chevron_left द्रोण पर्व अध्याय १२३
धृतराष्ट्र उवाच:
तथा गतेषु शूरेषु तेषां मम च सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
विरथो भीमसेनो वै कर्णवाक्षल्यपीडितः |
२ क
सञ्जय़ उवाच:
अमर्षवशमापन्नः फल्गुनं वाक्यमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
पुनः पुनस्तूवरक मूढ औदरिकेति च |
३ क
सञ्जय़ उवाच:
अकृतास्त्रक मा योधीर्वाल सङ्ग्रामकातर ||
३ ख
सञ्जय़ उवाच:
इति मामव्रवीत्कर्णः पश्यतस्ते धनञ्जय़ |
४ क
सञ्जय़ उवाच:
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ||
४ ख
सञ्जय़ उवाच:
एतद्व्रतं महावाहो त्वय़ा सह कृतं मय़ा |
५ क
सञ्जय़ उवाच:
यथैतन्मम कौन्तेय़ तथा तव न संशय़ः ||
५ ख
सञ्जय़ उवाच:
तद्वधाय़ नरश्रेष्ठ स्मरैतद्वचनं मम |
६ क
सञ्जय़ उवाच:
यथा भवति तत्सत्यं तथा कुरु धनञ्जय़ ||
६ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः |
७ क
सञ्जय़ उवाच:
ततोऽर्जुनोऽव्रवीत्कर्णं किञ्चिदभ्येत्य संय़ुगे ||
७ ख
सञ्जय़ उवाच:
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत |
८ क
सञ्जय़ उवाच:
अधर्मवुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् ||
८ ख
सञ्जय़ उवाच:
द्विविधं कर्म शूराणां युद्धे जय़पराजय़ौ |
९ क
सञ्जय़ उवाच:
तौ चाप्यनित्यौ राधेय़ वासवस्यापि युध्यतः ||
९ ख
सञ्जय़ उवाच:
मुमूर्षुर्युय़ुधानेन विरथोऽसि विसर्जितः |
१० क
सञ्जय़ उवाच:
यदृच्छय़ा भीमसेनं विरथं कृतवानसि ||
१० ख
सञ्जय़ उवाच:
अधर्मस्त्वेष राधेय़ यत्त्वं भीममवोचथाः |
११ क
सञ्जय़ उवाच:
युद्धधर्मं विजानन्वै युध्यन्तमपलाय़िनम् |
११ ख
सञ्जय़ उवाच:
पूरय़न्तं यथाशक्ति शूरकर्माहवे तथा ||
११ ग
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां केशवस्य ममैव च |
१२ क
सञ्जय़ उवाच:
विरथो भीमसेनेन कृतोऽसि वहुशो रणे |
१२ ख
सञ्जय़ उवाच:
न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः ||
१२ ग
सञ्जय़ उवाच:
यस्मात्तु वहु रूक्षं च श्रावितस्ते वृकोदरः |
१३ क
सञ्जय़ उवाच:
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ||
१३ ख
सञ्जय़ उवाच:
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि |
१४ क
सञ्जय़ उवाच:
त्वय़ा तस्य धनुश्छिन्नमात्मनाशाय़ दुर्मते ||
१४ ख
सञ्जय़ उवाच:
तस्माद्वध्योऽसि मे मूढ सभृत्यवलवाहनः |
१५ क
सञ्जय़ उवाच:
कुरु त्वं सर्वकृत्यानि महत्ते भय़मागतम् ||
१५ ख
सञ्जय़ उवाच:
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संय़ुगे |
१६ क
सञ्जय़ उवाच:
ये चान्येऽप्युपय़ास्यन्ति वुद्धिमोहेन मां नृपाः |
१६ ख
सञ्जय़ उवाच:
तांश्च सर्वान्हनिष्यामि सत्येनाय़ुधमालभे ||
१६ ग
सञ्जय़ उवाच:
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे |
१७ क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ||
१७ ख
सञ्जय़ उवाच:
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु |
१८ क
सञ्जय़ उवाच:
महान्सुतुमुलः शव्दो वभूव रथिनां तदा ||
१८ ख
सञ्जय़ उवाच:
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभय़े |
१९ क
सञ्जय़ उवाच:
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ||
१९ ख
सञ्जय़ उवाच:
ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् |
२० क
सञ्जय़ उवाच:
तीर्णप्रतिज्ञं वीभत्सुं परिष्वज्येदमव्रवीत् ||
२० ख
सञ्जय़ उवाच:
दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वय़ा |
२१ क
सञ्जय़ उवाच:
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ||
२१ ख
सञ्जय़ उवाच:
