chevron_left द्रोण पर्व अध्याय १६३
सञ्जय़ उवाच:
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् |
१ क
सञ्जय़ उवाच:
रथवेगेन तीव्रेण कम्पय़न्निव मेदिनीम् ||
१ ख
सञ्जय़ उवाच:
तस्यापतत एवाशु भल्लेनामित्रकर्शनः |
२ क
सञ्जय़ उवाच:
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ||
२ ख
सञ्जय़ उवाच:
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः |
३ क
सञ्जय़ उवाच:
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन वुद्धवान् ||
३ ख
सञ्जय़ उवाच:
यदा त्वसङ्गृहीतत्वात्प्रय़ान्त्यश्वा यथासुखम् |
४ क
सञ्जय़ उवाच:
ततो दुःशासनः सूतं वुद्धवान्गतचेतसम् ||
४ ख
सञ्जय़ उवाच:
स हय़ान्संनिगृह्याजौ स्वय़ं हय़विशारदः |
५ क
सञ्जय़ उवाच:
युय़ुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ||
५ ख
सञ्जय़ उवाच:
तदस्यापूजय़न्कर्म स्वे परे चैव संय़ुगे |
६ क
सञ्जय़ उवाच:
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ||
६ ख
सञ्जय़ उवाच:
सहदेवस्तु तानश्वांस्तीक्ष्णैर्वाणैरवाकिरत् |
७ क
सञ्जय़ उवाच:
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ||
७ ख
सञ्जय़ उवाच:
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् |
८ क
सञ्जय़ उवाच:
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ||
८ ख
सञ्जय़ उवाच:
छिद्रेषु तेषु तं वाणैर्माद्रीपुत्रोऽभ्यवाकिरत् |
९ क
सञ्जय़ उवाच:
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ||
९ ख
सञ्जय़ उवाच:
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः |
१० क
सञ्जय़ उवाच:
आकर्णपूर्णैरभ्यघ्नन्वाह्वोरुरसि चानदत् ||
१० ख
सञ्जय़ उवाच:
संन्यवर्तत तं कर्णः सङ्घट्टित इवोरगः |
११ क
सञ्जय़ उवाच:
तदभूत्तुमुलं युद्धं भीमराधेय़योस्तदा ||
११ ख
सञ्जय़ उवाच:
तौ वृषाविव सङ्क्रुद्धौ विवृत्तनय़नावुभौ |
१२ क
सञ्जय़ उवाच:
वेगेन महतान्योन्यं संरव्धावभिपेततुः ||
१२ ख
सञ्जय़ उवाच:
अभिसंश्लिष्टय़ोस्तत्र तय़ोराहवशौण्डय़ोः |
१३ क
सञ्जय़ उवाच:
अभिन्नशरपातत्वाद्गदाय़ुद्धमवर्तत ||
१३ ख
सञ्जय़ उवाच:
गदय़ा भीमसेनस्तु कर्णस्य रथकूवरम् |
१४ क
सञ्जय़ उवाच:
विभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ||
१४ ख
सञ्जय़ उवाच:
ततो भीमस्य राधेय़ो गदामादाय़ वीर्यवान् |
१५ क
सञ्जय़ उवाच:
अवासृजद्रथे तां तु विभेद गदय़ा गदाम् ||
१५ ख
सञ्जय़ उवाच:
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् |
१६ क
सञ्जय़ उवाच:
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः |
१६ ख
सञ्जय़ उवाच:
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ||
१६ ग
सञ्जय़ उवाच:
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः |
१७ क
सञ्जय़ उवाच:
पपात सारथिश्चास्य मुमोह गदय़ा हतः ||
१७ ख
सञ्जय़ उवाच:
स कर्णे साय़कानष्टौ व्यसृजत्क्रोधमूर्छितः |
१८ क
सञ्जय़ उवाच:
ध्वजे शरासने चैव शरावापे च भारत ||
१८ ख
सञ्जय़ उवाच:
ततः पुनस्तु राधेय़ो हय़ानस्य रथेषुभिः |
१९ क
सञ्जय़ उवाच:
ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ||
१९ ख
सञ्जय़ उवाच:
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् |
२० क
सञ्जय़ उवाच:
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिन्दमः ||
२० ख
सञ्जय़ उवाच:
तथा द्रोणार्जुनौ चित्रमय़ुध्येतां महारथौ |
२१ क
सञ्जय़ उवाच:
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ||
२१ ख
सञ्जय़ उवाच:
लघुसन्धानय़ोगाभ्यां रथय़ोश्च रणेन च |
२२ क
सञ्जय़ उवाच:
मोहय़न्तौ मनुष्याणां चक्षूंषि च मनांसि च ||
२२ ख
सञ्जय़ उवाच:
उपारमन्त ते सर्वे योधास्माकं परे तथा |
२३ क
सञ्जय़ उवाच:
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ||
२३ ख
सञ्जय़ उवाच:
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः |
२४ क
सञ्जय़ उवाच:
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः |
२४ ख
सञ्जय़ उवाच:
पराक्रमं तय़ोर्योधा ददृशुस्तं सुविस्मिताः ||
२४ ग
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं द्रोणपाण्डवय़ोर्महत् |
२५ क
