chevron_left शल्य पर्व अध्याय १६
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ वलवद्वेगवत्तरम् |
१ क
सञ्जय़ उवाच:
युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ||
१ ख
सञ्जय़ उवाच:
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् |
२ क
सञ्जय़ उवाच:
अभ्यवर्षदमेय़ात्मा क्षत्रिय़ान्क्षत्रिय़र्षभः ||
२ ख
सञ्जय़ उवाच:
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः |
३ क
सञ्जय़ उवाच:
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडय़त् ||
३ ख
सञ्जय़ उवाच:
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् |
४ क
सञ्जय़ उवाच:
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रय़ाय़िनः |
४ ख
सञ्जय़ उवाच:
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ||
४ ग
सञ्जय़ उवाच:
वाहूंश्चिच्छेद च तथा साय़ुधान्केतनानि च |
५ क
सञ्जय़ उवाच:
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ||
५ ख
सञ्जय़ उवाच:
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् |
६ क
सञ्जय़ उवाच:
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ||
६ ख
सञ्जय़ उवाच:
तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |
७ क
सञ्जय़ उवाच:
समागतं भीमवलेन राज्ञा; पर्यापुरन्योन्यमथाह्वय़न्तः ||
७ ख
सञ्जय़ उवाच:
ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम् |
८ क
सञ्जय़ उवाच:
आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः ||
८ ख
सञ्जय़ उवाच:
संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेन |
९ क
सञ्जय़ उवाच:
मद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने ||
९ ख
सञ्जय़ उवाच:
ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम् |
१० क
सञ्जय़ उवाच:
पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् ||
१० ख
सञ्जय़ उवाच:
ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत् |
११ क
सञ्जय़ उवाच:
तं चापि पार्थो नवभिः पृषत्कै; र्विव्याध राजंस्तुमुले महात्मा ||
११ ख
सञ्जय़ उवाच:
आकर्णपूर्णाय़तसम्प्रय़ुक्तैः; शरैस्तदा संय़ति तैलधौतैः |
१२ क
सञ्जय़ उवाच:
अन्योन्यमाच्छादय़तां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च ||
१२ ख
सञ्जय़ उवाच:
ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ |
१३ क
सञ्जय़ उवाच:
शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महावलौ शत्रुभिरप्रधृष्यौ ||
१३ ख
सञ्जय़ उवाच:
तय़ोर्धनुर्ज्यातलनिस्वनो महा; न्महेन्द्रवज्राशनितुल्यनिस्वनः |
१४ क
सञ्जय़ उवाच:
परस्परं वाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरय़ोः ||
१४ ख
सञ्जय़ उवाच:
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविव |
१५ क
सञ्जय़ उवाच:
विषाणिनौ नागवराविवोभौ; ततक्षतुः संय़ुगजातदर्पौ ||
१५ ख
सञ्जय़ उवाच:
ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमवलं प्रसह्य |
१६ क
सञ्जय़ उवाच:
विव्याध वीरं हृदय़ेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण ||
१६ ख
सञ्जय़ उवाच:
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसम्प्रय़ुक्तेन शरेण राजन् |
१७ क
सञ्जय़ उवाच:
जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् ||
१७ ख
सञ्जय़ उवाच:
ततो मुहूर्तादिव पार्थिवेन्द्रो; लव्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः |
१८ क
सञ्जय़ उवाच:
शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः ||
१८ ख
सञ्जय़ उवाच:
त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः |
१९ क
सञ्जय़ उवाच:
भित्त्वा ह्युरस्तपनीय़ं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः ||
१९ ख
सञ्जय़ उवाच:
ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान् |
२० क
सञ्जय़ उवाच:
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ; श्चिच्छेद चापं कुरुपुङ्गवस्य ||
२० ख
सञ्जय़ उवाच:
नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्मा |
२१ क
सञ्जय़ उवाच:
शल्यं तु विद्ध्वा निशितैः समन्ता; द्यथा महेन्द्रो नमुचिं शिताग्रैः ||
२१ ख
सञ्जय़ उवाच:
ततस्तु शल्यो नवभिः पृषत्कै; र्भीमस्य राज्ञश्च युधिष्ठिरस्य |
२२ क
सञ्जय़ उवाच:
निकृत्य रौक्मे पटुवर्मणी तय़ो; र्विदारय़ामास भुजौ महात्मा ||
२२ ख
सञ्जय़ उवाच:
ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथ |
२३ क
सञ्जय़ उवाच:
कृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात ||
२३ ख
सञ्जय़ उवाच:
मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान् |
२४ क
सञ्जय़ उवाच:
वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षय़ं धर्मसुतस्य राज्ञः ||
२४ ख
सञ्जय़ उवाच:
तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा |
२५ क
