chevron_left द्रोण पर्व अध्याय १६२
सञ्जय़ उवाच:
ते तथैव महाराज दंशिता रणमूर्धनि |
१ क
सञ्जय़ उवाच:
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ||
१ ख
सञ्जय़ उवाच:
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे |
२ क
सञ्जय़ उवाच:
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ||
२ ख
सञ्जय़ उवाच:
द्वन्द्वानि यानि तत्रासन्संसक्तानि पुरोदय़ात् |
३ क
सञ्जय़ उवाच:
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ||
३ ख
सञ्जय़ उवाच:
रथैर्हय़ा हय़ैर्नागाः पादाताश्चापि कुञ्जरैः |
४ क
सञ्जय़ उवाच:
हय़ा हय़ैः समाजग्मुः पादाताश्च पदातिभिः |
४ ख
सञ्जय़ उवाच:
संसक्ताश्च विय़ुक्ताश्च योधाः संन्यपतन्रणे ||
४ ग
सञ्जय़ उवाच:
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा |
५ क
सञ्जय़ उवाच:
क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा वहवोऽभवन् ||
५ ख
सञ्जय़ उवाच:
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् |
६ क
सञ्जय़ उवाच:
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ||
६ ख
सञ्जय़ उवाच:
शव्दः समभवद्राजन्दिविस्पृग्भरतर्षभ |
७ क
सञ्जय़ उवाच:
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ||
७ ख
सञ्जय़ उवाच:
हय़ानां हेषतां चैव रथानां च निवर्तताम् |
८ क
सञ्जय़ उवाच:
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ||
८ ख
सञ्जय़ उवाच:
विवृद्धस्तुमुलः शव्दो द्यामगच्छन्महास्वनः |
९ क
सञ्जय़ उवाच:
नानाय़ुधनिकृत्तानां चेष्टतामातुरः स्वनः ||
९ ख
सञ्जय़ उवाच:
भूमावश्रूय़त महांस्तदासीत्कृपणं महत् |
१० क
सञ्जय़ उवाच:
पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ||
१० ख
सञ्जय़ उवाच:
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः |
११ क
सञ्जय़ उवाच:
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ||
११ ख
सञ्जय़ उवाच:
वीरवाहुविसृष्टाश्च योधेषु च गजेषु च |
१२ क
सञ्जय़ उवाच:
असय़ः प्रत्यदृश्यन्त वाससां नेजनेष्विव ||
१२ ख
सञ्जय़ उवाच:
उद्यतप्रतिपिष्टानां खड्गानां वीरवाहुभिः |
१३ क
सञ्जय़ उवाच:
स एव शव्दस्तद्रूपो वाससां निज्यतामिव ||
१३ ख
सञ्जय़ उवाच:
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः |
१४ क
सञ्जय़ उवाच:
निकृष्टय़ुद्धं संसक्तं महदासीत्सुदारुणम् ||
१४ ख
सञ्जय़ उवाच:
गजाश्वकाय़प्रभवां नरदेहप्रवाहिनीम् |
१५ क
सञ्जय़ उवाच:
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ||
१५ ख
सञ्जय़ उवाच:
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् |
१६ क
सञ्जय़ उवाच:
नदीं प्रावर्तय़न्वीराः परलोकप्रवाहिनीम् ||
१६ ख
सञ्जय़ उवाच:
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः |
१७ क
सञ्जय़ उवाच:
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः |
१७ ख
सञ्जय़ उवाच:
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ||
१७ ग
सञ्जय़ उवाच:
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः |
१८ क
सञ्जय़ उवाच:
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि |
१८ ख
सञ्जय़ उवाच:
नासीद्रथपथस्तत्र सर्वमाय़ोधनं प्रति ||
१८ ग
सञ्जय़ उवाच:
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय़ वाजिनः |
१९ क
सञ्जय़ उवाच:
कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः |
१९ ख
सञ्जय़ उवाच:
कुलसत्त्ववलोपेता वाजिनो वारणोपमाः ||
१९ ग
सञ्जय़ उवाच:
विह्वलं तत्समुद्भ्रान्तं सभय़ं भारतातुरम् |
२० क
सञ्जय़ उवाच:
वलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ||
२० ख
सञ्जय़ उवाच:
तावेवास्तां निलय़नं तावार्ताय़नमेव च |
२१ क
सञ्जय़ उवाच:
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षय़म् ||
२१ ख
सञ्जय़ उवाच:
आविग्नमभवत्सर्वं कौरवाणां महद्वलम् |
२२ क
सञ्जय़ उवाच:
पाञ्चालानां च संसक्तं न प्राज्ञाय़त किञ्चन ||
२२ ख
सञ्जय़ उवाच:
अन्तकाक्रीडसदृशे भीरूणां भय़वर्धने |
२३ क
सञ्जय़ उवाच:
पृथिव्यां राजवंशानामुत्थिते महति क्षय़े ||
२३ ख
सञ्जय़ उवाच:
