chevron_left वन पर्व अध्याय १६३
अर्जुन उवाच:
रौद्रमस्त्रं मदीय़ं त्वामुपस्थास्यति पाण्डव |
४८ क
अर्जुन उवाच:
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ||
४८ ख
अर्जुन उवाच:
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् |
४९ क
अर्जुन उवाच:
न प्रय़ोज्यं भवेदेतन्मानुषेषु कथञ्चन ||
४९ ख
अर्जुन उवाच:
पीड्यमानेन वलवत्प्रय़ोज्यं ते धनञ्जय़ |
५० क
अर्जुन उवाच:
अस्त्राणां प्रतिघाते च सर्वथैव प्रय़ोजय़ेः ||
५० ख
अर्जुन उवाच:
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् |
५१ क
अर्जुन उवाच:
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ||
५१ ख
अर्जुन उवाच:
उत्सादनममित्राणां परसेनानिकर्तनम् |
५२ क
अर्जुन उवाच:
दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ||
५२ ख
अर्जुन उवाच:
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् |
५३ क
अर्जुन उवाच:
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीय़त ||
५३ ख