chevron_left आदि पर्व अध्याय १६५
अर्जुन उवाच:
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठय़ोः |
१ क
अर्जुन उवाच:
वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ||
१ ख
गन्धर्व उवाच:
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते |
२ क
गन्धर्व उवाच:
पार्थ सर्वेषु लोकेषु यथावत्तन्निवोध मे ||
२ ख
गन्धर्व उवाच:
कन्यकुव्जे महानासीत्पार्थिवो भरतर्षभ |
३ क
गन्धर्व उवाच:
गाधीति विश्रुतो लोके सत्यधर्मपराय़णः ||
३ ख
गन्धर्व उवाच:
तस्य धर्मात्मनः पुत्रः समृद्धवलवाहनः |
४ क
गन्धर्व उवाच:
विश्वामित्र इति ख्यातो वभूव रिपुमर्दनः ||
४ ख
गन्धर्व उवाच:
स चचार सहामात्यो मृगय़ां गहने वने |
५ क
गन्धर्व उवाच:
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ||
५ ख
गन्धर्व उवाच:
व्याय़ामकर्शितः सोऽथ मृगलिप्सुः पिपासितः |
६ क
गन्धर्व उवाच:
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ||
६ ख
गन्धर्व उवाच:
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः |
७ क
गन्धर्व उवाच:
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजय़ा ||
७ ख
गन्धर्व उवाच:
पाद्यार्घ्याचमनीय़ेन स्वागतेन च भारत |
८ क
गन्धर्व उवाच:
तथैव प्रतिजग्राह वन्येन हविषा तथा ||
८ ख
गन्धर्व उवाच:
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः |
९ क
गन्धर्व उवाच:
उक्ता कामान्प्रय़च्छेति सा कामान्दुदुहे ततः ||
९ ख
गन्धर्व उवाच:
ग्राम्यारण्या ओषधीश्च दुदुहे पय़ एव च |
१० क
गन्धर्व उवाच:
षड्रसं चामृतरसं रसाय़नमनुत्तमम् ||
१० ख
गन्धर्व उवाच:
भोजनीय़ानि पेय़ानि भक्ष्याणि विविधानि च |
११ क
गन्धर्व उवाच:
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ||
११ ख
गन्धर्व उवाच:
तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः |
१२ क
गन्धर्व उवाच:
सामात्यः सवलश्चैव तुतोष स भृशं नृपः ||
१२ ख
गन्धर्व उवाच:
षडाय़तां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् |
१३ क
गन्धर्व उवाच:
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ||
१३ ख
गन्धर्व उवाच:
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् |
१४ क
गन्धर्व उवाच:
पुष्टाय़तशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ||
१४ ख
गन्धर्व उवाच:
अभिनन्दति तां नन्दीं वसिष्ठस्य पय़स्विनीम् |
१५ क
गन्धर्व उवाच:
अव्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ||
१५ ख
गन्धर्व उवाच:
अर्वुदेन गवां व्रह्मन्मम राज्येन वा पुनः |
१६ क
गन्धर्व उवाच:
नन्दिनीं सम्प्रय़च्छस्व भुङ्क्ष्व राज्यं महामुने ||
१६ ख
वसिष्ठ उवाच:
देवतातिथिपित्रर्थमाज्यार्थं च पय़स्विनी |
१७ क
वसिष्ठ उवाच:
अदेय़ा नन्दिनीय़ं मे राज्येनापि तवानघ ||
१७ ख
विश्वामित्र उवाच:
क्षत्रिय़ोऽहं भवान्विप्रस्तपःस्वाध्याय़साधनः |
१८ क
विश्वामित्र उवाच:
व्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ||
१८ ख
विश्वामित्र उवाच:
अर्वुदेन गवां यस्त्वं न ददासि ममेप्सिताम् |
१९ क
विश्वामित्र उवाच:
स्वधर्मं न प्रहास्यामि नय़िष्ये ते वलेन गाम् ||
१९ ख
वसिष्ठ उवाच:
वलस्थश्चासि राजा च वाहुवीर्यश्च क्षत्रिय़ः |
२० क
वसिष्ठ उवाच:
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय़ ||
२० ख
गन्धर्व उवाच:
एवमुक्तस्तदा पार्थ विश्वामित्रो वलादिव |
२१ क
गन्धर्व उवाच:
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ||
२१ ख
गन्धर्व उवाच:
कशादण्डप्रतिहता काल्यमाना ततस्ततः |
२२ क
गन्धर्व उवाच:
हम्भाय़माना कल्याणी वसिष्ठस्याथ नन्दिनी ||
२२ ख
गन्धर्व उवाच:
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी |
२३ क
गन्धर्व उवाच:
भृशं च ताड्यमानापि न जगामाश्रमात्ततः ||
