chevron_left कर्ण पर्व अध्याय १६
धृतराष्ट्र उवाच:
पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
एकवीरेण कर्णेन द्रावितेषु परेषु च ||
१ ख
धृतराष्ट्र उवाच:
समाप्तविद्यो वलवान्युक्तो वीरश्च पाण्डवः |
२ क
धृतराष्ट्र उवाच:
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ||
२ ख
धृतराष्ट्र उवाच:
तस्मान्महद्भय़ं तीव्रममित्रघ्नाद्धनञ्जय़ात् |
३ क
धृतराष्ट्र उवाच:
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय़ ||
३ ख
सञ्जय़ उवाच:
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् |
४ क
सञ्जय़ उवाच:
पश्यातिमान्यं राजानमपय़ातांश्च पाण्डवान् ||
४ ख
सञ्जय़ उवाच:
अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जय़ाः |
५ क
सञ्जय़ उवाच:
तथाश्वनरनागानां कृतं च कदनं महत् |
५ ख
सञ्जय़ उवाच:
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ||
५ ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भय़म् |
६ क
सञ्जय़ उवाच:
वाहय़ाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ||
६ ख
सञ्जय़ उवाच:
ततः प्राय़ाद्धृषीकेशो रथेनाप्रतिय़ोधिना |
७ क
सञ्जय़ उवाच:
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ||
७ ख
सञ्जय़ उवाच:
ततः प्रववृते भूय़ः सङ्ग्रामो राजसत्तम |
८ क
सञ्जय़ उवाच:
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||
८ ख
सञ्जय़ उवाच:
धनूंषि वाणान्परिघानसितोमरपट्टिशान् |
९ क
सञ्जय़ उवाच:
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ||
९ ख
सञ्जय़ उवाच:
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् |
१० क
सञ्जय़ उवाच:
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषय़ा ||
१० ख
सञ्जय़ उवाच:
वाणज्यातलशव्देन द्यां दिशः प्रदिशो विय़त् |
११ क
सञ्जय़ उवाच:
पृथिवीं नेमिघोषेण नादय़न्तोऽभ्ययुः परान् ||
११ ख
सञ्जय़ उवाच:
तेन शव्देन महता संहृष्टाश्चक्रुराहवम् |
१२ क
सञ्जय़ उवाच:
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ||
१२ ख
सञ्जय़ उवाच:
ज्यातलत्रधनुःशव्दाः कुञ्जराणां च वृंहितम् |
१३ क
सञ्जय़ उवाच:
ताडितानां च पततां निनादः सुमहानभूत् ||
१३ ख
सञ्जय़ उवाच:
वाणशव्दांश्च विविधाञ्शूराणामभिगर्जताम् |
१४ क
सञ्जय़ उवाच:
श्रुत्वा शव्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ||
१४ ख
सञ्जय़ उवाच:
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् |
१५ क
सञ्जय़ उवाच:
वहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ||
१५ ख
सञ्जय़ उवाच:
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च |
१६ क
सञ्जय़ उवाच:
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षय़म् ||
१६ ख
सञ्जय़ उवाच:
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे |
१७ क
सञ्जय़ उवाच:
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ||
१७ ख
सञ्जय़ उवाच:
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडय़न् |
१८ क
सञ्जय़ उवाच:
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ||
१८ ख
सञ्जय़ उवाच:
द्विषन्मध्यमवस्कन्द्य राधेय़ो धनुरुत्तमम् |
१९ क
सञ्जय़ उवाच:
विधुन्वानः शितैर्वाणैः शिरांस्युन्मथ्य पातय़त् ||
१९ ख
सञ्जय़ उवाच:
चर्मवर्माणि सञ्छिन्द्य निर्वापमिव देहिनाम् |
२० क
सञ्जय़ उवाच:
विषेहुर्नास्य सम्पर्कं द्वितीय़स्य पतत्रिणः ||
२० ख
सञ्जय़ उवाच:
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः |
२१ क
सञ्जय़ उवाच:
मौर्व्या तलत्रैर्न्यवधीत्कशय़ा वाजिनो यथा ||
२१ ख
सञ्जय़ उवाच:
पाण्डुसृञ्जय़पाञ्चालाञ्शरगोचरमानय़त् |
२२ क
सञ्जय़ उवाच:
ममर्द कर्णस्तरसा सिंहो मृगगणानिव ||
२२ ख
सञ्जय़ उवाच:
ततः पाञ्चालपुत्राश्च द्रौपदेय़ाश्च मारिष |
२३ क
सञ्जय़ उवाच:
यमौ च युय़ुधानश्च सहिताः कर्णमभ्ययुः ||
२३ ख
सञ्जय़ उवाच:
व्याय़च्छमानाः सुभृशं कुरुपाण्डवसृञ्जय़ाः |
२४ क
सञ्जय़ उवाच:
प्रिय़ानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ||
२४ ख
सञ्जय़ उवाच:
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः |
२५ क
सञ्जय़ उवाच:
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ||
२५ ख
सञ्जय़ उवाच:
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः |
२६ क
सञ्जय़ उवाच:
नदन्तश्चाह्वय़न्तश्च प्रवल्गन्तश्च मारिष ||
२६ ख
सञ्जय़ उवाच:
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः |
२७ क
सञ्जय़ उवाच:
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ||
२७ ख
सञ्जय़ उवाच:
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः |
२८ क
सञ्जय़ उवाच:
जीवन्त इव चाप्येते तस्थुः शस्त्रोपवृंहिताः ||
२८ ख
सञ्जय़ उवाच:
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा |
२९ क
सञ्जय़ उवाच:
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ||
२९ ख
सञ्जय़ उवाच:
ततक्षुश्चिच्छिदुश्चान्ये विभिदुश्चिक्षिपुस्तथा |
३० क
सञ्जय़ उवाच:
सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा निर्विभिदुश्च ह ||
३० ख
सञ्जय़ उवाच:
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः |
३१ क
सञ्जय़ उवाच:
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ||
३१ ख
सञ्जय़ उवाच:
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः |
३२ क
सञ्जय़ उवाच:
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ||
३२ ख
सञ्जय़ उवाच:
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः |
३३ क
सञ्जय़ उवाच:
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ||
३३ ख
सञ्जय़ उवाच:
नरांश्च नागांश्च रथान्हय़ान्ममृदुराहवे |
३४ क
सञ्जय़ उवाच:
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ||
३४ ख
सञ्जय़ उवाच:
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः |
३५ क
सञ्जय़ उवाच:
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ||
३५ ख
सञ्जय़ उवाच:
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः |
३६ क
सञ्जय़ उवाच:
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः |
३६ ख
सञ्जय़ उवाच:
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ||
३६ ग
सञ्जय़ उवाच:
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः |
३७ क
सञ्जय़ उवाच:
हतानां वदनान्यासन्गात्राणि च महामते ||
३७ ख
सञ्जय़ उवाच:
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप |
३८ क
सञ्जय़ उवाच:
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ||
३८ ख