सञ्जय़ उवाच:
छित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ||
२५ ख
सञ्जय़ उवाच:
अथापरेणास्य जहार यन्तुः; काय़ाच्छिरः संनहनीय़मध्यात् |
२६ क
सञ्जय़ उवाच:
जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः ||
२६ ख
सञ्जय़ उवाच:
तमग्रणीः सर्वधनुर्धराणा; मेकं चरन्तं समरेऽतिवेगम् |
२७ क
सञ्जय़ उवाच:
भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव ||
२७ ख
सञ्जय़ उवाच:
तैः साय़कैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्म |
२८ क
सञ्जय़ उवाच:
स भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् ||
२८ ख
सञ्जय़ उवाच:
प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत् |
२९ क
सञ्जय़ उवाच:
छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमवलोऽभ्यधावत् ||
२९ ख
सञ्जय़ उवाच:
तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम् |
३० क
सञ्जय़ उवाच:
धृष्टद्युम्नो द्रौपदेय़ाः शिखण्डी; शिनेश्च नप्ता सहसा परीय़ुः ||
३० ख
सञ्जय़ उवाच:
अथास्य चर्माप्रतिमं न्यकृन्त; द्भीमो महात्मा दशभिः पृषत्कः |
३१ क
सञ्जय़ उवाच:
खड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये ||
३१ ख
सञ्जय़ उवाच:
तत्कर्म भीमस्य समीक्ष्य हृष्टा; स्ते पाण्डवानां प्रवरा रथौघाः |
३२ क
सञ्जय़ उवाच:
नादं च चक्रुर्भृशमुत्स्मय़न्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् ||
३२ ख
सञ्जय़ उवाच:
तेनाथ शव्देन विभीषणेन; तवाभितप्तं वलमप्रहृष्टम् |
३३ क
सञ्जय़ उवाच:
स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसञ्ज्ञकल्पं च तथा विषण्णम् ||
३३ ख
सञ्जय़ उवाच:
स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवय़ोधमुख्यैः |
३४ क
सञ्जय़ उवाच:
युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रय़ातः ||
३४ ख
सञ्जय़ उवाच:
स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् |
३५ क
सञ्जय़ उवाच:
दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं वलेन ||
३५ ख
सञ्जय़ उवाच:
गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय़ |
३६ क
सञ्जय़ उवाच:
स धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ||
३६ ख
सञ्जय़ उवाच:
तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम् |
३७ क
सञ्जय़ उवाच:
स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे ||
३७ ख
सञ्जय़ उवाच:
स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् |
३८ क
सञ्जय़ उवाच:
नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् ||
३८ ख
सञ्जय़ उवाच:
निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण |
३९ क
सञ्जय़ उवाच:
अभून्न यद्भस्मसान्मद्रराज; स्तदद्भुतं मे प्रतिभाति राजन् ||
३९ ख
सञ्जय़ उवाच:
ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् |
४० क
सञ्जय़ उवाच:
चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय़ प्रवरः कुरूणाम् ||
४० ख
सञ्जय़ उवाच:
दीप्तामथैनां महता वलेन; सविस्फुलिङ्गां सहसा पतन्तीम् |
४१ क
सञ्जय़ उवाच:
प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् ||
४१ ख
सञ्जय़ उवाच:
तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम् |
४२ क
सञ्जय़ उवाच:
सव्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः ||
४२ ख
सञ्जय़ उवाच:
गन्धस्रगग्र्यासनपानभोजनै; रभ्यर्चितां पाण्डुसुतैः प्रय़त्नात् |
४३ क
सञ्जय़ उवाच:
संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् ||
४३ ख
सञ्जय़ उवाच:
ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम् |
४४ क
सञ्जय़ उवाच:
भूम्यन्तरिक्षादिजलाशय़ानि; प्रसह्य भूतानि निहन्तुमीशाम् ||
४४ ख
सञ्जय़ उवाच:
घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीय़दण्डाम् |
४५ क
सञ्जय़ उवाच:
त्वष्ट्रा प्रय़त्नान्निय़मेन कॢप्तां; व्रह्मद्विषामन्तकरीममोघाम् ||
४५ ख
सञ्जय़ उवाच:
वलप्रय़त्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रय़ित्वा |
४६ क
सञ्जय़ उवाच:
ससर्ज मार्गेण च तां परेण; वधाय़ मद्राधिपतेस्तदानीम् ||
४६ ख
सञ्जय़ उवाच:
हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकाय़ान्तकरं यथेषुम् |
४७ क
सञ्जय़ उवाच:
प्रसार्य वाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः ||
४७ ख
सञ्जय़ उवाच:
तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् |
४८ क
सञ्जय़ उवाच:
प्रतिग्रहाय़ाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् ||
४८ ख
सञ्जय़ उवाच:
सा तस्य मर्माणि विदार्य शुभ्र; मुरो विशालं च तथैव वर्म |
४९ क
सञ्जय़ उवाच:
विवेश गां तोय़मिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती ||
४९ ख
सञ्जय़ उवाच:
नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसम्भवेन |
५० क