सोमक उवाच:
व्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा |
१ क
सोमक उवाच:
पुत्रकामतय़ा सर्वं करिष्यामि वचस्तव ||
१ ख
लोमश उवाच:
ततः स याजय़ामास सोमकं तेन जन्तुना |
२ क
लोमश उवाच:
मातरस्तु वलात्पुत्रमपाकर्षुः कृपान्विताः ||
२ ख
लोमश उवाच:
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः |
३ क
लोमश उवाच:
तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे |
३ ख
लोमश उवाच:
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ||
३ ग
लोमश उवाच:
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् |
४ क
लोमश उवाच:
विशस्य चैनं विधिना वपामस्य जुहाव सः ||
४ ख
लोमश उवाच:
वपाय़ां हूय़मानाय़ां गन्धमाघ्राय़ मातरः |
५ क
लोमश उवाच:
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन |
५ ख
लोमश उवाच:
सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ||
५ ग
लोमश उवाच:
ततो दशसु मासेषु सोमकस्य विशां पते |
६ क
लोमश उवाच:
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ||
६ ख
लोमश उवाच:
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत |
७ क
लोमश उवाच:
स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ||
७ ख
लोमश उवाच:
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे |
८ क
लोमश उवाच:
तस्मिन्पुत्रशते चाग्र्यः स वभूव गुणैर्युतः ||
८ ख
लोमश उवाच:
ततः स लोकमगमत्सोमकस्य गुरुः परम् |
९ क
लोमश उवाच:
अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ||
९ ख
लोमश उवाच:
अथ तं नरके घोरे पच्यमानं ददर्श सः |
१० क
लोमश उवाच:
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ||
१० ख
लोमश उवाच:
तमव्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् |
११ क
लोमश उवाच:
त्वं मय़ा याजितो राजंस्तस्येदं कर्मणः फलम् ||
११ ख
लोमश उवाच:
एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमव्रवीत् |
१२ क
लोमश उवाच:
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः |
१२ ख
लोमश उवाच:
मत्कृते हि महाभागः पच्यते नरकाग्निना ||
१२ ग
धर्म उवाच:
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन |
१३ क
धर्म उवाच:
इमानि तव दृश्यन्ते फलानि ददतां वर ||
१३ ख
सोमक उवाच:
पुण्यान्न कामय़े लोकानृतेऽहं व्रह्मवादिनम् |
१४ क
सोमक उवाच:
इच्छाम्यहमनेनैव सह वस्तुं सुरालय़े ||
१४ ख
सोमक उवाच:
नरके वा धर्मराज कर्मणास्य समो ह्यहम् |
१५ क
सोमक उवाच:
पुण्यापुण्यफलं देव सममस्त्वावय़ोरिदम् ||
१५ ख
धर्म उवाच:
यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् |
१६ क
धर्म उवाच:
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ||
१६ ख
लोमश उवाच:
स चकार तथा सर्वं राजा राजीवलोचनः |
१७ क
लोमश उवाच:
पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् |
१७ ख
लोमश उवाच:
सह तेनैव विप्रेण गुरुणा स गुरुप्रिय़ः ||
१७ ग
लोमश उवाच:
एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते |
१८ क
लोमश उवाच:
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ||
१८ ख
लोमश उवाच:
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः |
१९ क
लोमश उवाच:
षड्रात्रं निय़तात्मानः सज्जीभव कुरूद्वह ||
१९ ख