सञ्जय़ उवाच:
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः |
१ क
सञ्जय़ उवाच:
अप्रिय़ं वा प्रिय़ं वापि महाराज धनञ्जय़म् ||
१ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महावाहुर्भीमसेनोऽभ्यभाषत |
२ क
सञ्जय़ उवाच:
उत्स्मय़न्निव कौन्तेय़मर्जुनं भरतर्षभ ||
२ ख
सञ्जय़ उवाच:
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् |
३ क
सञ्जय़ उवाच:
न्यस्तदण्डो यथा पार्थ व्राह्मणः संशितव्रतः ||
३ ख
सञ्जय़ उवाच:
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु |
४ क
सञ्जय़ उवाच:
क्षत्रिय़ः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रिय़म् ||
४ ख
सञ्जय़ उवाच:
स भवान्क्षत्रिय़गुणैर्युक्तः सर्वैः कुलोद्वहः |
५ क
सञ्जय़ उवाच:
अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ||
५ ख
सञ्जय़ उवाच:
पराक्रमस्ते कौन्तेय़ शक्रस्येव शचीपतेः |
६ क
सञ्जय़ उवाच:
न चातिवर्तसे धर्मं वेलामिव महोदधिः ||
६ ख
सञ्जय़ उवाच:
न पूजय़ेत्त्वा कोऽन्वद्य यत्त्रय़ोदशवार्षिकम् |
७ क
सञ्जय़ उवाच:
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ||
७ ख
सञ्जय़ उवाच:
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते |
८ क
सञ्जय़ उवाच:
आनृशंस्ये च ते दिष्ट्या वुद्धिः सततमच्युत ||
८ ख
सञ्जय़ उवाच:
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः |
९ क
सञ्जय़ उवाच:
द्रौपदी च परामृष्टा सभामानीय़ शत्रुभिः ||
९ ख
सञ्जय़ उवाच:
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः |
१० क
सञ्जय़ उवाच:
अनर्हमाणास्तं भावं त्रय़ोदश समाः परैः ||
१० ख
सञ्जय़ उवाच:
एतान्यमर्षस्थानानि मर्षितानि त्वय़ानघ |
११ क
सञ्जय़ उवाच:
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ||
११ ख
सञ्जय़ उवाच:
तमधर्ममपाक्रष्टुमारव्धः सहितस्त्वय़ा |
१२ क
सञ्जय़ उवाच:
सानुवन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ||
१२ ख
सञ्जय़ उवाच:
त्वय़ा तु कथितं पूर्वं युद्धाय़ाभ्यागता वय़म् |
१३ क
सञ्जय़ उवाच:
घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ||
१३ ख
सञ्जय़ उवाच:
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते |
१४ क
सञ्जय़ उवाच:
भय़ार्दितानामस्माकं वाचा मर्माणि कृन्तसि ||
१४ ख
सञ्जय़ उवाच:
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन |
१५ क
सञ्जय़ उवाच:
विदीर्यते मे हृदय़ं त्वय़ा वाक्षल्यपीडितम् ||
१५ ख
सञ्जय़ उवाच:
अधर्ममेतद्विपुलं धार्मिकः सन्न वुध्यसे |
१६ क
सञ्जय़ उवाच:
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि |
१६ ख
सञ्जय़ उवाच:
यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ||
१६ ग
सञ्जय़ उवाच:
स्वय़मेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् |
१७ क
सञ्जय़ उवाच:
दारय़ेय़ं महीं क्रोधाद्विकिरेय़ं च पर्वतान् ||
१७ ख
सञ्जय़ उवाच:
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् |
१८ क
सञ्जय़ उवाच:
गिरिप्रकाशान्क्षितिजान्भञ्जेय़मनिलो यथा ||
१८ ख
सञ्जय़ उवाच:
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ |
१९ क
सञ्जय़ उवाच:
द्रोणपुत्राद्भय़ं कर्तुं नार्हस्यमितविक्रम ||
१९ ख
सञ्जय़ उवाच:
अथ वा तिष्ठ वीभत्सो सह सर्वैर्नरर्षभैः |