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् |
२४ क
सञ्जय़ उवाच:
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ||
२४ ख
सञ्जय़ उवाच:
न च दुःशासनं द्रौणिं न दुर्योधनसौवलौ |
२५ क
सञ्जय़ उवाच:
न कृपं मद्रराजं वा कृतवर्माणमेव च ||
२५ ख
सञ्जय़ उवाच:
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा |
२६ क
सञ्जय़ उवाच:
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ||
२६ ख
सञ्जय़ उवाच:
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते |
२७ क
सञ्जय़ उवाच:
द्वितीय़ामिव सम्प्राप्ताममन्यन्त निशां तदा ||
२७ ख
सञ्जय़ उवाच:
न ज्ञाय़न्ते कौरवेय़ा न पाञ्चाला न पाण्डवाः |
२८ क
सञ्जय़ उवाच:
न दिशो न दिवं नोर्वीं न समं विषमं तथा ||
२८ ख
सञ्जय़ उवाच:
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् |
२९ क
सञ्जय़ उवाच:
न्यपातय़ंस्तदा युद्धे नराः स्म विजय़ैषिणः ||
२९ ख
सञ्जय़ उवाच:
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च |
३० क
सञ्जय़ उवाच:
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ||
३० ख
सञ्जय़ उवाच:
तत्र नागा हय़ा योधा रथिनोऽथ पदातय़ः |
३१ क
सञ्जय़ उवाच:
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ||
३१ ख
सञ्जय़ उवाच:
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा |
३२ क
सञ्जय़ उवाच:
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ||
३२ ख
सञ्जय़ उवाच:
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत |
३३ क
सञ्जय़ उवाच:
वृकोदरेण राधेय़ो भारद्वाजेन चार्जुनः ||
३३ ख
सञ्जय़ उवाच:
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः |
३४ क
सञ्जय़ उवाच:
रथर्षभाणामुग्राणां संनिपातममानुषम् ||
३४ ख
सञ्जय़ उवाच:
रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम् |
३५ क
सञ्जय़ उवाच:
अपश्यन्रथिनो युद्धं विचित्रं चित्रय़ोधिनाम् ||
३५ ख
सञ्जय़ उवाच:
यतमानाः पराक्रान्ताः परस्परजिगीषवः |
३६ क
सञ्जय़ उवाच:
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ||
३६ ख
सञ्जय़ उवाच:
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः |
३७ क
सञ्जय़ उवाच:
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ||
३७ ख
सञ्जय़ उवाच:
स्पर्धिनस्ते महेष्वासाः कृतय़त्ना धनुर्धराः |
३८ क
सञ्जय़ उवाच:
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ||
३८ ख
सञ्जय़ उवाच:
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते |
३९ क
सञ्जय़ उवाच:
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ||
३९ ख
सञ्जय़ उवाच:
वाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः |
४० क
सञ्जय़ उवाच:
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ||
४० ख
सञ्जय़ उवाच:
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः |
४१ क
सञ्जय़ उवाच:
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ||
४१ ख
सञ्जय़ उवाच:
चित्रैश्च विविधाकारैः शरीरावरणैरपि |
४२ क
सञ्जय़ उवाच:
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ||
४२ ख
सञ्जय़ उवाच:
शून्यैश्च नगराकारैर्हतय़ोधध्वजै रथैः |
४३ क
सञ्जय़ उवाच:
अमनुष्यैर्हय़ैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ||
४३ ख
सञ्जय़ उवाच:
वाताय़मानैरसकृद्धतवीरैरलङ्कृतैः |
४४ क
सञ्जय़ उवाच:
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ||
४४ ख
सञ्जय़ उवाच:
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः |
४५ क
सञ्जय़ उवाच:
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ||
४५ ख
सञ्जय़ उवाच:
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च |
४६ क
सञ्जय़ उवाच:
आसीदाय़ोधनं तत्र नभस्तारागणैरिव ||
४६ ख
सञ्जय़ उवाच:
ततो दुर्योधनस्यासीन्नकुलेन समागमः |
४७ क
सञ्जय़ उवाच:
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ||
४७ ख
सञ्जय़ उवाच:
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् |
४८ क
सञ्जय़ उवाच:
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ||
४८ ख