सञ्जय़ उवाच:
तस्य मूर्धानमालम्व्य गतसत्त्वस्य देहिनः |
४७ क
सञ्जय़ उवाच:
किञ्चिदव्रुवतः काय़ाद्विचकर्तासिना शिरः ||
४७ ख
सञ्जय़ उवाच:
हर्षेण महता युक्तो भारद्वाजे निपातिते |
४८ क
सञ्जय़ उवाच:
सिंहनादरवं चक्रे भ्रामय़न्खड्गमाहवे ||
४८ ख
सञ्जय़ उवाच:
आकर्णपलितः श्यामो वय़साशीतिपञ्चकः |
४९ क
सञ्जय़ उवाच:
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ||
४९ ख
सञ्जय़ उवाच:
उक्तवांश्च महावाहुः कुन्तीपुत्रो धनञ्जय़ः |
५० क
सञ्जय़ उवाच:
जीवन्तमानय़ाचार्यं मा वधीर्द्रुपदात्मज ||
५० ख
सञ्जय़ उवाच:
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह |
५१ क
सञ्जय़ उवाच:
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ||
५१ ख
सञ्जय़ उवाच:
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः |
५२ क
सञ्जय़ उवाच:
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ||
५२ ख
सञ्जय़ उवाच:
शोणितेन परिक्लिन्नो रथाद्भूमिमरिन्दमः |
५३ क
सञ्जय़ उवाच:
लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत |
५३ ख
सञ्जय़ उवाच:
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ||
५३ ग
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् |
५४ क
सञ्जय़ उवाच:
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ||
५४ ख
सञ्जय़ उवाच:
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः |
५५ क
सञ्जय़ उवाच:
पलाय़नकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ||
५५ ख
सञ्जय़ उवाच:
द्रोणस्तु दिवमास्थाय़ नक्षत्रपथमाविशत् |
५६ क
सञ्जय़ उवाच:
अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ||
५६ ख
सञ्जय़ उवाच:
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च |
५७ क
सञ्जय़ उवाच:
विधूमामिव संय़ान्तीमुल्कां प्रज्वलितामिव |
५७ ख
सञ्जय़ उवाच:
अपश्याम दिवं स्तव्ध्वा गच्छन्तं तं महाद्युतिम् ||
५७ ग
सञ्जय़ उवाच:
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जय़ाः |
५८ क
सञ्जय़ उवाच:
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ||
५८ ख
सञ्जय़ उवाच:
निहता हय़भूय़िष्ठाः सङ्ग्रामे निशितैः शरैः |
५९ क
सञ्जय़ उवाच:
तावका निहते द्रोणे गतासव इवाभवन् ||
५९ ख
सञ्जय़ उवाच:
पराजय़मथावाप्य परत्र च महद्भय़म् |
६० क
सञ्जय़ उवाच:
उभय़ेनैव ते हीना नाविन्दन्धृतिमात्मनः ||
६० ख
सञ्जय़ उवाच:
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः |
६१ क
सञ्जय़ उवाच:
नाध्यगच्छंस्तदा राजन्कवन्धाय़ुतसङ्कुले ||
६१ ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा परत्र च महद्यशः |
६२ क
सञ्जय़ उवाच:
वाणशव्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ||
६२ ख
सञ्जय़ उवाच:
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः |
६३ क
सञ्जय़ उवाच:
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ||
६३ ख
सञ्जय़ उवाच:
अव्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् |
६४ क
सञ्जय़ उवाच:
भूय़ोऽहं त्वां विजय़िनं परिष्वक्ष्यामि पार्षत |
६४ ख
सञ्जय़ उवाच:
सूतपुत्रे हते पापे धार्तराष्ट्रे च संय़ुगे ||
६४ ग
सञ्जय़ उवाच:
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः |
६५ क
सञ्जय़ उवाच:
वाहुशव्देन पृथिवीं कम्पय़ामास पाण्डवः ||
६५ ख
सञ्जय़ उवाच:
तस्य शव्देन वित्रस्ताः प्राद्रवंस्तावका युधि |
६६ क
सञ्जय़ उवाच:
क्षत्रधर्मं समुत्सृज्य पलाय़नपराय़णाः ||
६६ ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा हृष्टा ह्यासन्विशां पते |
६७ क
सञ्जय़ उवाच:
अरिक्षय़ं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ||
६७ ख
सञ्जय़ उवाच:
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः |
६८ क
सञ्जय़ उवाच:
हतप्रवीरा विध्वस्ता भृशं शोकपराय़णाः ||
६८ ख
सञ्जय़ उवाच:
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः |
६९ क
सञ्जय़ उवाच:
आर्तस्वरेण महता पुत्रं ते पर्यवारय़न् ||
६९ ख
सञ्जय़ उवाच:
रजस्वला वेपमाना वीक्षमाणा दिशो दश |
७० क
सञ्जय़ उवाच:
