वैशम्पाय़न उवाच:
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः |
१ क
वैशम्पाय़न उवाच:
कृष्णय़ा चैव वीभत्सुर्धर्मपुत्रमपूजय़त् ||
१ ख
वैशम्पाय़न उवाच:
अभिवादय़मानं तु मूर्ध्न्युपाघ्राय़ पाण्डवम् |
२ क
वैशम्पाय़न उवाच:
हर्षगद्गदय़ा वाचा प्रहृष्टोऽर्जुनमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
कथमर्जुन कालोऽय़ं स्वर्गे व्यतिगतस्तव |
३ क
वैशम्पाय़न उवाच:
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ||
३ ख
वैशम्पाय़न उवाच:
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत |
४ क
वैशम्पाय़न उवाच:
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ||
४ ख
वैशम्पाय़न उवाच:
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् |
५ क
वैशम्पाय़न उवाच:
यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ||
५ ख
वैशम्पाय़न उवाच:
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिन्दम |
६ क
वैशम्पाय़न उवाच:
कृतप्रिय़स्त्वय़ास्मीति तच्च ते किं प्रिय़ं कृतम् |
६ ख
वैशम्पाय़न उवाच:
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ||
६ ग
वैशम्पाय़न उवाच:
यथा तुष्टो महादेवो देवराजश्च तेऽनघ |
७ क
वैशम्पाय़न उवाच:
यच्चापि वज्रपाणेस्ते प्रिय़ं कृतमरिन्दम |
७ ख
वैशम्पाय़न उवाच:
एतदाख्याहि मे सर्वमखिलेन धनञ्जय़ ||
७ ग
अर्जुन उवाच:
शृणु हन्त महाराज विधिना येन दृष्टवान् |
८ क
अर्जुन उवाच:
शतक्रतुमहं देवं भगवन्तं च शङ्करम् ||
८ ख
अर्जुन उवाच:
विद्यामधीत्य तां राजंस्त्वय़ोक्तामरिमर्दन |
९ क
अर्जुन उवाच:
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ||
९ ख
अर्जुन उवाच:
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः |
१० क
अर्जुन उवाच:
एकरात्रोषितः कञ्चिदपश्यं व्राह्मणं पथि ||
१० ख
अर्जुन उवाच:
स मामपृच्छत्कौन्तेय़ क्वासि गन्ता व्रवीहि मे |
११ क
अर्जुन उवाच:
तस्मा अवितथं सर्वमव्रुवं कुरुनन्दन ||
११ ख
अर्जुन उवाच:
स तथ्यं मम तच्छ्रुत्वा व्राह्मणो राजसत्तम |
१२ क
अर्जुन उवाच:
अपूजय़त मां राजन्प्रीतिमांश्चाभवन्मय़ि ||
१२ ख
अर्जुन उवाच:
ततो मामव्रवीत्प्रीतस्तप आतिष्ठ भारत |
१३ क
अर्जुन उवाच:
तपस्वी नचिरेण त्वं द्रक्ष्यसे विवुधाधिपम् ||
१३ ख
अर्जुन उवाच:
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् |
१४ क
अर्जुन उवाच:
तपोऽतप्यं महाराज मासं मूलफलाशनः ||
१४ ख
अर्जुन उवाच:
द्वितीय़श्चापि मे मासो जलं भक्षय़तो गतः |
१५ क
अर्जुन उवाच:
निराहारस्तृतीय़ेऽथ मासे पाण्डवनन्दन ||
१५ ख
अर्जुन उवाच:
ऊर्ध्ववाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा |
१६ क
अर्जुन उवाच:
न च मे हीय़ते प्राणस्तदद्भुतमिवाभवत् ||
१६ ख
अर्जुन उवाच:
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते |
१७ क
अर्जुन उवाच:
वराहसंस्थितं भूतं मत्समीपमुपागमत् ||
१७ ख
अर्जुन उवाच:
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि |
१८ क
अर्जुन उवाच:
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ||
१८ ख
अर्जुन उवाच:
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् |
१९ क
अर्जुन उवाच:
धनुर्वाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ||
१९ ख
अर्जुन उवाच:
ततोऽहं धनुरादाय़ तथाक्षय़्यौ महेषुधी |
२० क
अर्जुन उवाच:
अताडय़ं शरेणाथ तद्भूतं लोमहर्षणम् ||
२० ख
अर्जुन उवाच:
युगपत्तत्किरातश्च विकृष्य वलवद्धनुः |
२१ क
अर्जुन उवाच:
अभ्याजघ्ने दृढतरं कम्पय़न्निव मे मनः ||
२१ ख
अर्जुन उवाच:
स तु मामव्रवीद्राजन्मम पूर्वपरिग्रहः |
२२ क
अर्जुन उवाच:
मृगय़ाधर्ममुत्सृज्य किमर्थं ताडितस्त्वय़ा ||
२२ ख
अर्जुन उवाच:
एष ते निशितैर्वाणैर्दर्पं हन्मि स्थिरो भव |
२३ क
अर्जुन उवाच:
स वर्ष्मवान्महाकाय़स्ततो मामभ्यधावत ||
२३ ख
अर्जुन उवाच:
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः |
२४ क
अर्जुन उवाच:
तं चाहं शरवर्षेण महता समवाकिरम् ||
