वैशम्पाय़न उवाच:
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ |
१ क
वैशम्पाय़न उवाच:
अर्जुनः परय़ा प्रीत्या पूर्णचन्द्र इवावभौ ||
१ ख
वैशम्पाय़न उवाच:
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः |
२ क
वैशम्पाय़न उवाच:
जातकौतूहलोऽतीव वसिष्ठस्य तपोवलात् ||
२ ख
वैशम्पाय़न उवाच:
वसिष्ठ इति यस्यैतदृषेर्नाम त्वय़ेरितम् |
३ क
वैशम्पाय़न उवाच:
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ||
३ ख
वैशम्पाय़न उवाच:
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः |
४ क
वैशम्पाय़न उवाच:
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ||
४ ख
गन्धर्व उवाच:
तपसा निर्जितौ शश्वदजेय़ावमरैरपि |
५ क
गन्धर्व उवाच:
कामक्रोधावुभौ यस्य चरणौ संववाहतुः ||
५ ख
गन्धर्व उवाच:
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः |
६ क
गन्धर्व उवाच:
विश्वामित्रापराधेन धारय़न्मन्युमुत्तमम् ||
६ ख
गन्धर्व उवाच:
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः |
७ क
गन्धर्व उवाच:
विश्वामित्रविनाशाय़ न मेने कर्म दारुणम् ||
७ ख
गन्धर्व उवाच:
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षय़ात् |
८ क
गन्धर्व उवाच:
कृतान्तं नातिचक्राम वेलामिव महोदधिः ||
८ ख
गन्धर्व उवाच:
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः |
९ क
गन्धर्व उवाच:
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ||
९ ख
गन्धर्व उवाच:
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् |
१० क
गन्धर्व उवाच:
ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ||
१० ख
गन्धर्व उवाच:
स हि तान्याजय़ामास सर्वान्नृपतिसत्तमान् |
११ क
गन्धर्व उवाच:
व्रह्मर्षिः पाण्डवश्रेष्ठ वृहस्पतिरिवामरान् ||
११ ख
गन्धर्व उवाच:
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः |
१२ क
गन्धर्व उवाच:
व्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ||
१२ ख
गन्धर्व उवाच:
क्षत्रिय़ेण हि जातेन पृथिवीं जेतुमिच्छता |
१३ क
गन्धर्व उवाच:
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धय़े ||
१३ ख
गन्धर्व उवाच:
महीं जिगीषता राज्ञा व्रह्म कार्यं पुरःसरम् |
१४ क
गन्धर्व उवाच:
तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ||
१४ ख