chevron_left शान्ति पर्व अध्याय १६१
वैशम्पाय़न उवाच:
इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् ||
१ ख
वैशम्पाय़न उवाच:
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता |
२ क
वैशम्पाय़न उवाच:
तेषां गरीय़ान्कतमो मध्यमः को लघुश्च कः ||
२ ख
वैशम्पाय़न उवाच:
कस्मिंश्चात्मा निय़न्तव्यस्त्रिवर्गविजय़ाय़ वै |
३ क
वैशम्पाय़न उवाच:
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ||
३ ख
वैशम्पाय़न उवाच:
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् |
४ क
वैशम्पाय़न उवाच:
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ||
४ ख
वैशम्पाय़न उवाच:
वाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिय़ा क्षमा |
५ क
वैशम्पाय़न उवाच:
भावशुद्धिर्दय़ा सत्यं संय़मश्चात्मसम्पदः ||
५ ख
वैशम्पाय़न उवाच:
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः |
६ क
वैशम्पाय़न उवाच:
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ||
६ ख
वैशम्पाय़न उवाच:
धर्मेणैवर्षय़स्तीर्णा धर्मे लोकाः प्रतिष्ठिताः |
७ क
वैशम्पाय़न उवाच:
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ||
७ ख
वैशम्पाय़न उवाच:
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते |
८ क
वैशम्पाय़न उवाच:
कामो यवीय़ानिति च प्रवदन्ति मनीषिणः |
८ ख
वैशम्पाय़न उवाच:
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ||
८ ग
वैशम्पाय़न उवाच:
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः |
९ क
वैशम्पाय़न उवाच:
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ||
९ ख
वैशम्पाय़न उवाच:
कर्मभूमिरिय़ं राजन्निह वार्त्ता प्रशस्यते |
१० क
वैशम्पाय़न उवाच:
कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च ||
१० ख
वैशम्पाय़न उवाच:
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः |
११ क
वैशम्पाय़न उवाच:
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ||
११ ख
वैशम्पाय़न उवाच:
विजय़ी ह्यर्थवान्धर्ममाराधय़ितुमुत्तमम् |
१२ क
वैशम्पाय़न उवाच:
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ||
१२ ख
वैशम्पाय़न उवाच:
अर्थस्यावय़वावेतौ धर्मकामाविति श्रुतिः |
१३ क
वैशम्पाय़न उवाच:
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ||
१३ ख
वैशम्पाय़न उवाच:
उद्भूतार्थं हि पुरुषं विशिष्टतरय़ोनय़ः |
१४ क
वैशम्पाय़न उवाच:
व्रह्माणमिव भूतानि सततं पर्युपासते ||
१४ ख
वैशम्पाय़न उवाच:
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रिय़ाः |
१५ क
वैशम्पाय़न उवाच:
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ||
१५ ख
वैशम्पाय़न उवाच:
काषाय़वसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः |
१६ क
वैशम्पाय़न उवाच:
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ||
१६ ख
वैशम्पाय़न उवाच:
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः |
१७ क
वैशम्पाय़न उवाच:
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ||
१७ ख
वैशम्पाय़न उवाच:
आस्तिका नास्तिकाश्चैव निय़ताः संय़मे परे |
१८ क
वैशम्पाय़न उवाच:
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता ||
१८ ख
वैशम्पाय़न उवाच:
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजय़ति सोऽर्थवान् |
१९ क
वैशम्पाय़न उवाच:
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् |
१९ ख
वैशम्पाय़न उवाच:
अनय़ोस्तु निवोध त्वं वचनं वाक्यकण्ठय़ोः ||
१९ ग
वैशम्पाय़न उवाच:
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् |
२० क
वैशम्पाय़न उवाच:
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ||
२० ख
वैशम्पाय़न उवाच:
आसीनश्च शय़ानश्च विचरन्नपि च स्थितः |
२१ क
वैशम्पाय़न उवाच:
अर्थय़ोगं दृढं कुर्याद्योगैरुच्चावचैरपि ||
२१ ख
वैशम्पाय़न उवाच:
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय़े |
२२ क
वैशम्पाय़न उवाच:
इह कामानवाप्नोति प्रत्यक्षं नात्र संशय़ः ||
२२ ख
वैशम्पाय़न उवाच:
योऽर्थो धर्मेण संय़ुक्तो धर्मो यश्चार्थसंय़ुतः |
२३ क
वैशम्पाय़न उवाच:
मध्विवामृतसंय़ुक्तं तस्मादेतौ मताविह ||
२३ ख
वैशम्पाय़न उवाच:
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः |
२४ क
वैशम्पाय़न उवाच:
तस्मादुद्विजते लोको धर्मार्थाद्यो वहिष्कृतः ||
२४ ख
वैशम्पाय़न उवाच:
तस्माद्धर्मप्रधानेन साध्योऽर्थः संय़तात्मना |
२५ क
वैशम्पाय़न उवाच:
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ||
२५ ख
