chevron_left वन पर्व अध्याय १६४
अर्जुन उवाच:
ते मां वीर्येण यशसा तेजसा च वलेन च |
५० क
अर्जुन उवाच:
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजय़ेन च ||
५० ख
अर्जुन उवाच:
प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् |
५१ क
अर्जुन उवाच:
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ||
५१ ख
अर्जुन उवाच:
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः |
५२ क
अर्जुन उवाच:
वहुमानाच्च गात्राणि पस्पर्श मम वासवः ||
५२ ख
अर्जुन उवाच:
तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण |
५३ क
अर्जुन उवाच:
अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ||
५३ ख
अर्जुन उवाच:
विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा |
५४ क
अर्जुन उवाच:
स च गान्धर्वमखिलं ग्राहय़ामास मां नृप ||
५४ ख
अर्जुन उवाच:
ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः |
५५ क
अर्जुन उवाच:
सुखं शक्रस्य भवने सर्वकामसमन्वितः ||
५५ ख
अर्जुन उवाच:
शृण्वन्वै गीतशव्दं च तूर्यशव्दं च पुष्कलम् |
५६ क
अर्जुन उवाच:
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप ||
५६ ख
अर्जुन उवाच:
तत्सर्वमनवज्ञाय़ तथ्यं विज्ज्ञाय़ भारत |
५७ क
अर्जुन उवाच:
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ||
५७ ख
अर्जुन उवाच:
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः |
५८ क
अर्जुन उवाच:
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ||
५८ ख