विनिकृता राजन्सदा गाण्डीवधन्वना |
१२ क
सञ्जय़ उवाच:
अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ||
१२ ख
सञ्जय़ उवाच:
ते वय़ं स्मरमाणास्तान्विनिकारान्पृथग्विधान् |
१३ क
सञ्जय़ उवाच:
क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ||
१३ ख
सञ्जय़ उवाच:
स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषय़मागतः |
१४ क
सञ्जय़ उवाच:
कर्तारः स्म वय़ं सर्वं यच्चिकीर्षाम हृद्गतम् ||
१४ ख
सञ्जय़ उवाच:
भवतश्च प्रिय़ं यत्स्यादस्माकं च यशस्करम् |
१५ क
सञ्जय़ उवाच:
वय़मेनं हनिष्यामो निकृष्याय़ोधनाद्वहिः ||
१५ ख
सञ्जय़ उवाच:
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः |
१६ क
सञ्जय़ उवाच:
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ||
१६ ख
सञ्जय़ उवाच:
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत |
१७ क
सञ्जय़ उवाच:
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ||
१७ ख
सञ्जय़ उवाच:
सहिता भ्रातरः पञ्च रथानामय़ुतेन च |
१८ क
सञ्जय़ उवाच:
न्यवर्तन्त महाराज कृत्वा शपथमाहवे ||
१८ ख
सञ्जय़ उवाच:
मालवास्तुण्डिकेराश्च रथानामय़ुतैस्त्रिभिः |
१९ क
सञ्जय़ उवाच:
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ||
१९ ख
सञ्जय़ उवाच:
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि |
२० क
सञ्जय़ उवाच:
रथानामय़ुतेनैव सोऽशपद्भ्रातृभिः सह ||
२० ख
सञ्जय़ उवाच:
नानाजनपदेभ्यश्च रथानामय़ुतं पुनः |
२१ क
सञ्जय़ उवाच:
समुत्थितं विशिष्टानां संशपार्थमुपागतम् ||
२१ ख
सञ्जय़ उवाच:
ततो ज्वलनमादाय़ हुत्वा सर्वे पृथक्पृथक् |
२२ क
सञ्जय़ उवाच:
जगृहुः कुशचीराणि चित्राणि कवचानि च ||
२२ ख
सञ्जय़ उवाच:
ते च वद्धतनुत्राणा घृताक्ताः कुशचीरिणः |
२३ क
सञ्जय़ उवाच:
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ||
२३ ख
सञ्जय़ उवाच:
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः |
२४ क
सञ्जय़ उवाच:
योक्ष्यमाणास्तदात्मानं यशसा विजय़ेन च ||
२४ ख
सञ्जय़ उवाच:
व्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः |
२५ क
सञ्जय़ उवाच:
प्राप्य लोकान्सुय़ुद्धेन क्षिप्रमेव यिय़ासवः ||
२५ ख
सञ्जय़ उवाच:
व्राह्मणांस्तर्पय़ित्वा च निष्कान्दत्त्वा पृथक्पृथक् |
२६ क
सञ्जय़ उवाच:
गाश्च वासांसि च पुनः समाभाष्य परस्परम् ||
२६ ख
सञ्जय़ उवाच:
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् |
२७ क
सञ्जय़ उवाच:
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चय़ाः ||
२७ ख
सञ्जय़ उवाच:
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे |
२८ क
सञ्जय़ उवाच:
धृत्वा धनञ्जय़वधे प्रतिज्ञां चापि चक्रिरे ||
२८ ख
सञ्जय़ उवाच:
ये वै लोकाश्चानृतानां ये चैव व्रह्मघातिनाम् |
२९ क
सञ्जय़ उवाच:
पानपस्य च ये लोका गुरुदाररतस्य च ||
२९ ख
सञ्जय़ उवाच:
व्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः |
३० क
सञ्जय़ उवाच:
शरणागतं च त्यजतो याचमानं तथा घ्नतः ||
३० ख
सञ्जय़ उवाच:
अगारदाहिनां ये च ये च गां निघ्नतामपि |
