भीष्म उवाच:
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ |
१ क
भीष्म उवाच:
रथौ तव दुराधर्षौ शत्रून्विध्वंसय़िष्यतः ||
१ ख
भीष्म उवाच:
वलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ |
२ क
भीष्म उवाच:
गान्धारमुख्यौ तरुणौ दर्शनीय़ौ महावलौ ||
२ ख
भीष्म उवाच:
सखा ते दय़ितो नित्यं य एष रणकर्कशः |
३ क
भीष्म उवाच:
प्रोत्साहय़ति राजंस्त्वां विग्रहे पाण्डवैः सह ||
३ ख
भीष्म उवाच:
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव |
४ क
भीष्म उवाच:
मन्त्री नेता च वन्धुश्च मानी चात्यन्तमुच्छ्रितः ||
४ ख
भीष्म उवाच:
एष नैव रथः पूर्णो नाप्येवातिरथो नृप |
५ क
भीष्म उवाच:
विय़ुक्तः कवचेनैष सहजेन विचेतनः |
५ ख
भीष्म उवाच:
कुण्डलाभ्यां च दिव्याभ्यां विय़ुक्तः सततं घृणी ||
५ ग
भीष्म उवाच:
अभिशापाच्च रामस्य व्राह्मणस्य च भाषणात् |
६ क
भीष्म उवाच:
करणानां विय़ोगाच्च तेन मेऽर्धरथो मतः |
६ ख
भीष्म उवाच:
नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ||
६ ग
सञ्जय़ उवाच:
ततोऽव्रवीन्महावाहुर्द्रोणः शस्त्रभृतां वरः |
७ क
सञ्जय़ उवाच:
एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किञ्चन ||
७ ख
सञ्जय़ उवाच:
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते |
८ क
सञ्जय़ उवाच:
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ||
८ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु राधेय़ः क्रोधादुत्फुल्ललोचनः |
९ क
सञ्जय़ उवाच:
उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ||
९ ख
सञ्जय़ उवाच:
पितामह यथेष्टं मां वाक्षरैरुपकृन्तसि |
१० क
सञ्जय़ उवाच:
अनागसं सदा द्वेषादेवमेव पदे पदे |
१० ख
सञ्जय़ उवाच:
मर्षय़ामि च तत्सर्वं दुर्योधनकृतेन वै ||
१० ग
सञ्जय़ उवाच:
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा |
११ क
सञ्जय़ उवाच:
भवानर्धरथो मह्यं मतो नास्त्यत्र संशय़ः ||
११ ख
सञ्जय़ उवाच:
सर्वस्य जगतश्चैव गाङ्गेय़ न मृषा वदे |
१२ क
सञ्जय़ उवाच:
कुरूणामहितो नित्यं न च राजाववुध्यते ||
१२ ख
सञ्जय़ उवाच:
को हि नाम समानेषु राजसूदात्तकर्मसु |
१३ क
सञ्जय़ उवाच:
तेजोवधमिमं कुर्याद्विभेदय़िषुराहवे |
१३ ख
सञ्जय़ उवाच:
यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ||
१३ ग
सञ्जय़ उवाच:
न हाय़नैर्न पलितैर्न वित्तैर्न च वन्धुभिः |
१४ क
सञ्जय़ उवाच:
महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ||
१४ ख
सञ्जय़ उवाच:
वलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातय़ः |
१५ क
सञ्जय़ उवाच:
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वय़साधिकाः ||
१५ ख
सञ्जय़ उवाच:
यथेच्छकं स्वय़ङ्ग्राहाद्रथानतिरथांस्तथा |
१६ क
सञ्जय़ उवाच:
कामद्वेषसमाय़ुक्तो मोहात्प्रकुरुते भवान् ||
१६ ख
सञ्जय़ उवाच:
दुर्योधन महावाहो साधु सम्यगवेक्ष्यताम् |
१७ क
सञ्जय़ उवाच:
त्यज्यतां दुष्टभावोऽय़ं भीष्मः किल्विषकृत्तव ||
१७ ख
सञ्जय़ उवाच:
भिन्ना हि सेना नृपते दुःसन्धेय़ा भवत्युत |
१८ क
सञ्जय़ उवाच:
मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता ||
१८ ख
सञ्जय़ उवाच:
एषां द्वैधं समुत्पन्नं योधानां युधि भारत |
१९ क
सञ्जय़ उवाच:
तेजोवधो नः क्रिय़ते प्रत्यक्षेण विशेषतः ||
१९ ख
सञ्जय़ उवाच:
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः |
२० क
सञ्जय़ उवाच:
अहमावारय़िष्यामि पाण्डवानामनीकिनीम् ||
२० ख
सञ्जय़ उवाच:
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश |
२१ क
सञ्जय़ उवाच:
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ||
२१ ख
सञ्जय़ उवाच:
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा |
२२ क
सञ्जय़ उवाच:
क्व च भीष्मो गतवय़ा मन्दात्मा कालमोहितः ||
२२ ख
सञ्जय़ उवाच:
स्पर्धते हि सदा नित्यं सर्वेण जगता सह |
२३ क
सञ्जय़ उवाच:
न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ||
२३ ख
सञ्जय़ उवाच:
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् |
२४ क
सञ्जय़ उवाच:
न त्वेवाप्यतिवृद्धानां पुनर्वाला हि ते मताः ||
२४ ख
सञ्जय़ उवाच:
अहमेको हनिष्यामि पाण्डवान्नात्र संशय़ः |
२५ क
सञ्जय़ उवाच:
सुय़ुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ||
२५ ख
सञ्जय़ उवाच:
कृतः सेनापतिस्त्वेष त्वय़ा भीष्मो नराधिप |
२६ क
सञ्जय़ उवाच:
सेनापतिं गुणो गन्ता न तु योधान्कथञ्चन ||
२६ ख
सञ्जय़ उवाच:
नाहं जीवति गाङ्गेय़े योत्स्ये राजन्कथञ्चन |
२७ क
सञ्जय़ उवाच:
हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ||
२७ ख