२० क
सञ्जय़ उवाच:
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ||
२० ख
सञ्जय़ उवाच:
ततः पाञ्चालराजस्य पुत्रः पार्थमथाव्रवीत् |
२१ क
सञ्जय़ उवाच:
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ||
२१ ख
सञ्जय़ उवाच:
वीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् |
२२ क
सञ्जय़ उवाच:
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ||
२२ ख
सञ्जय़ उवाच:
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः |
२३ क
सञ्जय़ उवाच:
हतो द्रोणो मय़ा यत्तत्किं मां पार्थ विगर्हसे ||
२३ ख
सञ्जय़ उवाच:
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः |
२४ क
सञ्जय़ उवाच:
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ||
२४ ख
सञ्जय़ उवाच:
तथा माय़ां प्रय़ुञ्जानमसह्यं व्राह्मणव्रुवम् |
२५ क
सञ्जय़ उवाच:
माय़यैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ||
२५ ख
सञ्जय़ उवाच:
तस्मिंस्तथा मय़ा शस्ते यदि द्रौणाय़नी रुषा |
२६ क
सञ्जय़ उवाच:
कुरुते भैरवं नादं तत्र किं मम हीय़ते ||
२६ ख
सञ्जय़ उवाच:
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जय़ा |
२७ क
सञ्जय़ उवाच:
घातय़िष्यति कौरव्यान्परित्रातुमशक्नुवन् ||
२७ ख
सञ्जय़ उवाच:
यच्च मां धार्मिको भूत्वा व्रवीषि गुरुघातिनम् |
२८ क
सञ्जय़ उवाच:
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ||
२८ ख
सञ्जय़ उवाच:
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे |
२९ क
सञ्जय़ उवाच:
तं कथं व्राह्मणं व्रूय़ाः क्षत्रिय़ं वा धनञ्जय़ ||
२९ ख
सञ्जय़ उवाच:
यो ह्यनस्त्रविदो हन्याद्व्रह्मास्त्रैः क्रोधमूर्छितः |
३० क
सञ्जय़ उवाच:
सर्वोपाय़ैर्न स कथं वध्यः पुरुषसत्तम ||
३० ख
सञ्जय़ उवाच:
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् |
३१ क
सञ्जय़ उवाच:
जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ||
३१ ख
सञ्जय़ उवाच:
नृशंसः स मय़ाक्रम्य रथ एव निपातितः |
३२ क
सञ्जय़ उवाच:
तन्माभिनन्द्यं वीभत्सो किमर्थं नाभिनन्दसे ||
३२ ख
सञ्जय़ उवाच:
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् |
३३ क
सञ्जय़ उवाच:
भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ||
३३ ख
सञ्जय़ उवाच:
योऽसौ ममैव नान्यस्य वान्धवान्युधि जघ्निवान् |
३४ क
सञ्जय़ उवाच:
छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ||
३४ ख
सञ्जय़ उवाच:
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मय़ा |
३५ क
सञ्जय़ उवाच:
निषादविषय़े क्षिप्तं जय़द्रथशिरो यथा ||
३५ ख
सञ्जय़ उवाच:
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन |
३६ क
सञ्जय़ उवाच:
क्षत्रिय़स्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ||
३६ ख
सञ्जय़ उवाच:
स शत्रुर्निहतः सङ्ख्ये मय़ा धर्मेण पाण्डव |
३७ क
सञ्जय़ उवाच:
यथा त्वय़ा हतः शूरो भगदत्तः पितुः सखा ||
३७ ख
सञ्जय़ उवाच:
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः |
३८ क
सञ्जय़ उवाच:
मय़ा शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ||
३८ ख
सञ्जय़ उवाच:
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन |
३९ क
सञ्जय़ उवाच:
शिष्यध्रुङ्निहतः पापो युध्यस्व विजय़स्तव ||
३९ ख