chevron_left शान्ति पर्व अध्याय १६२
युधिष्ठिर उवाच:
पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन |
१ क
युधिष्ठिर उवाच:
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ||
१ ख
युधिष्ठिर उवाच:
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् |
२ क
युधिष्ठिर उवाच:
आय़त्यां च तदात्वे च के क्षमास्तान्वदस्व मे ||
२ ख
युधिष्ठिर उवाच:
न हि तत्र धनं स्फीतं न च सम्वन्धिवान्धवाः |
३ क
युधिष्ठिर उवाच:
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ||
३ ख
युधिष्ठिर उवाच:
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् |
४ क
युधिष्ठिर उवाच:
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ||
४ ख
भीष्म उवाच:
सन्धेय़ान्पुरुषान्राजन्नसन्धेय़ांश्च तत्त्वतः |
५ क
भीष्म उवाच:
वदतो मे निवोध त्वं निखिलेन युधिष्ठिर ||
५ ख
भीष्म उवाच:
लुव्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च |
६ क
भीष्म उवाच:
क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः ||
६ ख
भीष्म उवाच:
दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः |
७ क
भीष्म उवाच:
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ||
७ ख
भीष्म उवाच:
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः |
८ क
भीष्म उवाच:
सम्प्रकीर्णेन्द्रिय़ो लोके यः कामनिरतश्चरेत् ||
८ ख
भीष्म उवाच:
असत्यो लोकविद्विष्टः समय़े चानवस्थितः |
९ क
भीष्म उवाच:
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चय़ः ||
९ ख
भीष्म उवाच:
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा |
१० क
भीष्म उवाच:
मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः ||
१० ख
भीष्म उवाच:
वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः |
११ क
भीष्म उवाच:
अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ ||
११ ख
भीष्म उवाच:
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते |
१२ क
भीष्म उवाच:
सुहृदश्चैव कल्याणानाशु त्यजति किल्विषी ||
१२ ख
भीष्म उवाच:
अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च |
१३ क
भीष्म उवाच:
कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप ||
१३ ख
भीष्म उवाच:
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः |
१४ क
भीष्म उवाच:
न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ||
१४ ख
भीष्म उवाच:
पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा |
१५ क
भीष्म उवाच:
परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः ||
१५ ख
भीष्म उवाच:
कृतघ्नश्चाधमो लोके न सन्धेय़ः कथञ्चन |
१६ क
भीष्म उवाच:
छिद्रान्वेषी न सन्धेय़ः सन्धेय़ानपि मे शृणु ||
१६ ख
भीष्म उवाच:
कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः |
१७ क
भीष्म उवाच:
मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः ||
१७ ख
भीष्म उवाच:
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रिय़ाः |
१८ क
भीष्म उवाच:
व्याय़ामशीलाः सततं भृतपुत्राः कुलोद्गताः ||
१८ ख
भीष्म उवाच:
रूपवन्तो गुणोपेतास्तथालुव्धा जितश्रमाः |
१९ क
भीष्म उवाच:
दोषैर्विय़ुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह ||
१९ ख
भीष्म उवाच:
यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो |
२० क
भीष्म उवाच:
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ||
२० ख
भीष्म उवाच:
विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः |
२१ क
भीष्म उवाच:
आत्मानं पीडय़ित्वापि सुहृत्कार्यपराय़णाः |
२१ ख
भीष्म उवाच:
न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् ||
२१ ग
भीष्म उवाच:
दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ |
२२ क
भीष्म उवाच:
न दर्शय़न्ति सुहृदां विश्वस्ता वन्धुवत्सलाः ||
२२ ख
भीष्म उवाच:
लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठवुद्धय़ः |
२३ क
भीष्म उवाच:
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः |
२३ ख
भीष्म उवाच:
सङ्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ||
२३ ग
भीष्म उवाच:
