chevron_left द्रोण पर्व अध्याय १६५
सञ्जय़ उवाच:
क्रूरमाय़ोधनं जज्ञे तस्मिन्राजसमागमे |
१ क
सञ्जय़ उवाच:
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ||
१ ख
सञ्जय़ उवाच:
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत |
२ क
सञ्जय़ उवाच:
छत्राणां चापविद्धानां चामराणां च संय़ुगे ||
२ ख
सञ्जय़ उवाच:
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः |
३ क
सञ्जय़ उवाच:
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ||
३ ख
सञ्जय़ उवाच:
वाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम |
४ क
सञ्जय़ उवाच:
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ||
४ ख
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे घोरे देवासुरोपमे |
५ क
सञ्जय़ उवाच:
अव्रवीत्क्षत्रिय़ांस्तत्र धर्मराजो युधिष्ठिरः |
५ ख
सञ्जय़ उवाच:
अभिद्रवत संय़त्ताः कुम्भय़ोनिं महारथाः ||
५ ग
सञ्जय़ उवाच:
एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः |
६ क
सञ्जय़ उवाच:
घटते च यथाशक्ति भारद्वाजस्य नाशने ||
६ ख
सञ्जय़ उवाच:
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे |
७ क
सञ्जय़ उवाच:
अद्य द्रोणं रणे क्रुद्धः पातय़िष्यति पार्षतः |
७ ख
सञ्जय़ उवाच:
ते यूय़ं सहिता भूत्वा कुम्भय़ोनिं परीप्सत ||
७ ग
सञ्जय़ उवाच:
युधिष्ठिरसमाज्ञप्ताः सृञ्जय़ानां महारथाः |
८ क
सञ्जय़ उवाच:
अभ्यद्रवन्त संय़त्ता भारद्वाजं जिघांसवः ||
८ ख
सञ्जय़ उवाच:
तान्समापततः सर्वान्भारद्वाजो महारथः |
९ क
सञ्जय़ उवाच:
अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ||
९ ख
सञ्जय़ उवाच:
प्रय़ाते सत्यसन्धे तु समकम्पत मेदिनी |
१० क
सञ्जय़ उवाच:
ववुर्वाताः सनिर्घातास्त्रासय़न्तो वरूथिनीम् ||
१० ख
सञ्जय़ उवाच:
पपात महती चोल्का आदित्यान्निर्गतेव ह |
११ क
सञ्जय़ उवाच:
दीपय़न्तीव तापेन शंसन्तीव महद्भय़म् ||
११ ख
सञ्जय़ उवाच:
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष |
१२ क
सञ्जय़ उवाच:
रथाः स्वनन्ति चात्यर्थं हय़ाश्चाश्रूण्यवासृजन् ||
१२ ख
सञ्जय़ उवाच:
हतौजा इव चाप्यासीद्भारद्वाजो महारथः |
१३ क
सञ्जय़ उवाच:
ऋषीणां व्रह्मवादानां स्वर्गस्य गमनं प्रति |
१३ ख
सञ्जय़ उवाच:
सुय़ुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ||
१३ ग
सञ्जय़ उवाच:
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः |
१४ क
सञ्जय़ उवाच:
निर्दहन्क्षत्रिय़व्रातान्द्रोणः पर्यचरद्रणे ||
१४ ख
सञ्जय़ उवाच:
हत्वा विंशतिसाहस्रान्क्षत्रिय़ानरिमर्दनः |
१५ क
सञ्जय़ उवाच:
दशाय़ुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ||
१५ ख
सञ्जय़ उवाच:
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः |
१६ क
सञ्जय़ उवाच:
क्षत्रिय़ाणामभावाय़ व्राह्ममात्मानमास्थितः ||
१६ ख
सञ्जय़ उवाच:
पाञ्चाल्यं विरथं भीमो हतसर्वाय़ुधं वशी |
१७ क
सञ्जय़ उवाच:
अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ||
१७ ख
सञ्जय़ उवाच:
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः |
१८ क
सञ्जय़ उवाच:
अव्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ||
१८ ख
सञ्जय़ उवाच:
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् |
१९ क
सञ्जय़ उवाच:
त्वरस्व प्राग्वधाय़ैव त्वय़ि भारः समाहितः ||
१९ ख
सञ्जय़ उवाच:
स तथोक्तो महावाहुः सर्वभारसहं नवम् |
२० क
सञ्जय़ उवाच:
अभिपत्याददे क्षिप्रमाय़ुधप्रवरं दृढम् ||
२० ख
सञ्जय़ उवाच:
संरव्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे |
२१ क
सञ्जय़ उवाच:
विवारय़िषुराचार्यं शरवर्षैरवाकिरत् ||
२१ ख
सञ्जय़ उवाच:
तौ न्यवारय़तां श्रेष्ठौ संरव्धौ रणशोभिनौ |
२२ क
सञ्जय़ उवाच:
उदीरय़ेतां व्राह्माणि दिव्यान्यस्त्राण्यनेकशः ||
२२ ख
सञ्जय़ उवाच:
स महास्त्रैर्महाराज द्रोणमाच्छादय़द्रणे |
२३ क
सञ्जय़ उवाच:
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ||
२३ ख
सञ्जय़ उवाच:
स वसातीञ्शिवींश्चैव वाह्लीकान्कौरवानपि |