वैशम्पाय़न उवाच:
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंय़ुतम् |
२६ क
वैशम्पाय़न उवाच:
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ||
२६ ख
वैशम्पाय़न उवाच:
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ |
२७ क
वैशम्पाय़न उवाच:
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ||
२७ ख
वैशम्पाय़न उवाच:
नाकामः कामय़त्यर्थं नाकामो धर्ममिच्छति |
२८ क
वैशम्पाय़न उवाच:
नाकामः कामय़ानोऽस्ति तस्मात्कामो विशिष्यते ||
२८ ख
वैशम्पाय़न उवाच:
कामेन युक्ता ऋषय़स्तपस्येव समाहिताः |
२९ क
वैशम्पाय़न उवाच:
पलाशफलमूलाशा वाय़ुभक्षाः सुसंय़ताः ||
२९ ख
वैशम्पाय़न उवाच:
वेदोपवादेष्वपरे युक्ताः स्वाध्याय़पारगाः |
३० क
वैशम्पाय़न उवाच:
श्राद्धय़ज्ञक्रिय़ाय़ां च तथा दानप्रतिग्रहे ||
३० ख
वैशम्पाय़न उवाच:
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा |
३१ क
वैशम्पाय़न उवाच:
दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ||
३१ ख
वैशम्पाय़न उवाच:
समुद्रं चाविशन्त्यन्ये नराः कामेन संय़ुताः |
३२ क
वैशम्पाय़न उवाच:
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ||
३२ ख
वैशम्पाय़न उवाच:
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् |
३३ क
वैशम्पाय़न उवाच:
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ||
३३ ख
वैशम्पाय़न उवाच:
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः |
३४ क
वैशम्पाय़न उवाच:
श्रेय़स्तैलं च पिण्याकाद्धृतं श्रेय़ उदश्वितः ||
३४ ख
वैशम्पाय़न उवाच:
श्रेय़ः पुष्पफलं काष्ठात्कामो धर्मार्थय़ोर्वरः |
३५ क
वैशम्पाय़न उवाच:
पुष्पतो मध्विव रसः कामात्सञ्जाय़ते सुखम् ||
३५ ख
वैशम्पाय़न उवाच:
सुचारुवेषाभिरलङ्कृताभि; र्मदोत्कटाभिः प्रिय़वादिनीभिः |
३६ क
वैशम्पाय़न उवाच:
रमस्व योषाभिरुपेत्य कामं; कामो हि राजंस्तरसाभिपाती ||
३६ ख
वैशम्पाय़न उवाच:
वुद्धिर्ममैषा परिषत्स्थितस्य; मा भूद्विचारस्तव धर्मपुत्र |
३७ क
वैशम्पाय़न उवाच:
स्यात्संहितं सद्भिरफल्गुसारं; समेत्य वाक्यं परमानृशंस्यम् ||
३७ ख
वैशम्पाय़न उवाच:
धर्मार्थकामाः सममेव सेव्या; यस्त्वेकसेवी स नरो जघन्यः |
३८ क
वैशम्पाय़न उवाच:
द्वय़ोस्तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस्त्रिवर्गे ||
३८ ख
वैशम्पाय़न उवाच:
प्राज्ञः सुहृच्चन्दनसारलिप्तो; विचित्रमाल्याभरणैरुपेतः |
३९ क
वैशम्पाय़न उवाच:
ततो वचः सङ्ग्रहविग्रहेण; प्रोक्त्वा यवीय़ान्विरराम भीमः ||
३९ ख
वैशम्पाय़न उवाच:
ततो मुहूर्तादथ धर्मराजो; वाक्यानि तेषामनुचिन्त्य सम्यक् |
४० क
वैशम्पाय़न उवाच:
उवाच वाचावितथं स्मय़न्वै; वहुश्रुतो धर्मभृतां वरिष्ठः ||
४० ख
वैशम्पाय़न उवाच:
निःसंशय़ं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः |
४१ क
वैशम्पाय़न उवाच:
विज्ञातुकामस्य ममेह वाक्य; मुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे |
४१ ख
वैशम्पाय़न उवाच:
इह त्ववश्यं गदतो ममापि; वाक्यं निवोधध्वमनन्यभावाः ||
४१ ग
वैशम्पाय़न उवाच:
यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे |
४२ क
वैशम्पाय़न उवाच:
विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः ||
४२ ख
वैशम्पाय़न उवाच:
भूतानि जातीमरणान्वितानि; जराविकारैश्च समन्वितानि |
४३ क
वैशम्पाय़न उवाच:
भूय़श्च तैस्तैः प्रतिवोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः ||
४३ ख
वैशम्पाय़न उवाच:
स्नेहे नवद्धस्य न सन्ति तानी; त्येवं स्वय़म्भूर्भगवानुवाच |
४४ क
वैशम्पाय़न उवाच:
वुधाश्च निर्वाणपरा वदन्ति; तस्मान्न कुर्यात्प्रिय़मप्रिय़ं च ||
४४ ख
वैशम्पाय़न उवाच:
एतत्प्रधानं न तु कामकारो; यथा निय़ुक्तोऽस्मि तथा चरामि |
४५ क
वैशम्पाय़न उवाच:
भूतानि सर्वाणि विधिर्निय़ुङ्क्ते; विधिर्वलीय़ानिति वित्त सर्वे ||
४५ ख
वैशम्पाय़न उवाच:
न कर्मणाप्नोत्यनवाप्यमर्थं; यद्भावि सर्वं भवतीति वित्त |
४६ क
वैशम्पाय़न उवाच:
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं; तस्मादिदं लोकहिताय़ गुह्यम् ||
४६ ख
वैशम्पाय़न उवाच:
ततस्तदग्र्यं वचनं मनोनुगं; समस्तमाज्ञाय़ ततोऽतिहेतुमत् |
४७ क
वैशम्पाय़न उवाच:
तदा प्रणेदुश्च जहर्षिरे च ते; कुरुप्रवीराय़ च चक्रुरञ्जलीन् ||
४७ ख
वैशम्पाय़न उवाच:
सुचारुवर्णाक्षरशव्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम् |
४८ क
वैशम्पाय़न उवाच:
निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुरेव ते |
४८ ख
वैशम्पाय़न उवाच:
पुनश्च पप्रच्छ सरिद्वरासुतं; ततः परं धर्ममहीनसत्त्वः ||
४८ ग