सञ्जय़ उवाच:
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नाराय़णे तदा |
१ क
सञ्जय़ उवाच:
प्रावात्सपृषतो वाय़ुरनभ्रे स्तनय़ित्नुमान् ||
१ ख
सञ्जय़ उवाच:
चचाल पृथिवी चापि चुक्षुभे च महोदधिः |
२ क
सञ्जय़ उवाच:
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ||
२ ख
सञ्जय़ उवाच:
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत |
३ क
सञ्जय़ उवाच:
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ||
३ ख
सञ्जय़ उवाच:
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् |
४ क
सञ्जय़ उवाच:
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ||
४ ख
सञ्जय़ उवाच:
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते |
५ क
सञ्जय़ उवाच:
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ||
५ ख
सञ्जय़ उवाच:
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः |
६ क
सञ्जय़ उवाच:
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भय़ावहम् ||
६ ख
धृतराष्ट्र उवाच:
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संय़ुगे |
७ क
धृतराष्ट्र उवाच:
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ||
७ ख
धृतराष्ट्र उवाच:
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे |
८ क
धृतराष्ट्र उवाच:
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय़ ||
८ ख
सञ्जय़ उवाच:
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः |
९ क
सञ्जय़ उवाच:
पुनश्च तुमुलं शव्दं श्रुत्वार्जुनमभाषत ||
९ ख
सञ्जय़ उवाच:
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संय़ुगे |
१० क
सञ्जय़ उवाच:
निहते वज्रहस्तेन यथा वृत्रे महासुरे ||
१० ख
सञ्जय़ उवाच:
नाशंसन्त जय़ं युद्धे दीनात्मानो धनञ्जय़ |
११ क
सञ्जय़ उवाच:
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ||
११ ख
सञ्जय़ उवाच:
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णिय़न्तृभिः |
१२ क
सञ्जय़ उवाच:
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूवरैः ||
१२ ख
सञ्जय़ उवाच:
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः |
१३ क
सञ्जय़ उवाच:
भीताः पादैर्हय़ान्केचित्त्वरय़न्तः स्वय़ं रथैः |
१३ ख
सञ्जय़ उवाच:
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भय़ातुराः ||
१३ ग
सञ्जय़ उवाच:
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः |
१४ क
सञ्जय़ उवाच:
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ||
१४ ख
सञ्जय़ उवाच:
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः |
१५ क
सञ्जय़ उवाच:
सञ्छिन्ना नेमिषु गता मृदिताश्च हय़द्विपैः ||
१५ ख
सञ्जय़ उवाच:
क्रोशन्तस्तात पुत्रेति पलाय़न्तोऽपरे भय़ात् |
१६ क
सञ्जय़ उवाच:
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ||
१६ ख
सञ्जय़ उवाच:
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् |
१७ क
सञ्जय़ उवाच:
जलेन क्लेदय़न्त्यन्ये विमुच्य कवचान्यपि ||
१७ ख
सञ्जय़ उवाच:
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं वलम् |
१८ क
सञ्जय़ उवाच:
पुनरावर्तितं केन यदि जानासि शंस मे ||
१८ ख
सञ्जय़ उवाच:
हय़ानां हेषतां शव्दः कुञ्जराणां च वृंहताम् |
१९ क
सञ्जय़ उवाच:
रथनेमिस्वनश्चात्र विमिश्रः श्रूय़ते महान् ||
१९ ख
सञ्जय़ उवाच:
एते शव्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे |
२० क
सञ्जय़ उवाच:
मुहुर्मुहुरुदीर्यन्तः कम्पय़न्ति हि मामकान् ||
२० ख
सञ्जय़ उवाच:
य एष तुमुलः शव्दः श्रूय़ते लोमहर्षणः |
२१ क
सञ्जय़ उवाच:
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ||
२१ ख
सञ्जय़ उवाच:
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः |
२२ क
सञ्जय़ उवाच:
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ||
२२ ख
सञ्जय़ उवाच:
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः |
२३ क
सञ्जय़ उवाच:
धनञ्जय़ गुरुं श्रुत्वा तत्र नादं सुभीषणम् ||
२३ ख
सञ्जय़ उवाच:
क एष कौरवान्दीर्णानवस्थाप्य महारथः |
२४ क
सञ्जय़ उवाच:
निवर्तय़ति युद्धार्थं मृधे देवेश्वरो यथा ||
२४ ख
अर्जुन उवाच:
उद्यम्यात्मानमुग्राय़ कर्मणे धैर्यमास्थिताः |
२५ क
अर्जुन उवाच:
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ||
२५ ख
अर्जुन उवाच:
यत्र ते संशय़ो राजन्न्यस्तशस्त्रे गुरौ हते |
२६ क
अर्जुन उवाच:
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ||
२६ ख
अर्जुन उवाच:
ह्रीमन्तं तं महावाहुं मत्तद्विरदगामिनम् |
२७ क
अर्जुन उवाच:
व्याख्यास्याम्युग्रकर्माणं कुरूणामभय़ङ्करम् ||
२७ ख
अर्जुन उवाच:
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् |
२८ क
अर्जुन उवाच:
व्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ||
२८ ख
अर्जुन उवाच:
जातमात्रेण वीरेण येनोच्चैःश्रवसा इव |
२९ क
अर्जुन उवाच:
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रय़ः ||
२९ ख
अर्जुन उवाच:
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा |
३० क
अर्जुन उवाच:
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ||
३० ख
अर्जुन उवाच:
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा |
३१ क
अर्जुन उवाच:
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ||
३१ ख
अर्जुन उवाच:
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् |
३२ क
अर्जुन उवाच:
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ||
३२ ख
अर्जुन उवाच:
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् |
३३ क
अर्जुन उवाच:
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ||
३३ ख
अर्जुन उवाच:
सर्वधर्मोपपन्नोऽय़ं मम शिष्यश्च पाण्डवः |
३४ क
अर्जुन उवाच:
नाय़ं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वय़ि ||
३४ ख
अर्जुन उवाच:
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् |
३५ क
अर्जुन उवाच:
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ||
३५ ख
अर्जुन उवाच:
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः |
३६ क
अर्जुन उवाच:
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वय़ा विभुः ||
३६ ख
अर्जुन उवाच:
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः |
३७ क
अर्जुन उवाच:
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ||
३७ ख
अर्जुन उवाच:
न्यस्तशस्त्रमधर्मेण घातय़ित्वा गुरुं भवान् |
३८ क
अर्जुन उवाच:
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ||
३८ ख
अर्जुन उवाच:
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतवन्धुना |
३९ क
अर्जुन उवाच:
सर्वे वय़ं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ||
३९ ख
अर्जुन उवाच:
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः |
४० क
अर्जुन उवाच:
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ||
४० ख
अर्जुन उवाच:
विक्रोशमाने हि मय़ि भृशमाचार्यगृद्धिनि |
४१ क
अर्जुन उवाच:
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ||
४१ ख
अर्जुन उवाच:
यदा गतं वय़ो भूय़ः शिष्टमल्पतरं च नः |
४२ क
अर्जुन उवाच:
तस्येदानीं विकारोऽय़मधर्मो यत्कृतो महान् ||
४२ ख
अर्जुन उवाच:
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः |
४३ क
अर्जुन उवाच:
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ||
४३ ख
अर्जुन उवाच:
धृतराष्ट्रेण भीष्माय़ द्रोणाय़ च विशां पते |
४४ क
अर्जुन उवाच:
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ||
४४ ख
अर्जुन उवाच:
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः |
४५ क
अर्जुन उवाच:
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ||
४५ ख
अर्जुन उवाच:
अक्षीय़माणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः |
४६ क
अर्जुन उवाच:
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ||
४६ ख
अर्जुन उवाच:
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः |
४७ क
अर्जुन उवाच:
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुवुद्धिभिः ||
४७ ख
अर्जुन उवाच:
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः |
४८ क
अर्जुन उवाच:
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ||
४८ ख
अर्जुन उवाच:
स मय़ा राज्यकामेन हन्यमानोऽप्युपेक्षितः |
४९ क
अर्जुन उवाच:
तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ||
४९ ख
अर्जुन उवाच:
व्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् |
५० क