धार्तराष्ट्रवलं प्राप्य देवसेनापि भारत |
२२ क
सञ्जय़ उवाच:
सीदेत समरे जिष्णो नात्र कार्या विचारणा ||
२२ ख
सञ्जय़ उवाच:
न तं पश्यामि लोकेषु चिन्तय़न्पुरुषं क्वचित् |
२३ क
सञ्जय़ उवाच:
त्वदृते पुरुषव्याघ्र य एतद्योधय़ेद्वलम् ||
२३ ख
सञ्जय़ उवाच:
महाप्रभावा वहवस्त्वय़ा तुल्याधिकापि वा |
२४ क
सञ्जय़ उवाच:
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् |
२४ ख
सञ्जय़ उवाच:
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ||
२४ ग
सञ्जय़ उवाच:
तव वीर्यं वलं चैव रुद्रशक्रान्तकोपमम् |
२५ क
सञ्जय़ उवाच:
नेदृशं शक्नुय़ात्कश्चिद्रणे कर्तुं पराक्रमम् |
२५ ख
सञ्जय़ उवाच:
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ||
२५ ग
सञ्जय़ उवाच:
एवमेव हते कर्णे सानुवन्धे दुरात्मनि |
२६ क
सञ्जय़ उवाच:
वर्धय़िष्यामि भूय़स्त्वां विजितारिं हतद्विषम् ||
२६ ख
सञ्जय़ उवाच:
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव |
२७ क
सञ्जय़ उवाच:
प्रतिज्ञेय़ं मय़ोत्तीर्णा विवुधैरपि दुस्तरा ||
२७ ख
सञ्जय़ उवाच:
अनाश्चर्यो जय़स्तेषां येषां नाथोऽसि माधव |
२८ क
सञ्जय़ उवाच:
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ||
२८ ख
सञ्जय़ उवाच:
तवैव भारो वार्ष्णेय़ तवैव विजय़ः प्रभो |
२९ क
सञ्जय़ उवाच:
वर्धनीय़ास्तव वय़ं प्रेष्याश्च मधुसूदन ||
२९ ख
सञ्जय़ उवाच:
एवमुक्तः स्मय़न्कृष्णः शनकैर्वाहय़न्हय़ान् |
३० क
सञ्जय़ उवाच:
दर्शय़ामास पार्थाय़ क्रूरमाय़ोधनं महत् ||
३० ख
श्रीकृष्ण उवाच:
प्रार्थय़न्तो जय़ं युद्धे प्रथितं च महद्यशः |
३१ क
श्रीकृष्ण उवाच:
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ||
३१ ख
श्रीकृष्ण उवाच:
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः |
३२ क
श्रीकृष्ण उवाच:
सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ||
३२ ख
श्रीकृष्ण उवाच:
ससत्त्वा गतसत्त्वाश्च प्रभय़ा परय़ा युताः |
३३ क
श्रीकृष्ण उवाच:
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ||
३३ ख
श्रीकृष्ण उवाच:
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः |
३४ क
श्रीकृष्ण उवाच:
वाहनैराय़ुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ||
३४ ख
श्रीकृष्ण उवाच:
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः |
३५ क
श्रीकृष्ण उवाच:
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्वरैः ||
३५ ख
श्रीकृष्ण उवाच:
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः |
३६ क
श्रीकृष्ण उवाच:
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ||
३६ ख
श्रीकृष्ण उवाच:
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः |
३७ क
श्रीकृष्ण उवाच:
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ||
३७ ख
श्रीकृष्ण उवाच:
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः |
३८ क
श्रीकृष्ण उवाच:
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ||
३८ ख
श्रीकृष्ण उवाच:
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह |
३९ क
श्रीकृष्ण उवाच:
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ||
३९ ख
श्रीकृष्ण उवाच:
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् |
४० क
श्रीकृष्ण उवाच:
पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् ||
४० ख
सञ्जय़ उवाच:
एवं सन्दर्शय़न्कृष्णो रणभूमिं किरीटिनः |
४१ क
सञ्जय़ उवाच:
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादय़त् ||
४१ ख