chevron_left द्रोण पर्व अध्याय १६६
धृतराष्ट्र उवाच:
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
व्राह्मणं पितरं वृद्धमश्वत्थामा किमव्रवीत् ||
१ ख
धृतराष्ट्र उवाच:
मानुषं वारुणाग्नेय़ं व्राह्ममस्त्रं च वीर्यवान् |
२ क
धृतराष्ट्र उवाच:
ऐन्द्रं नाराय़णं चैव यस्मिन्नित्यं प्रतिष्ठितम् ||
२ ख
धृतराष्ट्र उवाच:
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय़ |
३ क
धृतराष्ट्र उवाच:
श्रुत्वा निहतमाचार्यमश्वत्थामा किमव्रवीत् ||
३ ख
धृतराष्ट्र उवाच:
येन रामादवाप्येह धनुर्वेदं महात्मना |
४ क
धृतराष्ट्र उवाच:
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय़ गुरुकाङ्क्षिणे ||
४ ख
धृतराष्ट्र उवाच:
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् |
५ क
धृतराष्ट्र उवाच:
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ||
५ ख
धृतराष्ट्र उवाच:
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् |
६ क
धृतराष्ट्र उवाच:
तानि पुत्राय़ वा दद्युः शिष्याय़ानुगताय़ वा ||
६ ख
धृतराष्ट्र उवाच:
स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय़ |
७ क
धृतराष्ट्र उवाच:
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ||
७ ख
धृतराष्ट्र उवाच:
रामस्यानुमतः शास्त्रे पुरन्दरसमो युधि |
८ क
धृतराष्ट्र उवाच:
कार्तवीर्यसमो वीर्ये वृहस्पतिसमो मतौ ||
८ ख
धृतराष्ट्र उवाच:
महीधरसमो धृत्या तेजसाग्निसमो युवा |
९ क
धृतराष्ट्र उवाच:
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ||
९ ख
धृतराष्ट्र उवाच:
स रथी प्रथमो लोके दृढधन्वा जितक्लमः |
१० क
धृतराष्ट्र उवाच:
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ||
१० ख
धृतराष्ट्र उवाच:
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता |
११ क
धृतराष्ट्र उवाच:
यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ||
११ ख
धृतराष्ट्र उवाच:
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः |
१२ क
धृतराष्ट्र उवाच:
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ||
१२ ख
धृतराष्ट्र उवाच:
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संय़ुगे |
१३ क
धृतराष्ट्र उवाच:
श्रुत्वा निहतमाचार्यमश्वत्थामा किमव्रवीत् ||
१३ ख
धृतराष्ट्र उवाच:
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना |
१४ क
धृतराष्ट्र उवाच:
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ||
१४ ख
धृतराष्ट्र उवाच:
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना |
१५ क
धृतराष्ट्र उवाच:
श्रुत्वा निहतमाचार्यमश्वत्थामा किमव्रवीत् ||
१५ ख
सञ्जय़ उवाच:
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा |
१६ क
सञ्जय़ उवाच:
वाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ||
१६ ख
सञ्जय़ उवाच:
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत |
१७ क
सञ्जय़ उवाच:
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ||
१७ ख
सञ्जय़ उवाच:
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः |
१८ क
सञ्जय़ उवाच:
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ||
१८ ख
सञ्जय़ उवाच:
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः |
१९ क
सञ्जय़ उवाच:
धर्मध्वजवता पापं कृतं तद्विदितं मम |
१९ ख
सञ्जय़ उवाच:
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ||
१९ ग
सञ्जय़ उवाच:
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जय़पराजय़ौ |
२० क
सञ्जय़ उवाच:
द्वय़मेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ||
२० ख
सञ्जय़ उवाच:
न्याय़वृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् |
२१ क
सञ्जय़ उवाच:
न स दुःखाय़ भवति तथा दृष्टो हि स द्विजः ||
२१ ख
सञ्जय़ उवाच:
गतः स वीरलोकाय़ पिता मम न संशय़ः |
२२ क
सञ्जय़ उवाच:
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ||
२२ ख
सञ्जय़ उवाच:
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् |
२३ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ||
२३ ख
सञ्जय़ उवाच:
कामात्क्रोधादवज्ञानाद्दर्पाद्वाल्येन वा पुनः |
२४ क
सञ्जय़ उवाच:
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ||
२४ ख
सञ्जय़ उवाच:
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् |
२५ क
सञ्जय़ उवाच:
अवज्ञाय़ च मां नूनं नृशंसेन दुरात्मना ||
२५ ख
सञ्जय़ उवाच:
तस्यानुवन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् |
२६ क
सञ्जय़ उवाच:
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ||
२६ ख
सञ्जय़ उवाच:
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासय़त्तदा |
२७ क
सञ्जय़ उवाच:
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ||
२७ ख
सञ्जय़ उवाच:
सर्वोपाय़ैर्यतिष्यामि पाञ्चालानामहं वधे |
२८ क
सञ्जय़ उवाच:
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ||
२८ ख
सञ्जय़ उवाच:
कर्मणा येन तेनेह मृदुना दारुणेन वा |
२९ क
सञ्जय़ उवाच:
पाञ्चालानां वधं कृत्वा शान्तिं लव्धास्मि कौरव ||
२९ ख
सञ्जय़ उवाच:
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः |
३० क
सञ्जय़ उवाच:
प्रेत्य चेह च सम्प्राप्तं त्राणाय़ महतो भय़ात् ||
३० ख
सञ्जय़ उवाच:
पित्रा तु मम सावस्था प्राप्ता निर्वन्धुना यथा |
३१ क
सञ्जय़ उवाच:
मय़ि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ||
३१ ख
सञ्जय़ उवाच:
धिङ्ममास्त्राणि दिव्यानि धिग्वाहू धिक्पराक्रमम् |
३२ क
सञ्जय़ उवाच:
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ||
३२ ख
सञ्जय़ उवाच:
स तथाहं करिष्यामि यथा भरतसत्तम |
३३ क
सञ्जय़ उवाच:
परलोकगतस्यापि गमिष्याम्यनृणः पितुः ||
३३ ख
सञ्जय़ उवाच:
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः |
३४ क
सञ्जय़ उवाच:
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ||
३४ ख
सञ्जय़ उवाच:
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः |
३५ क
सञ्जय़ उवाच:
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ||
३५ ख
सञ्जय़ उवाच:
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः |
३६ क
सञ्जय़ उवाच:
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ||
३६ ख
सञ्जय़ उवाच:
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः |
३७ क
सञ्जय़ उवाच:
अहं हि ज्वलतां मध्ये मय़ूखानामिवांशुमान् |
३७ ख
सञ्जय़ उवाच:
प्रय़ोक्ता देवसृष्टानामस्त्राणां पृतनागतः ||
३७ ग
सञ्जय़ उवाच:
कृशाश्वतनय़ा ह्यद्य मत्प्रय़ुक्ता महामृधे |
३८ क
सञ्जय़ उवाच:
दर्शय़न्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ||
३८ ख
सञ्जय़ उवाच:
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः |
३९ क
सञ्जय़ उवाच:
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ||
३९ ख
सञ्जय़ उवाच:
किरन्हि शरजालानि सर्वतो भैरवस्वरम् |
४० क
सञ्जय़ उवाच:
शत्रून्निपातय़िष्यामि महावात इव द्रुमान् ||
४० ख
सञ्जय़ उवाच:
न च जानाति वीभत्सुस्तदस्त्रं न जनार्दनः |
४१ क
सञ्जय़ उवाच:
न भीमसेनो न यमौ न च राजा युधिष्ठिरः ||
४१ ख
सञ्जय़ उवाच:
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः |
४२ क
सञ्जय़ उवाच:
यदिदं मय़ि कौरव्य सकल्यं सनिवर्तनम् ||
४२ ख
सञ्जय़ उवाच:
नाराय़णाय़ मे पित्रा प्रणम्य विधिपूर्वकम् |
४३ क
सञ्जय़ उवाच:
उपहारः पुरा दत्तो व्रह्मरूप उपस्थिते ||
४३ ख
सञ्जय़ उवाच:
तं स्वय़ं प्रतिगृह्याथ भगवान्स वरं ददौ |
४४ क
सञ्जय़ उवाच:
वव्रे पिता मे परममस्त्रं नाराय़णं ततः ||
४४ ख
सञ्जय़ उवाच:
अथैनमव्रवीद्राजन्भगवान्देवसत्तमः |
४५ क
सञ्जय़ उवाच:
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ||
४५ ख
सञ्जय़ उवाच:
न त्विदं सहसा व्रह्मन्प्रय़ोक्तव्यं कथञ्चन |
४६ क
सञ्जय़ उवाच:
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ||
४६ ख
सञ्जय़ उवाच:
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो |
४७ क
सञ्जय़ उवाच:
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रय़ोजय़ेत् ||
४७ ख
सञ्जय़ उवाच:
वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् |
४८ क
सञ्जय़ उवाच:
प्रय़ाचनं च शत्रूणां गमनं शरणस्य च ||
४८ ख
सञ्जय़ उवाच:
एते प्रशमने योगा महास्त्रस्य परन्तप |
४९ क
सञ्जय़ उवाच:
सर्वथा पीडितो हि स्यादवध्यान्पीडय़न्रणे ||
४९ ख