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ||
७० ख
सञ्जय़ उवाच:
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव |
७१ क
सञ्जय़ उवाच:
अशक्नुवन्नवस्थातुमपाय़ात्तनय़स्तव ||
७१ ख
सञ्जय़ उवाच:
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत |
७२ क
सञ्जय़ उवाच:
आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ||
७२ ख
सञ्जय़ उवाच:
भास्करस्येव पतनं समुद्रस्येव शोषणम् |
७३ क
सञ्जय़ उवाच:
विपर्यासं यथा मेरोर्वासवस्येव निर्जय़म् ||
७३ ख
सञ्जय़ उवाच:
अमर्षणीय़ं तद्दृष्ट्वा भारद्वाजस्य पातनम् |
७४ क
सञ्जय़ उवाच:
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भय़ात् ||
७४ ख
सञ्जय़ उवाच:
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह |
७५ क
सञ्जय़ उवाच:
हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ||
७५ ख
सञ्जय़ उवाच:
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् |
७६ क
सञ्जय़ उवाच:
परिगृह्य महासेनां सूतपुत्रोऽपय़ाद्भय़ात् ||
७६ ख
सञ्जय़ उवाच:
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् |
७७ क
सञ्जय़ उवाच:
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपय़ाद्भय़ात् ||
७७ ख
सञ्जय़ उवाच:
हतप्रवीरैर्भूय़िष्ठं द्विपैर्वहुपदातिभिः |
७८ क
सञ्जय़ उवाच:
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति व्रुवन् ||
७८ ख
सञ्जय़ उवाच:
भोजानीकेन शिष्टेन कलिङ्गारट्टवाह्लिकैः |
७९ क
सञ्जय़ उवाच:
कृतवर्मा वृतो राजन्प्राय़ात्सुजवनैर्हय़ैः ||
७९ ख
सञ्जय़ उवाच:
पदातिगणसंय़ुक्तस्त्रस्तो राजन्भय़ार्दितः |
८० क
सञ्जय़ उवाच:
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ||
८० ख
सञ्जय़ उवाच:
दर्शनीय़ो युवा चैव शौर्ये च कृतलक्षणः |
८१ क
सञ्जय़ उवाच:
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ||
८१ ख
सञ्जय़ उवाच:
गजाश्वरथसंय़ुक्तो वृतश्चैव पदातिभिः |
८२ क
सञ्जय़ उवाच:
दुर्योधनो महाराज प्राय़ात्तत्र महारथः ||
८२ ख
सञ्जय़ उवाच:
गजान्रथान्समारुह्य परस्यापि हय़ाञ्जनाः |
८३ क
सञ्जय़ उवाच:
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ||
८३ ख
सञ्जय़ उवाच:
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः |
८४ क
सञ्जय़ उवाच:
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ||
८४ ख
सञ्जय़ उवाच:
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ |
८५ क
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति न च ते स्वय़ं तत्रावतस्थिरे ||
८५ ख
सञ्जय़ उवाच:
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् |
८६ क
सञ्जय़ उवाच:
अधिरुह्य हय़ान्योधाः क्षिप्रं पद्भिरचोदय़न् ||
८६ ख
सञ्जय़ उवाच:
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि |
८७ क
सञ्जय़ उवाच:
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानिय़ात् ||
८७ ख
सञ्जय़ उवाच:
हत्वा वहुविधां सेनां पाण्डूनां युद्धदुर्मदः |
८८ क
सञ्जय़ उवाच:
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ||
८८ ख
सञ्जय़ उवाच:
द्रवमाणं वलं दृष्ट्वा पलाय़नकृतक्षणम् |
८९ क
सञ्जय़ उवाच:
दुर्योधनं समासाद्य द्रोणपुत्रोऽव्रवीदिदम् ||
८९ ख
सञ्जय़ उवाच:
किमिय़ं द्रवते सेना त्रस्तरूपेव भारत |
९० क
सञ्जय़ उवाच:
द्रवमाणां च राजेन्द्र नावस्थापय़से रणे ||
९० ख
सञ्जय़ उवाच:
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप |
९१ क
सञ्जय़ उवाच:
कर्णप्रभृतय़श्चेमे नावतिष्ठन्ति पार्थिवाः ||
९१ ख
सञ्जय़ उवाच:
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा |
९२ क
सञ्जय़ उवाच:
कच्चित्क्षेमं महावाहो तव सैन्यस्य भारत ||
९२ ख
सञ्जय़ उवाच:
कस्मिन्निदं हते राजन्रथसिंहे वलं तव |
९३ क
सञ्जय़ उवाच:
एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ||
९३ ख
सञ्जय़ उवाच:
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् |
९४ क
सञ्जय़ उवाच:
घोरमप्रिय़माख्यातुं नाशकत्पार्थिवर्षभः ||
९४ ख
सञ्जय़ उवाच:
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे |
९५ क