chevron_left अनुशासन पर्व अध्याय २६
अङ्गिरा उवाच:
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् |
४९ क
अङ्गिरा उवाच:
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ||
४९ ख
अङ्गिरा उवाच:
वैवस्वतस्य सदनं न स गच्छेत्कदाचन |
५० क
अङ्गिरा उवाच:
यस्य कन्याह्रदे वासो देवलोकं स गच्छति ||
५० ख
अङ्गिरा उवाच:
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः |
५१ क
अङ्गिरा उवाच:
सिध्यतेऽत्र महावाहो यो नरो जाय़ते पुनः ||
५१ ख
अङ्गिरा उवाच:
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे |
५२ क
अङ्गिरा उवाच:
पिङ्गाय़ाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ||
५२ ख
अङ्गिरा उवाच:
कुल्याय़ां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् |
५३ क
अङ्गिरा उवाच:
अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ||
५३ ख
अङ्गिरा उवाच:
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः |
५४ क
अङ्गिरा उवाच:
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ||
५४ ख
अङ्गिरा उवाच:
तथा व्रह्मसरो गत्वा धर्मारण्योपशोभितम् |
५५ क
अङ्गिरा उवाच:
पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ||
५५ ख
अङ्गिरा उवाच:
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च |
५६ क
अङ्गिरा उवाच:
कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ||
५६ ख
अङ्गिरा उवाच:
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः |
५७ क
अङ्गिरा उवाच:
आकरः सर्वरत्नानां सिद्धचारणसेवितः ||
५७ ख
अङ्गिरा उवाच:
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके |
५८ क
अङ्गिरा उवाच:
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ||
५८ ख
अङ्गिरा उवाच:
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा |
५९ क
अङ्गिरा उवाच:
ततः सिद्धो दिवं गच्छेद्व्रह्मलोकं सनातनम् ||
५९ ख
अङ्गिरा उवाच:
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् |
६० क
अङ्गिरा उवाच:
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ||
६० ख
अङ्गिरा उवाच:
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च |
६१ क
अङ्गिरा उवाच:
मनसा तानि गम्यानि सर्वतीर्थसमासतः ||
६१ ख
अङ्गिरा उवाच:
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् |
६२ क
अङ्गिरा उवाच:
इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ||
६२ ख
अङ्गिरा उवाच:
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा |
६३ क
अङ्गिरा उवाच:
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ||
६३ ख
अङ्गिरा उवाच:
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः |
६४ क
अङ्गिरा उवाच:
गुरुभिः समनुज्ञातः काश्यपेन च धीमता ||
६४ ख
अङ्गिरा उवाच:
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् |
६५ क
अङ्गिरा उवाच:
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुय़ात् ||
६५ ख
अङ्गिरा उवाच:
इदं यश्चापि शृणुय़ाद्रहस्यं त्वङ्गिरोमतम् |
६६ क
अङ्गिरा उवाच:
उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ||
६६ ख