सञ्जय़ उवाच:
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |
१ क
सञ्जय़ उवाच:
सेनां निर्यापय़ामास धृष्टद्युम्नपुरोगमाम् ||
१ ख
सञ्जय़ उवाच:
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् |
२ क
सञ्जय़ उवाच:
चतुर्विधवलां भीमामकम्प्यां पृथिवीमिव ||
२ ख
सञ्जय़ उवाच:
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः |
३ क
सञ्जय़ उवाच:
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ||
३ ख
सञ्जय़ उवाच:
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः |
४ क
सञ्जय़ उवाच:
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ||
४ ख
सञ्जय़ उवाच:
यथावलं यथोत्साहं रथिनः समुपादिशत् |
५ क
सञ्जय़ उवाच:
अर्जुनं सूतपुत्राय़ भीमं दुर्योधनाय़ च ||
५ ख
सञ्जय़ उवाच:
अश्वत्थाम्ने च नकुलं शैव्यं च कृतवर्मणे |
६ क
सञ्जय़ उवाच:
सैन्धवाय़ च वार्ष्णेय़ं युय़ुधानमुपादिशत् ||
६ ख
सञ्जय़ उवाच:
शिखण्डिनं च भीष्माय़ प्रमुखे समकल्पय़त् |
७ क
सञ्जय़ उवाच:
सहदेवं शकुनय़े चेकितानं शलाय़ च ||
७ ख
सञ्जय़ उवाच:
धृष्टकेतुं च शल्याय़ गौतमाय़ोत्तमौजसम् |
८ क
सञ्जय़ उवाच:
द्रौपदेय़ांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ||
८ ख
सञ्जय़ उवाच:
वृषसेनाय़ सौभद्रं शेषाणां च महीक्षिताम् |
९ क
सञ्जय़ उवाच:
समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ||
९ ख
सञ्जय़ उवाच:
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह |
१० क
सञ्जय़ उवाच:
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पय़त् ||
१० ख
सञ्जय़ उवाच:
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः |
११ क
सञ्जय़ उवाच:
विधिवद्व्यूह्य मेधावी युद्धाय़ धृतमानसः ||
११ ख
सञ्जय़ उवाच:
यथादिष्टान्यनीकानि पाण्डवानामय़ोजय़त् |
१२ क
सञ्जय़ उवाच:
जय़ाय़ पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ||
१२ ख