chevron_left द्रोण पर्व अध्याय १६१
सञ्जय़ उवाच:
त्रिभागमात्रशेषाय़ां रात्र्यां युद्धमवर्तत |
१ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च संहृष्टानां विशां पते ||
१ ख
सञ्जय़ उवाच:
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः |
२ क
सञ्जय़ उवाच:
अरुणोऽभ्युदय़ां चक्रे ताम्रीकुर्वन्निवाम्वरम् ||
२ ख
सञ्जय़ उवाच:
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् |
३ क
सञ्जय़ उवाच:
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ||
३ ख
सञ्जय़ उवाच:
द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमव्रवीत् |
४ क
सञ्जय़ उवाच:
सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ||
४ ख
सञ्जय़ उवाच:
स माधवमनुज्ञाय़ कुरुष्वेति धनञ्जय़ः |
५ क
सञ्जय़ उवाच:
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ||
५ ख
सञ्जय़ उवाच:
अभिप्राय़ं तु कृष्णस्य ज्ञात्वा परपुरञ्जय़ः |
६ क
सञ्जय़ उवाच:
आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ||
६ ख
भीम उवाच:
अर्जुनार्जुन वीभत्सो शृणु मे तत्त्वतो वचः |
७ क
भीम उवाच:
यदर्थं क्षत्रिय़ा सूते तस्य कालोऽय़मागतः ||
७ ख
भीम उवाच:
अस्मिंश्चेदागते काले श्रेय़ो न प्रतिपत्स्यसे |
८ क
भीम उवाच:
असम्भावितरूपः सन्नानृशंस्यं करिष्यसि ||
८ ख
भीम उवाच:
सत्यश्रीधर्मय़शसां वीर्येणानृण्यमाप्नुहि |
९ क
भीम उवाच:
भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु ||
९ ख
सञ्जय़ उवाच:
स सव्यसाची भीमेन चोदितः केशवेन च |
१० क
सञ्जय़ उवाच:
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारय़त् ||
१० ख
सञ्जय़ उवाच:
तमाजिशीर्षमाय़ान्तं दहन्तं क्षत्रिय़र्षभान् |
११ क
सञ्जय़ उवाच:
पराक्रान्तं पराक्रम्य यतन्तः क्षत्रिय़र्षभाः |
११ ख
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं वर्धमानमिवानलम् ||
११ ग
सञ्जय़ उवाच:
अथ दुर्योधनः कर्णः शकुनिश्चापि सौवलः |
१२ क
सञ्जय़ उवाच:
अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनञ्जय़म् ||
१२ ख
सञ्जय़ उवाच:
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः |
१३ क
सञ्जय़ उवाच:
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ||
१३ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जय़ः |
१४ क
सञ्जय़ उवाच:
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ||
१४ ख
सञ्जय़ उवाच:
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च |
१५ क
सञ्जय़ उवाच:
तमश्च घोरं शव्दश्च तदा समभवन्महान् ||
१५ ख
सञ्जय़ उवाच:
न द्यौर्न भूमिर्न दिशः प्राज्ञाय़न्त तथा गते |
१६ क
सञ्जय़ उवाच:
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ||
१६ ख
सञ्जय़ उवाच:
नैव ते न वय़ं राजन्प्रज्ञासिष्म परस्परम् |
१७ क
सञ्जय़ उवाच:
उद्देशेन हि तेन स्म समय़ुध्यन्त पार्थिवाः ||
१७ ख
सञ्जय़ उवाच:
विरथा रथिनो राजन्समासाद्य परस्परम् |
१८ क
सञ्जय़ उवाच:
केषेशु समसज्जन्त कवचेषु भुजेषु च ||
१८ ख
सञ्जय़ उवाच:
हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा |
१९ क
सञ्जय़ उवाच:
जीवन्त इव तत्र स्म व्यदृश्यन्त भय़ार्दिताः ||
१९ ख
सञ्जय़ उवाच:
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः |
२० क
सञ्जय़ उवाच:
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ||
२० ख
सञ्जय़ उवाच:
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् |
२१ क
सञ्जय़ उवाच:
अतिष्ठदाहवे द्रोणो विधूम इव पावकः ||
२१ ख
सञ्जय़ उवाच:
तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु |
२२ क
सञ्जय़ उवाच:
समकम्पन्त सैन्यानि पाण्डवानां विशां पते ||
२२ ख
सञ्जय़ उवाच:
भ्राजमानं श्रिय़ा युक्तं ज्वलन्तमिव तेजसा |
२३ क
सञ्जय़ उवाच:
द्रोणं दृष्ट्वारय़स्त्रेसुश्चेलुर्मम्लुश्च मारिष ||
२३ ख
सञ्जय़ उवाच:
आह्वय़न्तं परानीकं प्रभिन्नमिव वारणम् |
२४ क
सञ्जय़ उवाच:
नैनं शशंसिरे जेतुं दानवा वासवं यथा ||
२४ ख
सञ्जय़ उवाच:
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः |
२५ क
सञ्जय़ उवाच:
विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ||