२३ ख
वसिष्ठ उवाच:
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः |
२४ क
वसिष्ठ उवाच:
वलाद्ध्रिय़सि मे नन्दि क्षमावान्व्राह्मणो ह्यहम् ||
२४ ख
गन्धर्व उवाच:
सा तु तेषां वलान्नन्दी वलानां भरतर्षभ |
२५ क
गन्धर्व उवाच:
विश्वामित्रभय़ोद्विग्ना वसिष्ठं समुपागमत् ||
२५ ख
गौरु उवाच:
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् |
२६ क
गौरु उवाच:
विश्वामित्रवलैर्घोरैर्भगवन्किमुपेक्षसे ||
२६ ख
गन्धर्व उवाच:
एवं तस्यां तदा पर्थ धर्षिताय़ां महामुनिः |
२७ क
गन्धर्व उवाच:
न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ||
२७ ख
वसिष्ठ उवाच:
क्षत्रिय़ाणां वलं तेजो व्राह्मणानां क्षमा वलम् |
२८ क
वसिष्ठ उवाच:
क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ||
२८ ख
गौरु उवाच:
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे |
२९ क
गौरु उवाच:
अत्यक्ताहं त्वय़ा व्रह्मन्न शक्या नय़ितुं वलात् ||
२९ ख
वसिष्ठ उवाच:
न त्वां त्यजामि कल्याणि स्थीय़तां यदि शक्यते |
३० क
वसिष्ठ उवाच:
दृढेन दाम्ना वद्ध्वैष वत्सस्ते ह्रिय़ते वलात् ||
३० ख
गन्धर्व उवाच:
स्थीय़तामिति तच्छ्रुत्वा वसिष्ठस्य पय़स्विनी |
३१ क
गन्धर्व उवाच:
ऊर्ध्वाञ्चितशिरोग्रीवा प्रवभौ घोरदर्शना ||
३१ ख
गन्धर्व उवाच:
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना |
३२ क
गन्धर्व उवाच:
विश्वामित्रस्य तत्सैन्यं व्यद्रावय़त सर्वशः ||
३२ ख
गन्धर्व उवाच:
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः |
३३ क
गन्धर्व उवाच:
क्रोधदीप्तेक्षणा क्रोधं भूय़ एव समादधे ||
३३ ख
गन्धर्व उवाच:
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्वभौ |
३४ क
गन्धर्व उवाच:
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ||
३४ ख
गन्धर्व उवाच:
असृजत्पह्लवान्पुच्छाच्छकृतः शवराञ्शकान् |
३५ क
गन्धर्व उवाच:
मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ||
३५ ख
गन्धर्व उवाच:
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्वर्वरांस्तथा |
३६ क
गन्धर्व उवाच:
तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ||
३६ ख
गन्धर्व उवाच:
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा |
३७ क
गन्धर्व उवाच:
नानावरणसञ्छन्नैर्नानाय़ुधधरैस्तथा |
३७ ख
गन्धर्व उवाच:
अवाकीर्यत संरव्धैर्विश्वामित्रस्य पश्यतः ||
३७ ग
गन्धर्व उवाच:
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः |
३८ क
गन्धर्व उवाच:
अस्त्रवर्षेण महता काल्यमानं वलं ततः |
३८ ख
गन्धर्व उवाच:
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ||
३८ ग
गन्धर्व उवाच:
न च प्राणैर्विय़ुज्यन्त केचित्ते सैनिकास्तदा |
३९ क
गन्धर्व उवाच:
विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ||
३९ ख
गन्धर्व उवाच:
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रिय़ोजनम् |
४० क
गन्धर्व उवाच:
क्रोशमानं भय़ोद्विग्नं त्रातारं नाध्यगच्छत ||
४० ख
गन्धर्व उवाच:
दृष्ट्वा तन्महदाश्चर्यं व्रह्मतेजोभवं तदा |
४१ क
गन्धर्व उवाच:
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमव्रवीत् ||
४१ ख
गन्धर्व उवाच:
धिग्वलं क्षत्रिय़वलं व्रह्मतेजोवलं वलम् |
४२ क
गन्धर्व उवाच:
वलावलं विनिश्चित्य तप एव परं वलम् ||
४२ ख
गन्धर्व उवाच:
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रिय़म् |
४३ क
गन्धर्व उवाच:
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ||
४३ ख
गन्धर्व उवाच:
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा |
४४ क
गन्धर्व उवाच:
तताप सर्वान्दीप्तौजा व्राह्मणत्वमवाप च |
४४ ख
गन्धर्व उवाच:
अपिवच्च सुतं सोममिन्द्रेण सह कौशिकः ||
४४ ग