अर्जुन उवाच:
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः |
१ क
अर्जुन उवाच:
नगमात्रैर्महाघोरैस्तन्मां दृढमपीडय़त् ||
१ ख
अर्जुन उवाच:
तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः |
२ क
अर्जुन उवाच:
अचूर्णय़ं वेगवद्भिः शतधैकैकमाहवे ||
२ ख
अर्जुन उवाच:
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजाय़त |
३ क
अर्जुन उवाच:
तत्राश्मचूर्णमपतत्पावकप्रकरा इव ||
३ ख
अर्जुन उवाच:
ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् |
४ क
अर्जुन उवाच:
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ||
४ ख
अर्जुन उवाच:
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः |
५ क
अर्जुन उवाच:
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ||
५ ख
अर्जुन उवाच:
धाराणां च निपातेन वाय़ोर्विस्फूर्जितेन च |
६ क
अर्जुन उवाच:
गर्जितेन च दैत्यानां न प्राज्ञाय़त किञ्चन ||
६ ख
अर्जुन उवाच:
धारा दिवि च सम्वद्धा वसुधाय़ां च सर्वशः |
७ क
अर्जुन उवाच:
व्यामोहय़न्त मां तत्र निपतन्त्योऽनिशं भुवि ||
७ ख
अर्जुन उवाच:
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् |
८ क
अर्जुन उवाच:
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ||
८ ख
अर्जुन उवाच:
हतेऽश्मवर्षे तु मय़ा जलवर्षे च शोषिते |
९ क
अर्जुन उवाच:
मुमुचुर्दानवा माय़ामग्निं वाय़ुं च मानद ||
९ ख
अर्जुन उवाच:
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः |
१० क
अर्जुन उवाच:
शैलेन च महास्त्रेण वाय़ोर्वेगमधारय़म् ||
१० ख
अर्जुन उवाच:
तस्यां प्रतिहताय़ां तु दानवा युद्धदुर्मदाः |
११ क
अर्जुन उवाच:
प्राकुर्वन्विविधा माय़ा यौगपद्येन भारत ||
११ ख
अर्जुन उवाच:
ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् |
१२ क
अर्जुन उवाच:
अस्त्राणां घोररूपाणामग्नेर्वाय़ोस्तथाश्मनाम् ||
१२ ख
अर्जुन उवाच:
सा तु माय़ामय़ी वृष्टिः पीडय़ामास मां युधि |
१३ क
अर्जुन उवाच:
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ||
१३ ख
अर्जुन उवाच:
तमसा संवृते लोके घोरेण परुषेण च |
१४ क
अर्जुन उवाच:
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ||
१४ ख
अर्जुन उवाच:
हस्ताद्धिरण्मय़श्चास्य प्रतोदः प्रापतद्भुवि |
१५ क
अर्जुन उवाच:
असकृच्चाह मां भीतः क्वासीति भरतर्षभ ||
१५ ख
अर्जुन उवाच:
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि |
१६ क
अर्जुन उवाच:
स च मां विगतज्ञानः सन्त्रस्त इदमव्रवीत् ||
१६ ख
अर्जुन उवाच:
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् |
१७ क
अर्जुन उवाच:
अमृतार्थे पुरा पार्थ स च दृष्टो मय़ानघ ||
१७ ख
अर्जुन उवाच:
शम्वरस्य वधे चापि सङ्ग्रामः सुमहानभूत् |
१८ क
अर्जुन उवाच:
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ||
१८ ख
अर्जुन उवाच:
तथैव वृत्रस्य वधे सङ्गृहीता हय़ा मय़ा |
१९ क
अर्जुन उवाच:
वैरोचनेर्मय़ा युद्धं दृष्टं चापि सुदारुणम् ||
१९ ख
अर्जुन उवाच:
एते मय़ा महाघोराः सङ्ग्रामाः पर्युपासिताः |
२० क
अर्जुन उवाच:
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ||
२० ख
अर्जुन उवाच:
पितामहेन संहारः प्रजानां विहितो ध्रुवम् |
२१ क
अर्जुन उवाच:
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षय़ात् ||
२१ ख
अर्जुन उवाच:
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना |
२२ क
अर्जुन उवाच:
मोहय़िष्यन्दानवानामहं माय़ामय़ं वलम् ||
२२ ख
अर्जुन उवाच:
अव्रुवं मातलिं भीतं पश्य मे भुजय़ोर्वलम् |
२३ क
अर्जुन उवाच:
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ||
२३ ख
अर्जुन उवाच:
अद्यास्त्रमाय़यैतेषां माय़ामेतां सुदारुणाम् |
२४ क
अर्जुन उवाच:
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ||
२४ ख
अर्जुन उवाच:
एवमुक्त्वाहमसृजमस्त्रमाय़ां नराधिप |
२५ क
अर्जुन उवाच:
मोहनीं सर्वशत्रूणां हिताय़ त्रिदिवौकसाम् ||
२५ ख
अर्जुन उवाच:
पीड्यमानासु माय़ासु तासु तास्वसुरेश्वराः |
२६ क
अर्जुन उवाच:
पुनर्वहुविधा माय़ाः प्राकुर्वन्नमितौजसः ||
२६ ख
अर्जुन उवाच:
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः |
२७ क
अर्जुन उवाच:
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ||
२७ ख
अर्जुन उवाच:
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः |
२८ क
अर्जुन उवाच:
व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे ||
२८ ख
अर्जुन उवाच:
ततः पर्यपतन्नुग्रा निवातकवचा मय़ि |
२९ क
अर्जुन उवाच:
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ||
२९ ख
अर्जुन उवाच:
वर्तमाने तथा युद्धे निवातकवचान्तके |
३० क
अर्जुन उवाच:
नापश्यं सहसा सर्वान्दानवान्माय़यावृतान् ||
३० ख