chevron_left आदि पर्व अध्याय १६७
गन्धर्व उवाच:
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः |
१ क
गन्धर्व उवाच:
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ||
१ ख
गन्धर्व उवाच:
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा |
२ क
गन्धर्व उवाच:
वृक्षान्वहुविधान्पार्थ वहन्तीं तीरजान्वहून् ||
२ ख
गन्धर्व उवाच:
अथ चिन्तां समापेदे पुनः पौरवनन्दन |
३ क
गन्धर्व उवाच:
अम्भस्यस्या निमज्जेय़मिति दुःखसमन्वितः ||
३ ख
गन्धर्व उवाच:
ततः पाशैस्तदात्मानं गाढं वद्ध्वा महामुनिः |
४ क
गन्धर्व उवाच:
तस्या जले महानद्या निममज्ज सुदुःखितः ||
४ ख
गन्धर्व उवाच:
अथ छित्त्वा नदी पाशांस्तस्यारिवलमर्दन |
५ क
गन्धर्व उवाच:
समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ||
५ ख
गन्धर्व उवाच:
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः |
६ क
गन्धर्व उवाच:
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ||
६ ख
गन्धर्व उवाच:
शोके वुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत |
७ क
गन्धर्व उवाच:
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ||
७ ख
गन्धर्व उवाच:
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा |
८ क
गन्धर्व उवाच:
चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ||
८ ख
गन्धर्व उवाच:
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा |
९ क
गन्धर्व उवाच:
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ||
९ ख
गन्धर्व उवाच:
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना |
१० क
गन्धर्व उवाच:
मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं यय़ौ ||
१० ख
गन्धर्व उवाच:
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् |
११ क
गन्धर्व उवाच:
अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् |
११ ख
गन्धर्व उवाच:
पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ||
११ ग
गन्धर्व उवाच:
अनुव्रजति को न्वेष मामित्येव च सोऽव्रवीत् |
१२ क
गन्धर्व उवाच:
अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत |
१२ ख
गन्धर्व उवाच:
शक्तेर्भार्या महाभाग तपोय़ुक्ता तपस्विनी ||
१२ ग
वसिष्ठ उवाच:
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः |
१३ क
वसिष्ठ उवाच:
पुरा साङ्गस्य वेदस्य शक्तेरिव मय़ा श्रुतः ||
१३ ख
अदृश्यन्त्यु उवाच:
अय़ं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते |
१४ क
अदृश्यन्त्यु उवाच:
समा द्वादश तस्येह वेदानभ्यसतो मुने ||
१४ ख
गन्धर्व उवाच:
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः |
१५ क
गन्धर्व उवाच:
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ||
१५ ख
गन्धर्व उवाच:
ततः प्रतिनिवृत्तः स तय़ा वध्वा सहानघ |
१६ क
गन्धर्व उवाच:
कल्माषपादमासीनं ददर्श विजने वने ||
१६ ख
गन्धर्व उवाच:
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय़ भारत |
१७ क
गन्धर्व उवाच:
आविष्टो रक्षसोग्रेण इय़ेषात्तुं ततः स्म तम् ||
१७ ख
गन्धर्व उवाच:
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः |
१८ क
गन्धर्व उवाच:
भय़संविग्नय़ा वाचा वसिष्ठमिदमव्रवीत् ||
१८ ख
गन्धर्व उवाच:
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः |
१९ क
गन्धर्व उवाच:
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ||
१९ ख
गन्धर्व उवाच:
तं निवारय़ितुं शक्तो नान्योऽस्ति भुवि कश्चन |
२० क
गन्धर्व उवाच:
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ||
२० ख
गन्धर्व उवाच:
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् |
२१ क
गन्धर्व उवाच:
रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ||
२१ ख