chevron_left द्रोण पर्व अध्याय १६४
सञ्जय़ उवाच:
तय़ोः संवदतोरेवं भीमसेनोऽव्रवीदिदम् |
१०० क
सञ्जय़ उवाच:
श्रुत्वैव तं महाराज वधोपाय़ं महात्मनः ||
१०० ख
सञ्जय़ उवाच:
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः |
१०१ क
सञ्जय़ उवाच:
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ||
१०१ ख
सञ्जय़ उवाच:
निहतो युधि विक्रम्य ततोऽहं द्रोणमव्रुवम् |
१०२ क
सञ्जय़ उवाच:
अश्वत्थामा हतो व्रह्मन्निवर्तस्वाहवादिति ||
१०२ ख
सञ्जय़ उवाच:
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः |
१०३ क
सञ्जय़ उवाच:
स त्वं गोविन्दवाक्यानि मानय़स्व जय़ैषिणः ||
१०३ ख
सञ्जय़ उवाच:
द्रोणाय़ निहतं शंस राजञ्शारद्वतीसुतम् |
१०४ क
सञ्जय़ उवाच:
त्वय़ोक्तो नैष युध्येत जातु राजन्द्विजर्षभः |
१०४ ख
सञ्जय़ उवाच:
सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ||
१०४ ग
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः |
१०५ क
सञ्जय़ उवाच:
भावित्वाच्च महाराज वक्तुं समुपचक्रमे ||
१०५ ख
सञ्जय़ उवाच:
तमतथ्यभय़े मग्नो जय़े सक्तो युधिष्ठिरः |
१०६ क
सञ्जय़ उवाच:
अव्यक्तमव्रवीद्राजन्हतः कुञ्जर इत्युत ||
१०६ ख
सञ्जय़ उवाच:
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः |
१०७ क
सञ्जय़ उवाच:
वभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ||
१०७ ख
सञ्जय़ उवाच:
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः |
१०८ क
सञ्जय़ उवाच:
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ||
१०८ ख
सञ्जय़ उवाच:
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् |
१०९ क
सञ्जय़ उवाच:
ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ||
१०९ ख
सञ्जय़ उवाच:
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च |
११० क
सञ्जय़ उवाच:
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दम ||
११० ख
सञ्जय़ उवाच:
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |
१११ क
सञ्जय़ उवाच:
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ||
१११ ख
सञ्जय़ उवाच:
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे |
११२ क
सञ्जय़ उवाच:
लव्धो द्रोणविनाशाय़ समिद्धाद्धव्यवाहनात् ||
११२ ख
सञ्जय़ उवाच:
स धनुर्जैत्रमादाय़ घोरं जलदनिस्वनम् |
११३ क
सञ्जय़ उवाच:
दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ||
११३ ख
सञ्जय़ उवाच:
सन्दधे कार्मुके तस्मिञ्शरमाशीविषोपमम् |
११४ क
सञ्जय़ उवाच:
द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ||
११४ ख
सञ्जय़ उवाच:
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे |
११५ क
सञ्जय़ उवाच:
द्योततो भास्करस्येव घनान्ते परिवेशिनः ||
११५ ख
सञ्जय़ उवाच:
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः |
११६ क
सञ्जय़ उवाच:
अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ||
११६ ख
सञ्जय़ उवाच:
तमिषुं संहितं तेन भारद्वाजः प्रतापवान् |
११७ क
सञ्जय़ उवाच:
दृष्ट्वामन्यत देहस्य कालपर्याय़मागतम् ||
११७ ख
सञ्जय़ उवाच:
ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे |
११८ क
सञ्जय़ उवाच:
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ||
११८ ख
सञ्जय़ उवाच:
तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता |
११९ क
सञ्जय़ उवाच:
तस्य चाह्नस्त्रिभागेन क्षय़ं जग्मुः पतत्रिणः ||
११९ ख
सञ्जय़ उवाच:
स शरक्षय़मासाद्य पुत्रशोकेन चार्दितः |
१२० क
सञ्जय़ उवाच:
विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ||
१२० ख
सञ्जय़ उवाच:
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः |
१२१ क
सञ्जय़ उवाच:
तेजसा प्रेर्यमाणश्च युय़ुधे सोऽतिमानुषम् ||
१२१ ख
सञ्जय़ उवाच:
अथान्यत्स समादाय़ दिव्यमाङ्गिरसं धनुः |
१२२ क
सञ्जय़ उवाच:
शरांश्च व्रह्मदण्डाभान्धृष्टद्युम्नमय़ोधय़त् ||
१२२ ख
सञ्जय़ उवाच:
ततस्तं शरवर्षेण महता समवाकिरत् |
१२३ क
सञ्जय़ उवाच:
व्यशातय़च्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः ||
१२३ ख
सञ्जय़ उवाच:
तं शरं शतधा चास्य द्रोणश्चिच्छेद साय़कैः |
