chevron_left आदि पर्व अध्याय १६३
वसिष्ठ उवाच:
यैषा ते तपती नाम सावित्र्यवरजा सुता |
१ क
वसिष्ठ उवाच:
तां त्वां संवरणस्यार्थे वरय़ामि विभावसो ||
१ ख
वसिष्ठ उवाच:
स हि राजा वृहत्कीर्तिर्धर्मार्थविदुदारधीः |
२ क
वसिष्ठ उवाच:
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ||
२ ख
गन्धर्व उवाच:
इत्युक्तः सविता तेन ददानीत्येव निश्चितः |
३ क
गन्धर्व उवाच:
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ||
३ ख
गन्धर्व उवाच:
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने |
४ क
गन्धर्व उवाच:
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ||
४ ख
गन्धर्व उवाच:
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वय़म् |
५ क
गन्धर्व उवाच:
ददौ संवरणस्यार्थे वसिष्ठाय़ महात्मने |
५ ख
गन्धर्व उवाच:
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ||
५ ग
गन्धर्व उवाच:
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह |
६ क
गन्धर्व उवाच:
यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ||
६ ख
गन्धर्व उवाच:
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना |
७ क
गन्धर्व उवाच:
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् |
७ ख
गन्धर्व उवाच:
वसिष्ठेन सहाय़ान्तीं संहृष्टोऽभ्यधिकं वभौ ||
७ ग
गन्धर्व उवाच:
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते |
८ क
गन्धर्व उवाच:
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ||
८ ख
गन्धर्व उवाच:
तपसाराध्य वरदं देवं गोपतिमीश्वरम् |
९ क
गन्धर्व उवाच:
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ||
९ ख
गन्धर्व उवाच:
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते |
१० क
गन्धर्व उवाच:
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ||
१० ख
गन्धर्व उवाच:
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे |
११ क
गन्धर्व उवाच:
सोऽकामय़त राजर्षिर्विहर्तुं सह भार्यया ||
११ ख
गन्धर्व उवाच:
ततः पुरे च राष्ट्रे च वाहनेषु वलेषु च |
१२ क
गन्धर्व उवाच:
आदिदेश महीपालस्तमेव सचिवं तदा ||
१२ ख
गन्धर्व उवाच:
नृपतिं त्वभ्यनुज्ञाय़ वसिष्ठोऽथापचक्रमे |
१३ क
गन्धर्व उवाच:
सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ||
१३ ख
गन्धर्व उवाच:
ततो द्वादश वर्षाणि काननेषु जलेषु च |
१४ क
गन्धर्व उवाच:
रेमे तस्मिन्गिरौ राजा तय़ैव सह भार्यया ||
१४ ख
गन्धर्व उवाच:
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः |
१५ क
गन्धर्व उवाच:
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ||
१५ ख
गन्धर्व उवाच:
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः |
१६ क
गन्धर्व उवाच:
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ||
१६ ख
गन्धर्व उवाच:
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः |
१७ क
गन्धर्व उवाच:
अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ||
१७ ख
गन्धर्व उवाच:
तं च पार्थिवशार्दूलमानय़ामास तत्पुरम् |
१८ क
गन्धर्व उवाच:
तपत्या सहितं राजन्नुषितं द्वादशीः समाः ||
१८ ख
गन्धर्व उवाच:
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा |
१९ क
गन्धर्व उवाच:
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ||
१९ ख
गन्धर्व उवाच:
ततः सराष्ट्रं मुमुदे तत्पुरं परय़ा मुदा |
२० क
गन्धर्व उवाच:
तेन पार्थिवमुख्येन भावितं भावितात्मना ||
२० ख
गन्धर्व उवाच:
ततो द्वादश वर्षाणि पुनरीजे नराधिपः |
२१ क
गन्धर्व उवाच:
पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ||
२१ ख
गन्धर्व उवाच:
एवमासीन्महाभागा तपती नाम पौर्विकी |
२२ क
गन्धर्व उवाच:
तव वैवस्वती पार्थ तापत्यस्त्वं यय़ा मतः ||
२२ ख
गन्धर्व उवाच:
तस्यां सञ्जनय़ामास कुरुं संवरणो नृपः |
२३ क
गन्धर्व उवाच:
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ||
२३ ख