सुदेव उवाच:
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः |
१ क
सुदेव उवाच:
सुतेय़ं तस्य कल्याणी दमय़न्तीति विश्रुता ||
१ ख
सुदेव उवाच:
राजा तु नैषधो नाम वीरसेनसुतो नलः |
२ क
सुदेव उवाच:
भार्येय़ं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ||
२ ख
सुदेव उवाच:
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः |
३ क
सुदेव उवाच:
दमय़न्त्या गतः सार्धं न प्रज्ञाय़त कर्हिचित् ||
३ ख
सुदेव उवाच:
ते वय़ं दमय़न्त्यर्थे चरामः पृथिवीमिमाम् |
४ क
सुदेव उवाच:
सेय़मासादिता वाला तव पुत्रनिवेशने ||
४ ख
सुदेव उवाच:
अस्या रूपेण सदृशी मानुषी नेह विद्यते |
५ क
सुदेव उवाच:
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः |
५ ख
सुदेव उवाच:
श्यामाय़ाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मय़ा ||
५ ग
सुदेव उवाच:
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः |
६ क
सुदेव उवाच:
चिह्नभूतो विभूत्यर्थमय़ं धात्रा विनिर्मितः ||
६ ख
सुदेव उवाच:
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते |
७ क
सुदेव उवाच:
न चास्या नश्यते रूपं वपुर्मलसमाचितम् |
७ ख
सुदेव उवाच:
असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ||
७ ग
सुदेव उवाच:
अनेन वपुषा वाला पिप्लुनानेन चैव ह |
८ क
सुदेव उवाच:
लक्षितेय़ं मय़ा देवी पिहितोऽग्निरिवोष्मणा ||
८ ख
वृहदश्व उवाच:
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते |
९ क
वृहदश्व उवाच:
सुनन्दा शोधय़ामास पिप्लुप्रच्छादनं मलम् ||
९ ख
वृहदश्व उवाच:
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत |
१० क
वृहदश्व उवाच:
दमय़न्त्यास्तदा व्यभ्रे नभसीव निशाकरः ||
१० ख
वृहदश्व उवाच:
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत |
११ क
वृहदश्व उवाच:
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः |
११ ख
वृहदश्व उवाच:
उत्सृज्य वाष्पं शनकै राजमातेदमव्रवीत् ||
११ ग
वृहदश्व उवाच:
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता |
१२ क
वृहदश्व उवाच:
अहं च तव माता च राजन्यस्य महात्मनः |
१२ ख
वृहदश्व उवाच:
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ||
१२ ग
वृहदश्व उवाच:
भीमस्य राज्ञः सा दत्ता वीरवाहोरहं पुनः |
१३ क
वृहदश्व उवाच:
त्वं तु जाता मय़ा दृष्टा दशार्णेषु पितुर्गृहे ||
१३ ख
वृहदश्व उवाच:
यथैव ते पितुर्गेहं तथेदमपि भामिनि |
१४ क
वृहदश्व उवाच:
यथैव हि ममैश्वर्यं दमय़न्ति तथा तव ||
१४ ख
वृहदश्व उवाच:
तां प्रहृष्टेन मनसा दमय़न्ती विशां पते |
१५ क
वृहदश्व उवाच:
अभिवाद्य मातुर्भगिनीमिदं वचनमव्रवीत् ||
१५ ख
वृहदश्व उवाच:
अज्ञाय़मानापि सती सुखमस्म्युषितेह वै |
१६ क
वृहदश्व उवाच:
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वय़ा ||
१६ ख
वृहदश्व उवाच:
सुखात्सुखतरो वासो भविष्यति न संशय़ः |
१७ क
वृहदश्व उवाच:
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ||
१७ ख
वृहदश्व उवाच:
दारकौ च हि मे नीतौ वसतस्तत्र वालकौ |
१८ क
वृहदश्व उवाच:
पित्रा विहीनौ शोकार्तौ मय़ा चैव कथं नु तौ ||
१८ ख
वृहदश्व उवाच:
यदि चापि प्रिय़ं किञ्चिन्मय़ि कर्तुमिहेच्छसि |
१९ क
वृहदश्व उवाच:
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ||
१९ ख
वृहदश्व उवाच:
वाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप |
२० क
वृहदश्व उवाच:
गुप्तां वलेन महता पुत्रस्यानुमते ततः ||
२० ख
वृहदश्व उवाच:
प्रस्थापय़द्राजमाता श्रीमता नरवाहिना |
२१ क
वृहदश्व उवाच:
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ||
२१ ख
वृहदश्व उवाच:
ततः सा नचिरादेव विदर्भानगमच्छुभा |
२२ क
वृहदश्व उवाच:
तां तु वन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजय़त् ||
२२ ख
वृहदश्व उवाच:
सर्वान्कुशलिनो दृष्ट्वा वान्धवान्दारकौ च तौ |
२३ क
वृहदश्व उवाच:
मातरं पितरं चैव सर्वं चैव सखीजनम् ||
२३ ख
वृहदश्व उवाच:
देवताः पूजय़ामास व्राह्मणांश्च यशस्विनी |
२४ क
वृहदश्व उवाच:
विधिना परेण कल्याणी दमय़न्ती विशां पते ||
२४ ख
वृहदश्व उवाच:
अतर्पय़त्सुदेवं च गोसहस्रेण पार्थिवः |
२५ क
वृहदश्व उवाच:
प्रीतो दृष्ट्वैव तनय़ां ग्रामेण द्रविणेन च ||
२५ ख
वृहदश्व उवाच:
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी |
२६ क
वृहदश्व उवाच:
विश्रान्ता मातरं राजन्निदं वचनमव्रवीत् ||
२६ ख