chevron_left उद्योग पर्व अध्याय १६०
सञ्जय़ उवाच:
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः |
१ क
सञ्जय़ उवाच:
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ||
१ ख
सञ्जय़ उवाच:
स केशवमभिप्रेक्ष्य गुडाकेशो महाय़शाः |
२ क
सञ्जय़ उवाच:
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ||
२ ख
सञ्जय़ उवाच:
स्ववीर्यं यः समाश्रित्य समाह्वय़ति वै परान् |
३ क
सञ्जय़ उवाच:
अभीतः पूरय़ञ्शक्तिं स वै पुरुष उच्यते ||
३ ख
सञ्जय़ उवाच:
परवीर्यं समाश्रित्य यः समाह्वय़ते परान् |
४ क
सञ्जय़ उवाच:
क्षत्रवन्धुरशक्तत्वाल्लोके स पुरुषाधमः ||
४ ख
सञ्जय़ उवाच:
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः |
५ क
सञ्जय़ उवाच:
स्वय़ं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ||
५ ख
सञ्जय़ उवाच:
यस्त्वं वृद्धं सर्वराज्ञां हितवुद्धिं जितेन्द्रिय़म् |
६ क
सञ्जय़ उवाच:
मरणाय़ महावुद्धिं दीक्षय़ित्वा विकत्थसे ||
६ ख
सञ्जय़ उवाच:
भावस्ते विदितोऽस्माभिर्दुर्वुद्धे कुलपांसन |
७ क
सञ्जय़ उवाच:
न हनिष्यन्ति गङ्गेय़ं पाण्डवा घृणय़ेति च ||
७ ख
सञ्जय़ उवाच:
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे |
८ क
सञ्जय़ उवाच:
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ||
८ ख
सञ्जय़ उवाच:
कैतव्य गत्वा भरतान्समेत्य; सुय़ोधनं धार्तराष्ट्रं व्रवीहि |
९ क
सञ्जय़ उवाच:
तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाय़े भविता विमर्दः ||
९ ख
सञ्जय़ उवाच:
यद्वोऽव्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षय़न्सत्यसन्धः |
१० क
सञ्जय़ उवाच:
अहं हन्ता पाण्डवानामनीकं; शाल्वेय़कांश्चेति ममैष भारः ||
१० ख
सञ्जय़ उवाच:
हन्यामहं द्रोणमृते हि लोकं; न ते भय़ं विद्यते पाण्डवेभ्यः |
११ क
सञ्जय़ उवाच:
ततो हि ते लव्धतमं च राज्यं; क्षय़ं गताः पाण्डवाश्चेति भावः ||
११ ख
सञ्जय़ उवाच:
स दर्पपूर्णो न समीक्षसे त्व; मनर्थमात्मन्यपि वर्तमानम् |
१२ क
सञ्जय़ उवाच:
तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव ||
१२ ख
सञ्जय़ उवाच:
सूर्योदय़े युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसन्धम् |
१३ क
सञ्जय़ उवाच:
अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातय़ितास्मि वाणैः ||
१३ ख
सञ्जय़ उवाच:
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुय़ोधनः |
१४ क
सञ्जय़ उवाच:
अर्दितं शरजालेन मय़ा दृष्ट्वा पितामहम् ||
१४ ख
सञ्जय़ उवाच:
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः |
१५ क
सञ्जय़ उवाच:
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ||
१५ ख
सञ्जय़ उवाच:
अधर्मज्ञो नित्यवैरी पापवुद्धिर्नृशंसकृत् |
१६ क
सञ्जय़ उवाच:
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुय़ोधन ||
१६ ख
सञ्जय़ उवाच:
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा |
१७ क
सञ्जय़ उवाच:
नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च ||
१७ ख
सञ्जय़ उवाच:
नृशंसताय़ास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च |
१८ क
सञ्जय़ उवाच:
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ||
१८ ख
सञ्जय़ उवाच:
दर्शनस्य च वक्रस्य कृत्स्नस्यापनय़स्य च |
१९ क
सञ्जय़ उवाच:
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुय़ोधन ||
१९ ख
सञ्जय़ उवाच:
वासुदेवद्वितीय़े हि मय़ि क्रुद्धे नराधिप |
२० क
सञ्जय़ उवाच:
आशा ते जीविते मूढ राज्ये वा केन हेतुना ||
२० ख
सञ्जय़ उवाच:
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते |
२१ क
सञ्जय़ उवाच:
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ||
२१ ख
सञ्जय़ उवाच:
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुय़ोधन |
२२ क
सञ्जय़ उवाच:
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ||
२२ ख
सञ्जय़ उवाच:
न द्वितीय़ां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः |
२३ क
सञ्जय़ उवाच:
सत्यं व्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ||
२३ ख
सञ्जय़ उवाच:
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च |
२४ क
सञ्जय़ उवाच:
अनुज्ञातो निववृते पुनरेव यथागतम् ||
२४ ख
सञ्जय़ उवाच:
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् |
२५ क
सञ्जय़ उवाच:
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ||
२५ ख
सञ्जय़ उवाच:
केशवार्जुनय़ोर्वाक्यं निशम्य भरतर्षभः |
२६ क
सञ्जय़ उवाच:
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ||
२६ ख
सञ्जय़ उवाच:
आज्ञापय़त राज्ञश्च वलं मित्रवलं तथा |
२७ क
सञ्जय़ उवाच:
यथा प्रागुदय़ात्सर्वा युक्ता तिष्ठत्यनीकिनी ||
२७ ख
सञ्जय़ उवाच:
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः |
२८ क
सञ्जय़ उवाच:
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ||
२८ ख
सञ्जय़ उवाच:
तूर्णं परिय़युः सेनां कृत्स्नां कर्णस्य शासनात् |
२९ क
सञ्जय़ उवाच:
आज्ञापय़न्तो राज्ञस्तान्योगः प्रागुदय़ादिति ||
२९ ख