सञ्जय़ उवाच:
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णय़ः ||
५० ख
सञ्जय़ उवाच:
स भवानीदृशं मित्रं मन्यते च यथा भवान् |
५१ क
सञ्जय़ उवाच:
भवन्तश्च यथास्माकं भवतां च तथा वय़म् ||
५१ ख
सञ्जय़ उवाच:
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् |
५२ क
सञ्जय़ उवाच:
निय़च्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ||
५२ ख
सञ्जय़ उवाच:
पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः |
५३ क
सञ्जय़ उवाच:
वय़ं क्षमय़ितारश्च किमन्यत्र शमाद्भवेत् ||
५३ ख
सञ्जय़ उवाच:
प्रशाम्यमाने शैनेय़े सहदेवेन मारिष |
५४ क
सञ्जय़ उवाच:
पाञ्चालराजस्य सुतः प्रहसन्निदमव्रवीत् ||
५४ ख
सञ्जय़ उवाच:
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् |
५५ क
सञ्जय़ उवाच:
आसादय़तु मामेष धराधरमिवानिलः ||
५५ ख
सञ्जय़ उवाच:
यावदस्य शितैर्वाणैः संरम्भं विनय़ाम्यहम् |
५६ क
सञ्जय़ उवाच:
युद्धश्रद्धां च कौन्तेय़ जीवितस्य च संय़ुगे ||
५६ ख
सञ्जय़ उवाच:
किं नु शक्यं मय़ा कर्तुं कार्यं यदिदमुद्यतम् |
५७ क
सञ्जय़ उवाच:
सुमहत्पाण्डुपुत्राणामाय़ान्त्येते हि कौरवाः ||
५७ ख
सञ्जय़ उवाच:
अथ वा फल्गुनः सर्वान्वारय़िष्यति संय़ुगे |
५८ क
सञ्जय़ उवाच:
अहमप्यस्य मूर्धानं पातय़िष्यामि साय़कैः ||
५८ ख
सञ्जय़ उवाच:
मन्यते छिन्नवाहुं मां भूरिश्रवसमाहवे |
५९ क
सञ्जय़ उवाच:
उत्सृजैनमहं वैनमेष मां वा हनिष्यति ||
५९ ख
सञ्जय़ उवाच:
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् |
६० क
सञ्जय़ उवाच:
भीमवाह्वन्तरे सक्तो विस्फुरत्यनिशं वली ||
६० ख
सञ्जय़ उवाच:
त्वरय़ा वासुदेवश्च धर्मराजश्च मारिष |
६१ क
सञ्जय़ उवाच:
यत्नेन महता वीरौ वारय़ामासतुस्ततः ||
६१ ख
सञ्जय़ उवाच:
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ |
६२ क
सञ्जय़ उवाच:
युय़ुत्सवः परान्सङ्ख्ये प्रतीय़ुः क्षत्रिय़र्षभाः ||
६२ ख