२५ ख
सञ्जय़ उवाच:
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः |
२६ क
सञ्जय़ उवाच:
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||
२६ ख
सञ्जय़ उवाच:
व्याक्षिपन्नाय़ुधानन्ये ममृदुश्चापरे भुजान् |
२७ क
सञ्जय़ उवाच:
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ||
२७ ख
सञ्जय़ उवाच:
पाञ्चालास्तु विशेषेण द्रोणसाय़कपीडिताः |
२८ क
सञ्जय़ उवाच:
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ||
२८ ख
सञ्जय़ उवाच:
ततो विराटद्रुपदौ द्रोणं प्रतिय़यू रणे |
२९ क
सञ्जय़ उवाच:
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जय़म् ||
२९ ख
सञ्जय़ उवाच:
द्रुपदस्य ततः पौत्रास्त्रय़ एव विशां पते |
३० क
सञ्जय़ उवाच:
चेदय़श्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ||
३० ख
सञ्जय़ उवाच:
तेषां द्रुपदपौत्राणां त्रय़ाणां निशितैः शरैः |
३१ क
सञ्जय़ उवाच:
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ||
३१ ख
सञ्जय़ उवाच:
ततो द्रोणोऽजय़द्युद्धे चेदिकेकय़सृञ्जय़ान् |
३२ क
सञ्जय़ उवाच:
मत्स्यांश्चैवाजय़त्सर्वान्भारद्वाजो महारथः ||
३२ ख
सञ्जय़ उवाच:
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् |
३३ क
सञ्जय़ उवाच:
द्रोणं प्रति महाराज विराटश्चैव संय़ुगे ||
३३ ख
सञ्जय़ उवाच:
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः |
३४ क
सञ्जय़ उवाच:
द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षय़म् ||
३४ ख
सञ्जय़ उवाच:
हते विराटे द्रुपदे केकय़ेषु तथैव च |
३५ क
सञ्जय़ उवाच:
तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च |
३५ ख
सञ्जय़ उवाच:
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ||
३५ ग
सञ्जय़ उवाच:
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः |
३६ क
सञ्जय़ उवाच:
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ||
३६ ख
सञ्जय़ उवाच:
इष्टापूर्तात्तथा क्षात्राद्व्राह्मण्याच्च स नश्यतु |
३७ क
सञ्जय़ उवाच:
द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ||
३७ ख
सञ्जय़ उवाच:
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् |
३८ क
सञ्जय़ उवाच:
आय़ाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा |
३८ ख
सञ्जय़ उवाच:
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ||
३८ ग
सञ्जय़ उवाच:
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौवलः |
३९ क
सञ्जय़ उवाच:
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ||
३९ ख
सञ्जय़ उवाच:
रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः |
४० क
सञ्जय़ उवाच:
यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ||
४० ख
सञ्जय़ उवाच:
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष |
४१ क
सञ्जय़ उवाच:
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ||
४१ ख
सञ्जय़ उवाच:
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः |
४२ क
सञ्जय़ उवाच:
कः क्षत्रिय़ो मन्यमानः प्रेक्षेतारिमवस्थितम् ||
४२ ख
सञ्जय़ उवाच:
पितृपुत्रवधं प्राप्य पुमान्कः परिहापय़ेत् |
४३ क
सञ्जय़ उवाच:
विशेषतस्तु शपथं शपित्वा राजसंसदि ||
४३ ख
सञ्जय़ उवाच:
एष वैश्वानर इव समिद्धः स्वेन तेजसा |
४४ क
सञ्जय़ उवाच:
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ||
४४ ख
सञ्जय़ उवाच:
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् |
४५ क
सञ्जय़ उवाच:
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ||
४५ ख
सञ्जय़ उवाच:
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः |
४६ क
सञ्जय़ उवाच:
दृढैः पूर्णाय़तोत्सृष्टैर्द्रावय़ंस्तव वाहिनीम् ||
४६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् |
४७ क
सञ्जय़ उवाच:
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ||
४७ ख
सञ्जय़ उवाच:
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् |
४८ क
सञ्जय़ उवाच:
यथा सूर्योदय़े राजन्समुत्पिञ्जोऽभवन्महान् ||
४८ ख
सञ्जय़ उवाच:
संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष |
४९ क