सञ्जय़ उवाच:
वाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ||
९५ ख
सञ्जय़ उवाच:
ततः शारद्वतं राजा सव्रीडमिदमव्रवीत् |
९६ क
सञ्जय़ उवाच:
शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ||
९६ ख
सञ्जय़ उवाच:
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः |
९७ क
सञ्जय़ उवाच:
शशंस द्रोणपुत्राय़ यथा द्रोणो निपातितः ||
९७ ख
कृप उवाच:
वय़ं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् |
९८ क
कृप उवाच:
प्रावर्तय़ाम सङ्ग्रामं पाञ्चालैरेव केवलैः ||
९८ ख
कृप उवाच:
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः |
९९ क
कृप उवाच:
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातय़न् ||
९९ ख
कृप उवाच:
ततो द्रोणो व्राह्ममस्त्रं विकुर्वाणो नरर्षभः |
१०० क
कृप उवाच:
अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ||
१०० ख
कृप उवाच:
पाण्डवाः केकय़ा मत्स्याः पाञ्चालाश्च विशेषतः |
१०१ क
कृप उवाच:
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ||
१०१ ख
कृप उवाच:
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् |
१०२ क
कृप उवाच:
द्रोणो व्रह्मास्त्रनिर्दग्धं प्रेषय़ामास मृत्यवे ||
१०२ ख
कृप उवाच:
आकर्णपलितः श्यामो वय़साशीतिपञ्चकः |
१०३ क
कृप उवाच:
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||
१०३ ख
कृप उवाच:
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु |
१०४ क
कृप उवाच:
अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ||
१०४ ख
कृप उवाच:
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् |
१०५ क
कृप उवाच:
दिव्यमस्त्रं विकुर्वाणो वभूवार्क इवोदितः ||
१०५ ख
कृप उवाच:
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् |
१०६ क
कृप उवाच:
मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ||
१०६ ख
कृप उवाच:
ते दह्यमाना द्रोणेन सूर्येणेव विराजता |
१०७ क
कृप उवाच:
दग्धवीर्या निरुत्साहा वभूवुर्गतचेतसः ||
१०७ ख
कृप उवाच:
तान्दृष्ट्वा पीडितान्वाणैर्द्रोणेन मधुसूदनः |
१०८ क
कृप उवाच:
जय़ैषी पाण्डुपुत्राणामिदं वचनमव्रवीत् ||
१०८ ख
कृप उवाच:
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः |
१०९ क
कृप उवाच:
अपि वृत्रहणा सङ्ख्ये रथय़ूथपय़ूथपः ||
१०९ ख
कृप उवाच:
ते यूय़ं धर्ममुत्सृज्य जय़ं रक्षत पाण्डवाः |
११० क
कृप उवाच:
यथा वः संय़ुगे सर्वान्न हन्याद्रुक्मवाहनः ||
११० ख
कृप उवाच:
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |
१११ क
कृप उवाच:
हतं तं संय़ुगे कश्चिदाख्यात्वस्मै मृषा नरः ||
१११ ख
कृप उवाच:
एतन्नारोचय़द्वाक्यं कुन्तीपुत्रो धनञ्जय़ः |
११२ क
कृप उवाच:
अरोचय़ंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ||
११२ ख
कृप उवाच:
भीमसेनस्तु सव्रीडमव्रवीत्पितरं तव |
११३ क
कृप उवाच:
अश्वत्थामा हत इति तच्चावुध्यत ते पिता ||
११३ ख
कृप उवाच:
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत |
११४ क
कृप उवाच:
हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ||
११४ ख
कृप उवाच:
तदतथ्यभय़े मग्नो जय़े सक्तो युधिष्ठिरः |
११५ क
कृप उवाच:
अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत |
११५ ख
कृप उवाच:
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ||
११५ ग
कृप उवाच:
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत |
११६ क
कृप उवाच:
यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि |
११६ ख
कृप उवाच:
पुत्रस्ते दय़ितो नित्यं शोऽश्वत्थामा निपातितः ||
११६ ग
कृप उवाच:
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रिय़म् |
११७ क
कृप उवाच:
निय़म्य दिव्यान्यस्त्राणि नाय़ुध्यत यथा पुरा ||
११७ ख
कृप उवाच:
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |
११८ क
कृप उवाच:
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ||
११८ ख
कृप उवाच:
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः |
११९ क
कृप उवाच:
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय़ उपाविशत् ||
११९ ख
कृप उवाच:
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा |
१२० क
कृप उवाच:
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ||
१२० ख
कृप उवाच:
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽव्रुवन् |
१२१ क
कृप उवाच:
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ||
१२१ ख
कृप उवाच:
उद्यम्य वाहू त्वरितो व्रुवाणश्च पुनः पुनः |
१२२ क
कृप उवाच:
जीवन्तमानय़ाचार्यं मा वधीरिति धर्मवित् ||
१२२ ख
कृप उवाच:
तथापि वार्यमाणेन कौरवैरर्जुनेन च |
१२३ क
कृप उवाच:
हत एव नृशंसेन पिता तव नरर्षभ ||
१२३ ख
कृप उवाच:
सैनिकाश्च ततः सर्वे प्राद्रवन्त भय़ार्दिताः |
१२४ क
कृप उवाच:
वय़ं चापि निरुत्साहा हते पितरि तेऽनघ ||
१२४ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे |
१२५ क
सञ्जय़ उवाच:
क्रोधमाहारय़त्तीव्रं पदाहत इवोरगः ||
१२५ ख