chevron_left शान्ति पर्व अध्याय १६९
युधिष्ठिर उवाच:
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षय़ावहे |
१ क
युधिष्ठिर उवाच:
किं श्रेय़ः प्रतिपद्येत तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
पितुः पुत्रेण संवादं तन्निवोध युधिष्ठिर ||
२ ख
भीष्म उवाच:
द्विजातेः कस्यचित्पार्थ स्वाध्याय़निरतस्य वै |
३ क
भीष्म उवाच:
वभूव पुत्रो मेधावी मेधावी नाम नामतः ||
३ ख
भीष्म उवाच:
सोऽव्रवीत्पितरं पुत्रः स्वाध्याय़करणे रतम् |
४ क
भीष्म उवाच:
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ||
४ ख
भीष्म उवाच:
धीरः किं स्वित्तात कुर्यात्प्रजान; न्क्षिप्रं ह्याय़ुर्भ्रश्यते मानवानाम् |
५ क
भीष्म उवाच:
पितस्तदाचक्ष्व यथार्थय़ोगं; ममानुपूर्व्या येन धर्मं चरेय़म् ||
५ ख
पितो उवाच:
वेदानधीत्य व्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम् |
६ क
पितो उवाच:
अग्नीनाधाय़ विधिवच्चेष्टय़ज्ञो; वनं प्रविश्याथ मुनिर्वुभूषेत् ||
६ ख
पुत्र उवाच:
एवमभ्याहते लोके समन्तात्परिवारिते |
७ क
पुत्र उवाच:
अमोघासु पतन्तीषु किं धीर इव भाषसे ||
७ ख
पितो उवाच:
कथमभ्याहतो लोकः केन वा परिवारितः |
८ क
पितो उवाच:
अमोघाः काः पतन्तीह किं नु भीषय़सीव माम् ||
८ ख
पुत्र उवाच:
मृत्युनाभ्याहतो लोको जरय़ा परिवारितः |
९ क
पुत्र उवाच:
अहोरात्राः पतन्त्येते ननु कस्मान्न वुध्यसे ||
९ ख
पुत्र उवाच:
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह |
१० क
पुत्र उवाच:
सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ||
१० ख
पुत्र उवाच:
रात्र्यां रात्र्यां व्यतीताय़ामाय़ुरल्पतरं यदा |
११ क
पुत्र उवाच:
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा |
११ ख
पुत्र उवाच:
तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ||
११ ग
पुत्र उवाच:
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् |
१२ क
पुत्र उवाच:
शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् |
१२ ख
पुत्र उवाच:
वृकीवोरणमासाद्य मृत्युरादाय़ गच्छति ||
१२ ग
पुत्र उवाच:
अद्यैव कुरु यच्छ्रेय़ो मा त्वा कालोऽत्यगादय़म् |
१३ क
पुत्र उवाच:
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ||
१३ ख
पुत्र उवाच:
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् |
१४ क
पुत्र उवाच:
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् |
१४ ख
पुत्र उवाच:
को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ||
१४ ग
पुत्र उवाच:
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् |
१५ क
पुत्र उवाच:
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ||
१५ ख
पुत्र उवाच:
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः |
१६ क
पुत्र उवाच:
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रय़च्छति ||
१६ ख
पुत्र उवाच:
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् |
१७ क
पुत्र उवाच:
सुप्तं व्याघ्रं महौघो वा मृत्युरादाय़ गच्छति ||
१७ ख
पुत्र उवाच:
सञ्चिन्वानकमेवैकं कामानामवितृप्तकम् |
१८ क
पुत्र उवाच:
व्याघ्रः पशुमिवादाय़ मृत्युरादाय़ गच्छति ||
१८ ख
पुत्र उवाच:
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् |
१९ क
पुत्र उवाच:
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ||
१९ ख
पुत्र उवाच:
कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् |
२० क
पुत्र उवाच:
क्षेत्रापणगृहासक्तं मृत्युरादाय़ गच्छति ||
२० ख
पुत्र उवाच:
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् |
२१ क
पुत्र उवाच:
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ||
२१ ख
पुत्र उवाच:
जातमेवान्तकोऽन्ताय़ जरा चान्वेति देहिनम् |
२२ क
पुत्र उवाच:
अनुषक्ता द्वय़ेनैते भावाः स्थावरजङ्गमाः ||
२२ ख
पुत्र उवाच:
मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः |
२३ क
पुत्र उवाच:
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ||
२३ ख
पुत्र उवाच:
निवन्धनी रज्जुरेषा या ग्रामे वसतो रतिः |
२४ क
पुत्र उवाच:
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ||
२४ ख
पुत्र उवाच:
न हिंसय़ति यः प्राणान्मनोवाक्काय़हेतुभिः |
२५ क
पुत्र उवाच:
जीवितार्थापनय़नैः कर्मभिर्न स वध्यते ||
२५ ख
पुत्र उवाच:
न मृत्युसेनामाय़ान्तीं जातु कश्चित्प्रवाधते |
२६ क
पुत्र उवाच:
ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाश्रितम् ||
२६ ख
पुत्र उवाच:
तस्मात्सत्यव्रताचारः सत्ययोगपराय़णः |
२७ क
पुत्र उवाच:
सत्यारामः समो दान्तः सत्येनैवान्तकं जय़ेत् ||
२७ ख
पुत्र उवाच:
अमृतं चैव मृत्युश्च द्वय़ं देहे प्रतिष्ठितम् |
२८ क
पुत्र उवाच:
मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ||
२८ ख
पुत्र उवाच:
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधवहिष्कृतः |
२९ क
पुत्र उवाच:
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ||
२९ ख
पुत्र उवाच:
शान्तिय़ज्ञरतो दान्तो व्रह्मय़ज्ञे स्थितो मुनिः |
३० क
पुत्र उवाच:
वाङ्मनःकर्मय़ज्ञश्च भविष्याम्युदगाय़ने ||
३० ख
पुत्र उवाच:
पशुय़ज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति |
३१ क
पुत्र उवाच:
अन्तवद्भिरुत प्राज्ञः क्षत्रय़ज्ञैः पिशाचवत् ||
३१ ख
पुत्र उवाच:
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा |
३२ क
पुत्र उवाच:
तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुय़ात् ||
३२ ख
पुत्र उवाच:
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं वलम् |
३३ क
पुत्र उवाच:
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ||
३३ ख
पुत्र उवाच:
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा |
३४ क
पुत्र उवाच:
आत्मन्येव भविष्यामि न मां तारय़ति प्रजा ||
३४ ख
पुत्र उवाच:
नैतादृशं व्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च |
३५ क
पुत्र उवाच:
शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रिय़ाभ्यः ||
३५ ख
पुत्र उवाच:
किं ते धनैर्वान्धवैर्वापि किं ते; किं ते दारैर्व्राह्मण यो मरिष्यसि |
३६ क
पुत्र उवाच:
आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च ||
३६ ख
भीष्म उवाच:
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप |
३७ क
भीष्म उवाच:
तथा त्वमपि वर्तस्व सत्यधर्मपराय़णः ||
३७ ख