२४ क
सञ्जय़ उवाच:
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ||
२४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् |
२५ क
सञ्जय़ उवाच:
वभौ प्रच्छादय़न्नाशाः शरजालैः समन्ततः ||
२५ ख
सञ्जय़ उवाच:
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः |
२६ क
सञ्जय़ उवाच:
मर्माण्यभ्यहनद्भूय़ः स व्यथां परमामगात् ||
२६ ख
सञ्जय़ उवाच:
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् |
२७ क
सञ्जय़ उवाच:
शनकैरिव राजेन्द्र द्रोणं वचनमव्रवीत् ||
२७ ख
सञ्जय़ उवाच:
यदि नाम न युध्येरञ्शिक्षिता व्रह्मवन्धवः |
२८ क
सञ्जय़ उवाच:
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षय़ं व्रजेत् ||
२८ ख
सञ्जय़ उवाच:
अहिंसा सर्वभूतेषु धर्मं ज्याय़स्तरं विदुः |
२९ क
सञ्जय़ उवाच:
तस्य च व्राह्मणो मूलं भवांश्च व्रह्मवित्तमः ||
२९ ख
सञ्जय़ उवाच:
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् |
३० क
सञ्जय़ उवाच:
अज्ञानान्मूढवद्व्रह्मन्पुत्रदारधनेप्सय़ा ||
३० ख
सञ्जय़ उवाच:
एकस्यार्थे वहून्हत्वा पुत्रस्याधर्मविद्यथा |
३१ क
सञ्जय़ उवाच:
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ||
३१ ख
सञ्जय़ उवाच:
स चाद्य पतितः शेते पृष्टेनावेदितस्तव |
३२ क
सञ्जय़ उवाच:
धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ||
३२ ख
सञ्जय़ उवाच:
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः |
३३ क
सञ्जय़ उवाच:
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत |
३३ ख
सञ्जय़ उवाच:
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ||
३३ ग
सञ्जय़ उवाच:
सङ्ग्रामे क्रिय़तां यत्नो व्रवीम्येष पुनः पुनः |
३४ क
सञ्जय़ उवाच:
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ||
३४ ख
सञ्जय़ उवाच:
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च |
३५ क
सञ्जय़ उवाच:
उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च |
३५ ख
सञ्जय़ उवाच:
अभय़ं सर्वभूतानां प्रददौ योगय़ुक्तवान् ||
३५ ग
सञ्जय़ उवाच:
तस्य तच्छिद्रमाज्ञाय़ धृष्टद्युम्नः समुत्थितः |
३६ क
सञ्जय़ उवाच:
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ||
३६ ख
सञ्जय़ उवाच:
हाहाकृतानि भूतानि मानुषाणीतराणि च |
३७ क
सञ्जय़ उवाच:
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ||
३७ ख
सञ्जय़ उवाच:
हाहाकारं भृशं चक्रुरहो धिगिति चाव्रुवन् |
३८ क
सञ्जय़ उवाच:
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ||
३८ ख
सञ्जय़ उवाच:
तथोक्त्वा योगमास्थाय़ ज्योतिर्भूतो महातपाः |
३९ क
सञ्जय़ उवाच:
दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ||
३९ ख
सञ्जय़ उवाच:
द्वौ सूर्याविति नो वुद्धिरासीत्तस्मिंस्तथा गते |
४० क
सञ्जय़ उवाच:
एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः |
४० ख
सञ्जय़ उवाच:
समपद्यत चार्काभे भारद्वाजनिशाकरे ||
४० ग
सञ्जय़ उवाच:
निमेषमात्रेण च तज्ज्योतिरन्तरधीय़त |
४१ क
सञ्जय़ उवाच:
आसीत्किलकिलाशव्दः प्रहृष्टानां दिवौकसाम् |
४१ ख
सञ्जय़ उवाच:
व्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ||
४१ ग
सञ्जय़ उवाच:
वय़मेव तदाद्राक्ष्म पञ्च मानुषय़ोनय़ः |
४२ क
सञ्जय़ उवाच:
योगय़ुक्तं महात्मानं गच्छन्तं परमां गतिम् ||
४२ ख
सञ्जय़ उवाच:
अहं धनञ्जय़ः पार्थः कृपः शारद्वतो द्विजः |
४३ क
सञ्जय़ उवाच:
वासुदेवश्च वार्ष्णेय़ो धर्मराजश्च पाण्डवः ||
४३ ख
सञ्जय़ उवाच:
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः |
४४ क
सञ्जय़ उवाच:
महिमानं महाराज योगमुक्तस्य गच्छतः ||
४४ ख
सञ्जय़ उवाच:
गतिं परमिकां प्राप्तमजानन्तो नृय़ोनय़ः |
४५ क
सञ्जय़ उवाच:
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः |
४५ ख
सञ्जय़ उवाच:
आचार्यं योगमास्थाय़ व्रह्मलोकमरिन्दमम् ||
४५ ग
सञ्जय़ उवाच:
वितुन्नाङ्गं शरशतैर्न्यस्ताय़ुधमसृक्क्षरम् |
४६ क
सञ्जय़ उवाच:
धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ||
४६ ख