सञ्जय़ उवाच:
आमिषार्थं महाराज गगने श्येनय़ोरिव ||
२५ ख
सञ्जय़ उवाच:
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषय़ा |
२६ क
सञ्जय़ उवाच:
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ||
२६ ख
सञ्जय़ उवाच:
यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे |
२७ क
सञ्जय़ उवाच:
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ||
२७ ख
सञ्जय़ उवाच:
ऐन्द्रं पाशुपतं त्वाष्ट्रं वाय़व्यमथ वारुणम् |
२८ क
सञ्जय़ उवाच:
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जय़ः ||
२८ ख
सञ्जय़ उवाच:
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः |
२९ क
सञ्जय़ उवाच:
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ||
२९ ख
सञ्जय़ उवाच:
यद्यदस्त्रं स पार्थाय़ प्रय़ुङ्क्ते विजिगीषय़ा |
३० क
सञ्जय़ उवाच:
तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ||
३० ख
सञ्जय़ उवाच:
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि |
३१ क
सञ्जय़ उवाच:
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजय़त् ||
३१ ख
सञ्जय़ उवाच:
मेने चात्मानमधिकं पृथिव्यामपि भारत |
३२ क
सञ्जय़ उवाच:
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ||
३२ ख
सञ्जय़ उवाच:
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् |
३३ क
सञ्जय़ उवाच:
यतमानोऽर्जुनं प्रीत्या प्रत्यवारय़दुत्स्मय़न् ||
३३ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः |
३४ क
सञ्जय़ उवाच:
ऋषय़ः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षय़ा ||
३४ ख
सञ्जय़ उवाच:
तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम् |
३५ क
सञ्जय़ उवाच:
श्रीमदाकाशमभवद्भूय़ो मेघाकुलं यथा ||
३५ ख
सञ्जय़ उवाच:
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः |
३६ क
सञ्जय़ उवाच:
द्रोणस्य स्तवसंय़ुक्ताः पार्थस्य च महात्मनः |
३६ ख
सञ्जय़ उवाच:
विसृज्यमानेष्वस्त्रेषु ज्वालय़त्सु दिशो दश ||
३६ ग
सञ्जय़ उवाच:
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् |
३७ क
सञ्जय़ उवाच:
न दैवं न च गान्धर्वं व्राह्मं ध्रुवमिदं परम् |
३७ ख
सञ्जय़ उवाच:
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ||
३७ ग
सञ्जय़ उवाच:
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः |
३८ क
सञ्जय़ उवाच:
नानय़ोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ||
३८ ख
सञ्जय़ उवाच:
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना |
३९ क
सञ्जय़ उवाच:
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ||
३९ ख
सञ्जय़ उवाच:
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे |
४० क
सञ्जय़ उवाच:
शौर्यमेकस्थमाचार्ये वलं शौर्यं च पाण्डवे ||
४० ख
सञ्जय़ उवाच:
नेमौ शक्यौ महेष्वासौ रणे क्षेपय़ितुं परैः |
४१ क
सञ्जय़ उवाच:
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ||
४१ ख
सञ्जय़ उवाच:
इत्यव्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ |
४२ क
सञ्जय़ उवाच:
अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः ||
४२ ख
सञ्जय़ उवाच:
ततो द्रोणो व्राह्ममस्त्रं प्रादुश्चक्रे महामतिः |
४३ क
सञ्जय़ उवाच:
सन्तापय़न्रणे पार्थं भूतान्यन्तर्हितानि च ||
४३ ख
सञ्जय़ उवाच:
ततश्चचाल पृथिवी सपर्वतवनद्रुमा |
४४ क
सञ्जय़ उवाच:
ववौ च विषमो वाय़ुः सागराश्चापि चुक्षुभुः ||
४४ ख
सञ्जय़ उवाच:
ततस्त्रासो महानासीत्कुरुपाण्डवसेनय़ोः |
४५ क
सञ्जय़ उवाच:
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ||
४५ ख
सञ्जय़ उवाच:
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् |
४६ क
सञ्जय़ उवाच:
व्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ||
४६ ख
सञ्जय़ उवाच:
यदा न गम्यते पारं तय़ोरन्यतरस्य वा |
४७ क
सञ्जय़ उवाच:
ततः सङ्कुलय़ुद्धेन तद्युद्धं व्यकुलीकृतम् ||
४७ ख
सञ्जय़ उवाच:
नाज्ञाय़त ततः किञ्चित्पुनरेव विशां पते |
४८ क
सञ्जय़ उवाच:
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवय़ोर्मृधे ||
४८ ख