chevron_left द्रोण पर्व अध्याय १६४
सञ्जय़ उवाच:
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ||
५० ख
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः |
५१ क
सञ्जय़ उवाच:
जय़न्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ||
५१ ख
सञ्जय़ उवाच:
जित्वा च वहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः |
५२ क
सञ्जय़ उवाच:
हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ||
५२ ख
सञ्जय़ उवाच:
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः |
५३ क
सञ्जय़ उवाच:
चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ||
५३ ख
सञ्जय़ उवाच:
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्वहुभिः शरैः |
५४ क
सञ्जय़ उवाच:
भीमसेनपुरोगाश्च एकतः पर्यवारय़न् ||
५४ ख
सञ्जय़ उवाच:
आसंस्तु पाण्डुपुत्राणां त्रय़ोऽजिह्मा महारथाः |
५५ क
सञ्जय़ उवाच:
यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जय़म् ||
५५ ख
सञ्जय़ उवाच:
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद |
५६ क
सञ्जय़ उवाच:
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ||
५६ ख
सञ्जय़ उवाच:
कौरवेय़ांस्ततः पार्थः सहसा समुपाद्रवत् |
५७ क
सञ्जय़ उवाच:
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ||
५७ ख
सञ्जय़ उवाच:
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् |
५८ क
सञ्जय़ उवाच:
यथा क्रुद्धो रणे शक्रो दानवानां क्षय़ं पुरा ||
५८ ख
सञ्जय़ उवाच:
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि |
५९ क
सञ्जय़ उवाच:
नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ||
५९ ख
सञ्जय़ उवाच:
वध्यमाना महाराज पाञ्चालाः सृञ्जय़ास्तथा |
६० क
सञ्जय़ उवाच:
द्रोणमेवाभ्ययुर्युद्धे मोहय़न्तो महारथम् ||
६० ख
सञ्जय़ उवाच:
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः |
६१ क
सञ्जय़ उवाच:
अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ||
६१ ख
सञ्जय़ उवाच:
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना |
६२ क
सञ्जय़ उवाच:
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भय़माविशत् ||
६२ ख
सञ्जय़ उवाच:
दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षय़ं युधि |
६३ क
सञ्जय़ उवाच:
पाण्डवेय़ा महाराज नाशंसुर्विजय़ं तदा ||
६३ ख
सञ्जय़ उवाच:
कच्चिद्द्रोणो न नः सर्वान्क्षपय़ेत्परमास्त्रवित् |
६४ क
सञ्जय़ उवाच:
समिद्धः शिशिरापाय़े दहन्कक्षमिवानलः ||
६४ ख
सञ्जय़ उवाच:
न चैनं संय़ुगे कश्चित्समर्थः प्रतिवीक्षितुम् |
६५ क
सञ्जय़ उवाच:
न चैनमर्जुनो जातु प्रतिय़ुध्येत धर्मवित् ||
६५ ख
सञ्जय़ उवाच:
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसाय़कपीडितान् |
६६ क
सञ्जय़ उवाच:
मतिमाञ्श्रेय़से युक्तः केशवोऽर्जुनमव्रवीत् ||
६६ ख
सञ्जय़ उवाच:
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन |
६७ क
सञ्जय़ उवाच:
अपि वृत्रहणा युद्धे रथय़ूथपय़ूथपः ||
६७ ख
सञ्जय़ उवाच:
आस्थीय़तां जय़े योगो धर्ममुत्सृज्य पाण्डव |
६८ क
सञ्जय़ उवाच:
यथा वः संय़ुगे सर्वान्न हन्याद्रुक्मवाहनः ||
६८ ख
सञ्जय़ उवाच:
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |
६९ क
सञ्जय़ उवाच:
तं हतं संय़ुगे कश्चिदस्मै शंसतु मानवः ||
६९ ख
सञ्जय़ उवाच:
एतन्नारोचय़द्राजन्कुन्तीपुत्रो धनञ्जय़ः |
७० क
सञ्जय़ उवाच:
अन्ये त्वरोचय़न्सर्वे कृच्छ्रेण तु युधिष्ठिरः ||
७० ख
सञ्जय़ उवाच:
ततो भीमो महावाहुरनीके स्वे महागजम् |
७१ क
सञ्जय़ उवाच:
जघान गदय़ा राजन्नश्वत्थामानमित्युत ||
७१ ख
सञ्जय़ उवाच:
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे |
७२ क
सञ्जय़ उवाच:
अश्वत्थामा हत इति शव्दमुच्चैश्चकार ह ||
७२ ख
सञ्जय़ उवाच:
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् |
७३ क
सञ्जय़ उवाच:
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ||
७३ ख
सञ्जय़ उवाच:
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रिय़म् |
७४ क
सञ्जय़ उवाच:
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ||
७४ ख
सञ्जय़ उवाच:
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै |
७५ क