१२४ क
सञ्जय़ उवाच:
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातय़त् ||
१२४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय़ कार्मुकम् |
१२५ क
सञ्जय़ उवाच:
शितेन चैनं वाणेन प्रत्यविध्यत्स्तनान्तरे ||
१२५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संय़ुगे |
१२६ क
सञ्जय़ उवाच:
भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ||
१२६ ख
सञ्जय़ उवाच:
यच्चास्य वाणं विकृतं धनूंषि च विशां पते |
१२७ क
सञ्जय़ उवाच:
सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च ||
१२७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः |
१२८ क
सञ्जय़ उवाच:
जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः ||
१२८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः |
१२९ क
सञ्जय़ उवाच:
अमिश्रय़दमेय़ात्मा व्राह्ममस्त्रमुदीरय़न् ||
१२९ ख
सञ्जय़ उवाच:
ते मिश्रा वह्वशोभन्त जवना वातरंहसः |
१३० क
सञ्जय़ उवाच:
पारावतसवर्णाश्च शोणाश्च भरतर्षभ ||
१३० ख
सञ्जय़ उवाच:
यथा सविद्युतो मेघा नदन्तो जलदागमे |
१३१ क
सञ्जय़ उवाच:
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ||
१३१ ख
सञ्जय़ उवाच:
ईषावन्धं चक्रवन्धं रथवन्धं तथैव च |
१३२ क
सञ्जय़ उवाच:
प्रणाशय़दमेय़ात्मा धृष्टद्युम्नस्य स द्विजः ||
१३२ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
१३३ क
सञ्जय़ उवाच:
उत्तमामापदं प्राप्य गदां वीरः परामृशत् ||
१३३ ख
सञ्जय़ उवाच:
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः |
१३४ क
सञ्जय़ उवाच:
निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ||
१३४ ख
सञ्जय़ उवाच:
तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः |
१३५ क
सञ्जय़ उवाच:
विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ||
१३५ ख
सञ्जय़ उवाच:
असंशय़ं तथाभूते पाञ्चाल्यः साध्वमन्यत |
१३६ क
सञ्जय़ उवाच:
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ||
१३६ ख
सञ्जय़ उवाच:
ततः स्वरथनीडस्थः स्वरथस्य रथेषय़ा |
१३७ क
सञ्जय़ उवाच:
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ||
१३७ ख
सञ्जय़ उवाच:
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः |
१३८ क
सञ्जय़ उवाच:
इय़ेष वक्षो भेत्तुं च भारद्वाजस्य संय़ुगे ||
१३८ ख
सञ्जय़ उवाच:
सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च |
१३९ क
सञ्जय़ उवाच:
शोणानां जघनार्धेषु तत्सैन्याः समपूजय़न् ||
१३९ ख
सञ्जय़ उवाच:
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः |
१४० क
सञ्जय़ उवाच:
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ||
१४० ख
सञ्जय़ उवाच:
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः |
१४१ क
सञ्जय़ उवाच:
तद्वदासीदभीसारो द्रोणं प्रार्थय़तो रणे ||
१४१ ख
सञ्जय़ उवाच:
तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी |
१४२ क
सञ्जय़ उवाच:
सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ||
१४२ ख
सञ्जय़ उवाच:
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः |
१४३ क
सञ्जय़ उवाच:
शोणाश्च पर्यमुच्यन्त रथवन्धाद्विशां पते ||
१४३ ख
सञ्जय़ उवाच:
तान्हय़ान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः |
१४४ क
सञ्जय़ उवाच:
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ||
१४४ ख
सञ्जय़ उवाच:
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः |
१४५ क
सञ्जय़ उवाच:
द्रोणमभ्यपतद्राजन्वैनतेय़ इवोरगम् ||
१४५ ख
सञ्जय़ उवाच:
तस्य रूपं वभौ राजन्भारद्वाजं जिघांसतः |
१४६ क
सञ्जय़ उवाच:
यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ||
१४६ ख
सञ्जय़ उवाच:
सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् |
१४७ क
सञ्जय़ उवाच:
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ||
१४७ ख
सञ्जय़ उवाच:
परिवृत्तं निवृत्तं च खड्गं चर्म च धारय़न् |
१४८ क
सञ्जय़ उवाच:
सम्पातं समुदीर्णं च दर्शय़ामास पार्षतः ||
१४८ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण शतचन्द्रमपातय़त् |
१४९ क