भीष्म उवाच:
समुद्यतोऽय़ं भारो मे सुमहान्सागरोपमः |
१ क
भीष्म उवाच:
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ||
१ ख
भीष्म उवाच:
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे |
२ क
भीष्म उवाच:
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज ||
२ ख
भीष्म उवाच:
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव |
३ क
भीष्म उवाच:
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ||
३ ख
भीष्म उवाच:
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता |
४ क
भीष्म उवाच:
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ||
४ ख
भीष्म उवाच:
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मवलसंस्तवम् |
५ क
भीष्म उवाच:
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ||
५ ख
भीष्म उवाच:
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वय़ंवरे |
६ क
भीष्म उवाच:
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ||
६ ख
भीष्म उवाच:
ईदृशानां सहस्राणि विशिष्टानामथो पुनः |
७ क
भीष्म उवाच:
मय़ैकेन निरस्तानि ससैन्यानि रणाजिरे ||
७ ख
भीष्म उवाच:
त्वां प्राप्य वैरपुरुषं कुरूणामनय़ो महान् |
८ क
भीष्म उवाच:
उपस्थितो विनाशाय़ यतस्व पुरुषो भव ||
८ ख
भीष्म उवाच:
युध्यस्व पार्थं समरे येन विस्पर्धसे सह |
९ क
भीष्म उवाच:
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ||
९ ख
सञ्जय़ उवाच:
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः |
१० क
सञ्जय़ उवाच:
मामवेक्षस्व गाङ्गेय़ कार्यं हि महदुद्यतम् ||
१० ख
सञ्जय़ उवाच:
चिन्त्यतामिदमेवाग्रे मम निःश्रेय़सं परम् |
११ क
सञ्जय़ उवाच:
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ||
११ ख
सञ्जय़ उवाच:
भूय़श्च श्रोतुमिच्छामि परेषां रथसत्तमान् |
१२ क
सञ्जय़ उवाच:
ये चैवातिरथास्तत्र तथैव रथय़ूथपाः ||
१२ ख
सञ्जय़ उवाच:
वलावलममित्राणां श्रोतुमिच्छामि कौरव |
१३ क
सञ्जय़ उवाच:
प्रभाताय़ां रजन्यां वै इदं युद्धं भविष्यति ||
१३ ख
भीष्म उवाच:
एते रथास्ते सङ्ख्यातास्तथैवातिरथा नृप |
१४ क
भीष्म उवाच:
य चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ||
१४ ख
भीष्म उवाच:
यदि कौतूहलं तेऽद्य पाण्डवानां वले नृप |
१५ क
भीष्म उवाच:
रथसङ्ख्यां महावाहो सहैभिर्वसुधाधिपैः ||
१५ ख
भीष्म उवाच:
स्वय़ं राजा रथोदारः पाण्डवः कुन्तिनन्दनः |
१६ क
भीष्म उवाच:
अग्निवत्समरे तात चरिष्यति न संशय़ः ||
१६ ख
भीष्म उवाच:
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः |
१७ क
भीष्म उवाच:
नागाय़ुतवलो मानी तेजसा न स मानुषः ||
१७ ख
भीष्म उवाच:
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ |
१८ क
भीष्म उवाच:
अश्विनाविव रूपेण तेजसा च समन्वितौ ||
१८ ख
भीष्म उवाच:
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः |
१९ क
भीष्म उवाच:
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशय़ः ||
१९ ख
भीष्म उवाच:
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः |
२० क
भीष्म उवाच:
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ||
२० ख
भीष्म उवाच:
सिंहसंहननाः सर्वे पाण्डुपुत्रा महावलाः |
२१ क
भीष्म उवाच:
चरितव्रह्मचर्याश्च सर्वे चातितपस्विनः ||
२१ ख
भीष्म उवाच:
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव वलोत्कटाः |
२२ क
भीष्म उवाच:
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः |
२२ ख
भीष्म उवाच:
सर्वे जितमहीपाला दिग्जय़े भरतर्षभ ||
२२ ग
भीष्म उवाच:
न चैषां पुरुषाः केचिदाय़ुधानि गदाः शरान् |
२३ क
भीष्म उवाच:
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव |
२३ ख
भीष्म उवाच:
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ||
२३ ग
भीष्म उवाच:
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे |
२४ क
भीष्म उवाच:
वालैरपि भवन्तस्तैः सर्व एव विशेषिताः ||
२४ ख
भीष्म उवाच:
ते ते सैन्यं समासाद्य व्याघ्रा इव वलोत्कटाः |
२५ क
भीष्म उवाच:
विध्वंसय़िष्यन्ति रणे मा स्म तैः सह सङ्गमः ||
२५ ख
भीष्म उवाच:
एकैकशस्ते सङ्ग्रामे हन्युः सर्वान्महीक्षितः |
२६ क
भीष्म उवाच:
प्रत्यक्षं तव राजेन्द्र राजसूय़े यथाभवत् ||
२६ ख
भीष्म उवाच:
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः |
२७ क
भीष्म उवाच:
ते संस्मरन्तः सङ्ग्रामे विचरिष्यन्ति कालवत् ||
२७ ख
भीष्म उवाच:
लोहिताक्षो गुडाकेशो नाराय़णसहाय़वान् |
२८ क
भीष्म उवाच:
उभय़ोः सेनय़ोर्वीर रथो नास्तीह तादृशः ||
२८ ख
भीष्म उवाच:
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा |
२९ क
भीष्म उवाच:
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ||
२९ ख
भीष्म उवाच:
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मय़ा श्रुतः |
३० क
भीष्म उवाच:
समाय़ुक्तो महाराज यथा पार्थस्य धीमतः ||
३० ख
भीष्म उवाच:
वासुदेवश्च संय़न्ता योद्धा चैव धनञ्जय़ः |
३१ क
भीष्म उवाच:
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ||
३१ ख
भीष्म उवाच:
अभेद्यं कवचं दिव्यमक्षय़्यौ च महेषुधी |
३२ क
भीष्म उवाच:
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौवेर एव च ||
३२ ख
भीष्म उवाच:
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः |
३३ क
भीष्म उवाच:
वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ||
३३ ख
भीष्म उवाच:
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
३४ क
भीष्म उवाच:
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ||
३४ ख
भीष्म उवाच:
एष हन्याद्धि संरम्भी वलवान्सत्यविक्रमः |
३५ क
भीष्म उवाच:
तव सेनां महावाहुः स्वां चैव परिपालय़न् ||
३५ ख
भीष्म उवाच:
अहं चैनं प्रत्युदिय़ामाचार्यो वा धनञ्जय़म् |
३६ क
भीष्म उवाच:
न तृतीय़ोऽस्ति राजेन्द्र सेनय़ोरुभय़ोरपि |
३६ ख
भीष्म उवाच:
य एनं शरवर्षाणि वर्षन्तमुदिय़ाद्रथी ||
३६ ग
भीष्म उवाच:
जीमूत इव घर्मान्ते महावातसमीरितः |
३७ क
भीष्म उवाच:
समाय़ुक्तस्तु कौन्तेय़ो वासुदेवसहाय़वान् |
३७ ख
भीष्म उवाच:
तरुणश्च कृती चैव जीर्णावावामुभावपि ||
३७ ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा |
३८ क
सञ्जय़ उवाच:
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ||
३८ ख
सञ्जय़ उवाच:
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् |
३९ क
सञ्जय़ उवाच:
सामर्थ्यं पाण्डवेय़ानां यथाप्रत्यक्षदर्शनात् ||
३९ ख