३१ क
सञ्जय़ उवाच:
अपचारिणां च ये लोका ये च व्रह्मद्विषामपि ||
३१ ख
सञ्जय़ उवाच:
जाय़ां च ऋतुकाले वै ये मोहादभिगच्छताम् |
३२ क
सञ्जय़ उवाच:
श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् ||
३२ ख
सञ्जय़ उवाच:
न्यासापहारिणां ये च श्रुतं नाशय़तां च ये |
३३ क
सञ्जय़ उवाच:
कोपेन युध्यमानानां ये च नीचानुसारिणाम् ||
३३ ख
सञ्जय़ उवाच:
नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् |
३४ क
सञ्जय़ उवाच:
तानाप्नुय़ामहे लोकान्ये च पापकृतामपि ||
३४ ख
सञ्जय़ उवाच:
यद्यहत्वा वय़ं युद्धे निवर्तेम धनञ्जय़म् |
३५ क
सञ्जय़ उवाच:
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ||
३५ ख
सञ्जय़ उवाच:
यदि त्वसुकरं लोके कर्म कुर्याम संय़ुगे |
३६ क
सञ्जय़ उवाच:
इष्टान्पुण्यकृतां लोकान्प्राप्नुय़ाम न संशय़ः ||
३६ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संय़ुगे |
३७ क
सञ्जय़ उवाच:
आह्वय़न्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ||
३७ ख
सञ्जय़ उवाच:
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जय़ः |
३८ क
सञ्जय़ उवाच:
धर्मराजमिदं वाक्यमपदान्तरमव्रवीत् ||
३८ ख
सञ्जय़ उवाच:
आहूतो न निवर्तेय़मिति मे व्रतमाहितम् |
३९ क
सञ्जय़ उवाच:
संशप्तकाश्च मां राजन्नाह्वय़न्ति पुनः पुनः ||
३९ ख
सञ्जय़ उवाच:
एष च भ्रातृभिः सार्धं सुशर्माह्वय़ते रणे |
४० क
सञ्जय़ उवाच:
वधाय़ सगणस्यास्य मामनुज्ञातुमर्हसि ||
४० ख
सञ्जय़ उवाच:
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ |
४१ क
सञ्जय़ उवाच:
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ||
४१ ख
युधिष्ठिर उवाच:
श्रुतमेतत्त्वय़ा तात यद्द्रोणस्य चिकीर्षितम् |
४२ क
युधिष्ठिर उवाच:
यथा तदनृतं तस्य भवेत्तद्वत्समाचर ||
४२ ख
युधिष्ठिर उवाच:
द्रोणो हि वलवाञ्शूरः कृतास्त्रश्च जितश्रमः |
४३ क
युधिष्ठिर उवाच:
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ||
४३ ख
अर्जुन उवाच:
अय़ं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि |
४४ क
अर्जुन उवाच:
ध्रिय़माणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ||
४४ ख
अर्जुन उवाच:
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो |
४५ क
अर्जुन उवाच:
सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ||
४५ ख
सञ्जय़ उवाच:
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः |
४६ क
सञ्जय़ उवाच:
प्रेम्णा दृष्टश्च वहुधा आशिषा च प्रय़ोजितः ||
४६ ख
सञ्जय़ उवाच:
विहाय़ैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्वली |
४७ क
सञ्जय़ उवाच:
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ||
४७ ख
सञ्जय़ उवाच:
ततो दौर्योधनं सैन्यं मुदा परमय़ा युतम् |
४८ क
सञ्जय़ उवाच:
गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ||
४८ ख
सञ्जय़ उवाच:
ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा |
४९ क
सञ्जय़ उवाच:
गङ्गासरय़्वोर्वेगेन प्रावृषीवोल्वणोदके ||
४९ ख