२४ ख
अर्जुन उवाच:
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः |
२५ क
अर्जुन उवाच:
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चय़म् ||
२५ ख
अर्जुन उवाच:
तस्य तच्छतधा रूपमभवच्च सहस्रधा |
२६ क
अर्जुन उवाच:
तानि चास्य शरीराणि शरैरहमताडय़म् ||
२६ ख
अर्जुन उवाच:
पुनस्तानि शरीराणि एकीभूतानि भारत |
२७ क
अर्जुन उवाच:
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ||
२७ ख
अर्जुन उवाच:
अणुर्वृहच्छिरा भूत्वा वृहच्चाणुशिराः पुनः |
२८ क
अर्जुन उवाच:
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ||
२८ ख
अर्जुन उवाच:
यदाभिभवितुं वाणैर्नैव शक्नोमि तं रणे |
२९ क
अर्जुन उवाच:
ततोऽहमस्त्रमातिष्ठं वाय़व्यं भरतर्षभ ||
२९ ख
अर्जुन उवाच:
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् |
३० क
अर्जुन उवाच:
तस्मिन्प्रतिहते चास्त्रे विस्मय़ो मे महानभूत् ||
३० ख
अर्जुन उवाच:
भूय़श्चैव महाराज सविशेषमहं ततः |
३१ क
अर्जुन उवाच:
अस्त्रपूगेन महता रणे भूतमवाकिरम् ||
३१ ख
अर्जुन उवाच:
स्थूणाकर्णमय़ोजालं शरवर्षं शरोल्वणम् |
३२ क
अर्जुन उवाच:
शैलास्त्रमश्मवर्षं च समास्थाय़ाहमभ्ययाम् |
३२ ख
अर्जुन उवाच:
जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ||
३२ ग
अर्जुन उवाच:
तेषु सर्वेषु शान्तेषु व्रह्मास्त्रमहमादिशम् |
३३ क
अर्जुन उवाच:
ततः प्रज्वलितैर्वाणैः सर्वतः सोपचीय़त |
३३ ख
अर्जुन उवाच:
उपचीय़मानश्च मय़ा महास्त्रेण व्यवर्धत ||
३३ ग
अर्जुन उवाच:
ततः सन्तापितो लोको मत्प्रसूतेन तेजसा |
३४ क
अर्जुन उवाच:
क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ||
३४ ख
अर्जुन उवाच:
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातय़त् |
३५ क
अर्जुन उवाच:
व्रह्मास्त्रे तु हते राजन्भय़ं मां महदाविशत् ||
३५ ख
अर्जुन उवाच:
ततोऽहं धनुरादाय़ तथाक्षय़्यौ महेषुधी |
३६ क
अर्जुन उवाच:
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षय़त् ||
३६ ख
अर्जुन उवाच:
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वाय़ुधेषु च |
३७ क
अर्जुन उवाच:
मम तस्य च भूतस्य वाहुय़ुद्धमवर्तत ||
३७ ख
अर्जुन उवाच:
व्याय़ामं मुष्टिभिः कृत्वा तलैरपि समाहतौ |
३८ क
अर्जुन उवाच:
अपातय़च्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ||
३८ ख
अर्जुन उवाच:
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीय़त |
३९ क
अर्जुन उवाच:
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ||
३९ ख
अर्जुन उवाच:
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः |
४० क
अर्जुन उवाच:
दिव्यमेव महाराज वसानोऽद्भुतमम्वरम् ||
४० ख
अर्जुन उवाच:
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः |
४१ क
अर्जुन उवाच:
स्वरूपं दिव्यमास्थाय़ तस्थौ तत्र महेश्वरः ||
४१ ख
अर्जुन उवाच:
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः |
४२ क
अर्जुन उवाच:
उमासहाय़ो हरिदृग्वहुरूपः पिनाकधृक् ||
४२ ख
अर्जुन उवाच:
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् |
४३ क
अर्जुन उवाच:
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप ||
४३ ख
अर्जुन उवाच:
ततस्तद्धनुरादाय़ तूणौ चाक्षय़्यसाय़कौ |
४४ क
अर्जुन उवाच:
प्रादान्ममैव भगवान्वरय़स्वेति चाव्रवीत् ||
४४ ख
अर्जुन उवाच:
तुष्टोऽस्मि तव कौन्तेय़ व्रूहि किं करवाणि ते |
४५ क
अर्जुन उवाच:
यत्ते मनोगतं वीर तद्व्रूहि वितराम्यहम् |
४५ ख
अर्जुन उवाच:
अमरत्वमपाहाय़ व्रूहि यत्ते मनोगतम् ||
४५ ग
अर्जुन उवाच:
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः |
४६ क
अर्जुन उवाच:
प्रणम्य शिरसा शर्वं ततो वचनमाददे ||
४६ ख
अर्जुन उवाच:
भगवान्मे प्रसन्नश्चेदीप्सितोऽय़ं वरो मम |
४७ क
अर्जुन उवाच:
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् |
४७ ख
अर्जुन उवाच:
ददानीत्येव भगवानव्रवीत्त्र्यम्वकश्च माम् ||
४७ ग