chevron_left वन पर्व अध्याय १६६
अर्जुन उवाच:
ततोऽहं स्तूय़मानस्तु तत्र तत्र महर्षिभिः |
१ क
अर्जुन उवाच:
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ||
१ ख
अर्जुन उवाच:
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः |
२ क
अर्जुन उवाच:
ऊर्मय़श्चात्र दृश्यन्ते चलन्त इव पर्वताः |
२ ख
अर्जुन उवाच:
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ||
२ ग
अर्जुन उवाच:
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः |
३ क
अर्जुन उवाच:
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रय़ः ||
३ ख
अर्जुन उवाच:
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः |
४ क
अर्जुन उवाच:
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ||
४ ख
अर्जुन उवाच:
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत |
५ क
अर्जुन उवाच:
वाय़ुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ||
५ ख
अर्जुन उवाच:
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् |
६ क
अर्जुन उवाच:
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ||
६ ख
अर्जुन उवाच:
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले |
७ क
अर्जुन उवाच:
नादय़न्रथघोषेण तत्पुरं समुपाद्रवत् ||
७ ख
अर्जुन उवाच:
रथघोषं तु तं श्रुत्वा स्तनय़ित्नोरिवाम्वरे |
८ क
अर्जुन उवाच:
मन्वाना देवराजं मां संविग्ना दानवाभवन् ||
८ ख
अर्जुन उवाच:
सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः |
९ क
अर्जुन उवाच:
तथा शूलासिपरशुगदामुसलपाणय़ः ||
९ ख
अर्जुन उवाच:
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः |
१० क
अर्जुन उवाच:
संविधाय़ पुरे रक्षां न स्म कश्चन दृश्यते ||
१० ख
अर्जुन उवाच:
ततः शङ्खमुपादाय़ देवदत्तं महास्वनम् |
११ क
अर्जुन उवाच:
पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ||
११ ख
अर्जुन उवाच:
स तु शव्दो दिवं स्तव्ध्वा प्रतिशव्दमजीजनत् |
१२ क
अर्जुन उवाच:
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ||
१२ ख
अर्जुन उवाच:
ततो निवातकवचाः सर्व एव समन्ततः |
१३ क
अर्जुन उवाच:
दंशिता विविधैस्त्राणैर्विविधाय़ुधपाणय़ः ||
१३ ख
अर्जुन उवाच:
आय़सैश्च महाशूलैर्गदाभिर्मुसलैरपि |
१४ क
अर्जुन उवाच:
पट्टिशैः करवालैश्च रथचक्रैश्च भारत ||
१४ ख
अर्जुन उवाच:
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः |
१५ क
अर्जुन उवाच:
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ||
१५ ख
अर्जुन उवाच:
ततो विचार्य वहुधा रथमार्गेषु तान्हय़ान् |
१६ क
अर्जुन उवाच:
प्राचोदय़त्समे देशे मातलिर्भरतर्षभ ||
१६ ख
अर्जुन उवाच:
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् |
१७ क
अर्जुन उवाच:
नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् ||
१७ ख
अर्जुन उवाच:
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः |
१८ क
अर्जुन उवाच:
विकृतस्वररूपाणि भृशं सर्वाण्यचोदय़न् ||
१८ ख
अर्जुन उवाच:
तेन शव्देन महता समुद्रे पर्वतोपमाः |
१९ क
अर्जुन उवाच:
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ||
१९ ख
अर्जुन उवाच:
ततो वेगेन महता दानवा मामुपाद्रवन् |
२० क
अर्जुन उवाच:
विमुञ्चन्तः शितान्वाणाञ्शतशोऽथ सहस्रशः ||
२० ख
अर्जुन उवाच:
स सम्प्रहारस्तुमुलस्तेषां मम च भारत |
२१ क
अर्जुन उवाच:
अवर्तत महाघोरो निवातकवचान्तकः ||
२१ ख
अर्जुन उवाच:
ततो देवर्षय़श्चैव दानवर्षिगणाश्च ये |
२२ क
अर्जुन उवाच:
व्रह्मर्षय़श्च सिद्धाश्च समाजग्मुर्महामृधे ||
२२ ख
अर्जुन उवाच:
ते वै मामनुरूपाभिर्मधुराभिर्जय़ैषिणः |
२३ क
अर्जुन उवाच:
अस्तुवन्मुनय़ो वाग्भिर्यथेन्द्रं तारकामय़े ||
२३ ख