chevron_left वन पर्व अध्याय १६९
अर्जुन उवाच:
अदृश्यमानास्ते दैत्या योधय़न्ति स्म माय़या |
१ क
अर्जुन उवाच:
अदृश्यानस्त्रवीर्येण तानप्यहमय़ोधय़म् ||
१ ख
अर्जुन उवाच:
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः |
२ क
अर्जुन उवाच:
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ||
२ ख
अर्जुन उवाच:
ततो निवातकवचा वध्यमाना मय़ा युधि |
३ क
अर्जुन उवाच:
संहृत्य माय़ां सहसा प्राविशन्पुरमात्मनः ||
३ ख
अर्जुन उवाच:
व्यपय़ातेषु दैत्येषु प्रादुर्भूते च दर्शने |
४ क
अर्जुन उवाच:
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ||
४ ख
अर्जुन उवाच:
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च |
५ क
अर्जुन उवाच:
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ||
५ ख
अर्जुन उवाच:
हय़ानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् |
६ क
अर्जुन उवाच:
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ||
६ ख
अर्जुन उवाच:
ततो निवातकवचा व्योम सञ्छाद्य केवलम् |
७ क
अर्जुन उवाच:
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चय़ान् ||
७ ख
अर्जुन उवाच:
अन्तर्भूमिगताश्चान्ये हय़ानां चरणान्यथ |
८ क
अर्जुन उवाच:
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ||
८ ख
अर्जुन उवाच:
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः |
९ क
अर्जुन उवाच:
सर्वतो मामचिन्वन्त सरथं धरणीधरैः ||
९ ख
अर्जुन उवाच:
पर्वतैरुपचीय़द्भिः पतमानैस्तथापरैः |
१० क
अर्जुन उवाच:
स देशो यत्र वर्ताम गुहेव समपद्यत ||
१० ख
अर्जुन उवाच:
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः |
११ क
अर्जुन उवाच:
अगच्छं परमामार्तिं मातलिस्तदलक्षय़त् ||
११ ख
अर्जुन उवाच:
लक्षय़ित्वा तु मां भीतमिदं वचनमव्रवीत् |
१२ क
अर्जुन उवाच:
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय़ ||
१२ ख
अर्जुन उवाच:
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरय़म् |
१३ क
अर्जुन उवाच:
देवराजस्य दय़ितं वज्रमस्त्रं नराधिप ||
१३ ख
अर्जुन उवाच:
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च |
१४ क
अर्जुन उवाच:
अमुञ्चं वज्रसंस्पर्शानाय़सान्निशिताञ्शरान् ||
१४ ख
अर्जुन उवाच:
ततो माय़ाश्च ताः सर्वा निवातकवचांश्च तान् |
१५ क
अर्जुन उवाच:
ते वज्रचोदिता वाणा वज्रभूताः समाविशन् ||
१५ ख
अर्जुन उवाच:
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः |
१६ क
अर्जुन उवाच:
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ||
१६ ख
अर्जुन उवाच:
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः |
१७ क
अर्जुन उवाच:
अनुप्रविश्य तान्वाणाः प्राहिण्वन्यमसादनम् ||
१७ ख
अर्जुन उवाच:
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः |
१८ क
अर्जुन उवाच:
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ||
१८ ख
अर्जुन उवाच:
न हय़ानां क्षतिः काचिन्न रथस्य न मातलेः |
१९ क
अर्जुन उवाच:
मम चादृश्यत तदा तदद्भुतमिवाभवत् ||
१९ ख
अर्जुन उवाच:
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत |
२० क
अर्जुन उवाच:
नैतदर्जुन देवेषु त्वय़ि वीर्यं यदीक्ष्यते ||
२० ख
अर्जुन उवाच:
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः |
२१ क
अर्जुन उवाच:
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ||
२१ ख
अर्जुन उवाच:
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् |
२२ क
अर्जुन उवाच:
त्रासय़न्रथघोषेण निवातकवचस्त्रिय़ः ||
२२ ख
अर्जुन उवाच:
तान्दृष्ट्वा दशसाहस्रान्मय़ूरसदृशान्हय़ान् |
२३ क
अर्जुन उवाच:
रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रिय़ः ||
२३ ख
अर्जुन उवाच:
ताभिराभरणैः शव्दस्त्रासिताभिः समीरितः |
२४ क
अर्जुन उवाच:
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ||
२४ ख
अर्जुन उवाच:
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् |
२५ क
अर्जुन उवाच:
वहुरत्नविचित्राणि शातकुम्भमय़ानि च ||
२५ ख
अर्जुन उवाच:
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् |
२६ क
अर्जुन उवाच:
विशिष्टं देवनगरादपृच्छं मातलिं ततः ||
२६ ख
अर्जुन उवाच:
इदमेवंविधं कस्माद्देवता नाविशन्त्युत |
२७ क
अर्जुन उवाच:
पुरन्दरपुराद्धीदं विशिष्टमिति लक्षय़े ||
२७ ख
मातलिरु उवाच:
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् |
२८ क
मातलिरु उवाच:
ततो निवातकवचैरितः प्रच्याविताः सुराः ||
२८ ख
मातलिरु उवाच:
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् |
२९ क
मातलिरु उवाच:
इदं वृतं निवासाय़ देवेभ्यश्चाभय़ं युधि ||
२९ ख
मातलिरु उवाच:
ततः शक्रेण भगवान्स्वय़म्भूरभिचोदितः |
३० क
मातलिरु उवाच:
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ||
३० ख
मातलिरु उवाच:
तत उक्तो भगवता दिष्टमत्रेति वासवः |
३१ क
मातलिरु उवाच:
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ||
३१ ख
मातलिरु उवाच:
तत एषां वधार्थाय़ शक्रोऽस्त्राणि ददौ तव |
३२ क
मातलिरु उवाच:
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वय़ा ||
३२ ख
मातलिरु उवाच:
कालस्य परिणामेन ततस्त्वमिह भारत |
३३ क
मातलिरु उवाच:
एषामन्तकरः प्राप्तस्तत्त्वय़ा च कृतं तथा ||
३३ ख
मातलिरु उवाच:
दानवानां विनाशार्थं महास्त्राणां महद्वलम् |
३४ क
मातलिरु उवाच:
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ||
३४ ख
अर्जुन उवाच:
ततः प्रविश्य नगरं दानवांश्च निहत्य तान् |
३५ क
अर्जुन उवाच:
पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ||
३५ ख