ईदृशैः पुरुषश्रेष्ठैः सन्धिं यः कुरुते नृपः |
२४ क
भीष्म उवाच:
तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव ||
२४ ख
भीष्म उवाच:
शास्त्रनित्या जितक्रोधा वलवन्तो रणप्रिय़ाः |
२५ क
भीष्म उवाच:
क्षान्ताः शीलगुणोपेताः सन्धेय़ाः पुरुषोत्तमाः ||
२५ ख
भीष्म उवाच:
ये च दोषसमाय़ुक्ता नराः प्रोक्ता मय़ानघ |
२६ क
भीष्म उवाच:
तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः |
२६ ख
भीष्म उवाच:
त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चय़ः ||
२६ ग
युधिष्ठिर उवाच:
विस्तरेणार्थसम्वन्धं श्रोतुमिच्छामि पार्थिव |
२७ क
युधिष्ठिर उवाच:
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ||
२७ ख
भीष्म उवाच:
हन्त ते वर्तय़िष्येऽहमितिहासं पुरातनम् |
२८ क
भीष्म उवाच:
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ||
२८ ख
भीष्म उवाच:
व्राह्मणो मध्यदेशीय़ः कृष्णाङ्गो व्रह्मवर्जितः |
२९ क
भीष्म उवाच:
ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षय़ा ||
२९ ख
भीष्म उवाच:
तत्र दस्युर्धनय़ुतः सर्ववर्णविशेषवित् |
३० क
भीष्म उवाच:
व्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ||
३० ख
भीष्म उवाच:
तस्य क्षय़मुपागम्य ततो भिक्षामय़ाचत |
३१ क
भीष्म उवाच:
प्रतिश्रय़ं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ||
३१ ख
भीष्म उवाच:
प्रादात्तस्मै स विप्राय़ वस्त्रं च सदृशं नवम् |
३२ क
भीष्म उवाच:
नारीं चापि वय़ोपेतां भर्त्रा विरहितां तदा ||
३२ ख
भीष्म उवाच:
एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा |
३३ क
भीष्म उवाच:
तस्मिन्गृहवरे राजंस्तय़ा रेमे स गौतमः ||
३३ ख
भीष्म उवाच:
कुटुम्वार्थेषु दस्योः स साहाय़्यं चाप्यथाकरोत् |
३४ क
भीष्म उवाच:
तत्रावसत्सोऽथ वर्षाः समृद्धे शवरालय़े |
३४ ख
भीष्म उवाच:
वाणवेध्ये परं यत्नमकरोच्चैव गौतमः ||
३४ ग
भीष्म उवाच:
वक्राङ्गांस्तु स नित्यं वै सर्वतो वाणगोचरे |
३५ क
भीष्म उवाच:
जघान गौतमो राजन्यथा दस्युगणस्तथा ||
३५ ख
भीष्म उवाच:
हिंसापरो घृणाहीनः सदा प्राणिवधे रतः |
३६ क
भीष्म उवाच:
गौतमः संनिकर्षेण दस्युभिः समतामिय़ात् ||
३६ ख
भीष्म उवाच:
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा |
३७ क
भीष्म उवाच:
अगच्छन्वहवो मासा निघ्नतः पक्षिणो वहून् ||
३७ ख
भीष्म उवाच:
ततः कदाचिदपरो द्विजस्तं देशमागमत् |
३८ क
भीष्म उवाच:
जटी चीराजिनधरः स्वाध्याय़परमः शुचिः ||
३८ ख
भीष्म उवाच:
विनीतो निय़ताहारो व्रह्मण्यो वेदपारगः |
३९ क
भीष्म उवाच:
सव्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रिय़म् |
३९ ख
भीष्म उवाच:
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ||
३९ ग
भीष्म उवाच:
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः |
४० क
भीष्म उवाच:
ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् ||
४० ख
भीष्म उवाच:
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः |
४१ क
भीष्म उवाच:
गौतमश्चापि सम्प्राप्तस्तावन्योन्येन सङ्गतौ ||
४१ ख
भीष्म उवाच:
वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् |
४२ क
भीष्म उवाच:
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ||
४२ ख
भीष्म उवाच:
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षय़ागतम् |
४३ क
भीष्म उवाच:
अभिज्ञाय़ द्विजो व्रीडामगमद्वाक्यमाह च ||
४३ ख
भीष्म उवाच:
किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः |
४४ क
भीष्म उवाच:
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ||
४४ ख
भीष्म उवाच:
पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् |
४५ क
भीष्म उवाच:
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ||
४५ ख
भीष्म उवाच:
अववुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् |
४६ क
भीष्म उवाच:
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ||
४६ ख
भीष्म उवाच:
एवमुक्तः स सुहृदा तदा तेन हितैषिणा |
४७ क
भीष्म उवाच:
प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् ||
४७ ख
भीष्म उवाच:
अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् |
४८ क