सञ्जय़ उवाच:
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ||
७५ ख
सञ्जय़ उवाच:
स लव्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् |
७६ क
सञ्जय़ उवाच:
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ||
७६ ख
सञ्जय़ उवाच:
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः |
७७ क
सञ्जय़ उवाच:
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ||
७७ ख
सञ्जय़ उवाच:
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः |
७८ क
सञ्जय़ उवाच:
तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः ||
७८ ख
सञ्जय़ उवाच:
ततः प्रादुष्करोद्द्रोणो व्राह्ममस्त्रं परन्तपः |
७९ क
सञ्जय़ उवाच:
वधाय़ तेषां शूराणां पाञ्चालानाममर्षितः ||
७९ ख
सञ्जय़ उवाच:
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् |
८० क
सञ्जय़ उवाच:
शिरांस्यपातय़च्चापि पाञ्चालानां महामृधे |
८० ख
सञ्जय़ उवाच:
तथैव परिघाकारान्वाहून्कनकभूषणान् ||
८० ग
सञ्जय़ उवाच:
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः |
८१ क
सञ्जय़ उवाच:
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ||
८१ ख
सञ्जय़ उवाच:
कुञ्जराणां च पततां हय़ौघानां च भारत |
८२ क
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||
८२ ख
सञ्जय़ उवाच:
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् |
८३ क
सञ्जय़ उवाच:
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ||
८३ ख
सञ्जय़ उवाच:
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् |
८४ क
सञ्जय़ उवाच:
वसुदानस्य भल्लेन शिरः काय़ादपाहरत् ||
८४ ख
सञ्जय़ उवाच:
पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जय़ान् |
८५ क
सञ्जय़ उवाच:
हस्तिनामय़ुतं हत्वा जघानाश्वाय़ुतं पुनः ||
८५ ख
सञ्जय़ उवाच:
क्षत्रिय़ाणामभावाय़ दृष्ट्वा द्रोणमवस्थितम् |
८६ क
सञ्जय़ उवाच:
ऋषय़ोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ||
८६ ख
सञ्जय़ उवाच:
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः |
८७ क
सञ्जय़ उवाच:
वसिष्ठः कश्यपोऽत्रिश्च व्रह्मलोकं निनीषवः ||
८७ ख
सञ्जय़ उवाच:
सिकताः पृश्नय़ो गर्गा वालखिल्या मरीचिपाः |
८८ क
सञ्जय़ उवाच:
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षय़ः ||
८८ ख
सञ्जय़ उवाच:
त एनमव्रुवन्सर्वे द्रोणमाहवशोभिनम् |
८९ क
सञ्जय़ उवाच:
अधर्मतः कृतं युद्धं समय़ो निधनस्य ते ||
८९ ख
सञ्जय़ उवाच:
न्यस्याय़ुधं रणे द्रोण समेत्यास्मानवस्थितान् |
९० क
सञ्जय़ उवाच:
नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ||
९० ख
सञ्जय़ उवाच:
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च |
९१ क
सञ्जय़ उवाच:
व्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ||
९१ ख
सञ्जय़ उवाच:
न्यस्याय़ुधममोघेषो तिष्ठ वर्त्मनि शाश्वते |
९२ क
सञ्जय़ उवाच:
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ||
९२ ख
सञ्जय़ उवाच:
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् |
९३ क
सञ्जय़ उवाच:
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् ||
९३ ख
सञ्जय़ उवाच:
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् |
९४ क
सञ्जय़ उवाच:
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ||
९४ ख
सञ्जय़ उवाच:
स्थिरा वुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् |
९५ क
सञ्जय़ उवाच:
त्रय़ाणामपि लोकानामैश्वर्यार्थे कथञ्चन ||
९५ ख
सञ्जय़ उवाच:
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः |
९६ क
सञ्जय़ उवाच:
तस्मिंस्तस्य हि सत्याशा वाल्यात्प्रभृति पाण्डवे ||
९६ ख
सञ्जय़ उवाच:
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् |
९७ क
सञ्जय़ उवाच:
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽव्रवीत् ||
९७ ख
सञ्जय़ उवाच:
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः |
९८ क
सञ्जय़ उवाच:
सत्यं व्रवीमि ते सेना विनाशं समुपैष्यति ||
९८ ख
सञ्जय़ उवाच:
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्याय़ोऽनृतं भवेत् |
९९ क
सञ्जय़ उवाच:
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ||
९९ ख