धृतराष्ट्र उवाच:
साङ्गा वेदा यथान्याय़ं येनाधीता महात्मना |
१ क
धृतराष्ट्र उवाच:
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ||
१ ख
धृतराष्ट्र उवाच:
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनय़े तदा |
२ क
धृतराष्ट्र उवाच:
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ||
२ ख
धृतराष्ट्र उवाच:
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः |
३ क
धृतराष्ट्र उवाच:
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ||
३ ख
धृतराष्ट्र उवाच:
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः |
४ क
धृतराष्ट्र उवाच:
नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ||
४ ख
धृतराष्ट्र उवाच:
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः |
५ क
धृतराष्ट्र उवाच:
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय़ ||
५ ख
सञ्जय़ उवाच:
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः |
६ क
सञ्जय़ उवाच:
तूष्णीं वभूवू राजानः सर्व एव विशां पते ||
६ ख
सञ्जय़ उवाच:
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् |
७ क
सञ्जय़ उवाच:
सवाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाव्रवीत् ||
७ ख
सञ्जय़ उवाच:
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे |
८ क
सञ्जय़ उवाच:
आसन्सुव्रीडिता राजन्सात्यकिरिदमव्रवीत् ||
८ ख
सञ्जय़ उवाच:
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् |
९ क
सञ्जय़ उवाच:
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ||
९ ख
सञ्जय़ उवाच:
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते |
१० क
सञ्जय़ उवाच:
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ||
१० ख
सञ्जय़ उवाच:
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः |
११ क
सञ्जय़ उवाच:
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ||
११ ख
सञ्जय़ उवाच:
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् |
१२ क
सञ्जय़ उवाच:
वध्यस्त्वं न त्वय़ार्थोऽस्ति मुहूर्तमपि जीवता ||
१२ ख
सञ्जय़ उवाच:
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः |
१३ क
सञ्जय़ उवाच:
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ||
१३ ख
सञ्जय़ उवाच:
सप्तावरे तथा पूर्वे वान्धवास्ते निपातिताः |
१४ क
सञ्जय़ उवाच:
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ||
१४ ख
सञ्जय़ उवाच:
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् |
१५ क
सञ्जय़ उवाच:
तथान्तो विहितस्तेन स्वय़मेव महात्मना ||
१५ ख
सञ्जय़ उवाच:
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः |
१६ क
सञ्जय़ उवाच:
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ||
१६ ख
सञ्जय़ उवाच:
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल |
१७ क
सञ्जय़ उवाच:
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ||
१७ ख
सञ्जय़ उवाच:
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः |
१८ क
सञ्जय़ उवाच:
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ||
१८ ख
सञ्जय़ उवाच:
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि |
१९ क
सञ्जय़ उवाच:
शिरस्ते पातय़िष्यामि गदय़ा वज्रकल्पय़ा ||
१९ ख
सञ्जय़ उवाच:
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् |
२० क
सञ्जय़ उवाच:
संरव्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ||
२० ख
सञ्जय़ उवाच:
श्रूय़ते श्रूय़ते चेति क्षम्यते चेति माधव |
२१ क
सञ्जय़ उवाच:
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ||
२१ ख
सञ्जय़ उवाच:
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् |
२२ क
सञ्जय़ उवाच:
क्षमावन्तं हि पापात्मा जितोऽय़मिति मन्यते ||
२२ ख
सञ्जय़ उवाच:
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चय़ः |
२३ क
सञ्जय़ उवाच:
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ||
२३ ख
सञ्जय़ उवाच:
यः स भूरिश्रवाश्छिन्ने भुजे प्राय़गतस्त्वय़ा |
२४ क
सञ्जय़ उवाच:
वार्यमाणेन निहतस्ततः पापतरं नु किम् ||
२४ ख
सञ्जय़ उवाच:
व्यूहमानो मय़ा द्रोणो दिव्येनास्त्रेण संय़ुगे |
२५ क
सञ्जय़ उवाच:
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ||
२५ ख
सञ्जय़ उवाच:
अय़ुध्यमानं यस्त्वाजौ तथा प्राय़गतं मुनिम् |
२६ क
सञ्जय़ उवाच:
छिन्नवाहुं परैर्हन्यात्सात्यके स कथं भवेत् ||
२६ ख
सञ्जय़ उवाच:
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् |
२७ क
सञ्जय़ उवाच:
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ||
२७ ख
सञ्जय़ उवाच:
त्वय़ा पुनरनार्येण पूर्वं पार्थेन निर्जितः |
२८ क
सञ्जय़ उवाच:
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ||
२८ ख
सञ्जय़ उवाच:
यत्र यत्र तु पाण्डूनां द्रोणो द्रावय़ते चमूम् |
२९ क
सञ्जय़ उवाच:
किरञ्शरसहस्राणि तत्र तत्र प्रय़ाम्यहम् ||
२९ ख
सञ्जय़ उवाच:
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वय़म् |
३० क
सञ्जय़ उवाच:
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ||
३० ख
सञ्जय़ उवाच:
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम |
३१ क
सञ्जय़ उवाच:
पापानां च त्वमावासः कर्मणां मा पुनर्वद ||
३१ ख
सञ्जय़ उवाच:
जोषमास्स्व न मां भूय़ो वक्तुमर्हस्यतः परम् |
३२ क
सञ्जय़ उवाच:
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ||
३२ ख
सञ्जय़ उवाच:
अथ वक्ष्यसि मां मौर्ख्याद्भूय़ः परुषमीदृशम् |
३३ क
सञ्जय़ उवाच:
गमय़िष्यामि वाणैस्त्वां युधि वैवस्वतक्षय़म् ||
३३ ख
सञ्जय़ उवाच:
न चैव मूर्ख धर्मेण केवलेनैव शक्यते |
३४ क
सञ्जय़ उवाच:
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ||
३४ ख
सञ्जय़ उवाच:
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः |
३५ क
सञ्जय़ उवाच:
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ||
३५ ख
सञ्जय़ उवाच:
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णय़ा |
३६ क
सञ्जय़ उवाच:
सर्वस्वमपकृष्टं च तथाधर्मेण वालिश ||
३६ ख
सञ्जय़ उवाच:
अधर्मेणापकृष्टश्च मद्रराजः परैरितः |
३७ क
सञ्जय़ उवाच:
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः |
३७ ख
सञ्जय़ उवाच:
भूरिश्रवा ह्यधर्मेण त्वय़ा धर्मविदा हतः ||
३७ ग
सञ्जय़ उवाच:
एवं परैराचरितं पाण्डवेय़ैश्च संय़ुगे |
३८ क
सञ्जय़ उवाच:
रक्षमाणैर्जय़ं वीरैर्धर्मज्ञैरपि सात्वत ||
३८ ख
सञ्जय़ उवाच:
दुर्ज्ञेय़ः परमो धर्मस्तथाधर्मः सुदुर्विदः |
३९ क
सञ्जय़ उवाच:
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ||
३९ ख
सञ्जय़ उवाच:
एवमादीनि वाक्यानि क्रूराणि परुषाणि च |
४० क
सञ्जय़ उवाच:
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ||
४० ख
सञ्जय़ उवाच:
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् |
४१ क
सञ्जय़ उवाच:
विनिःश्वस्य यथा सर्पः प्रणिधाय़ रथे धनुः ||
४१ ख
सञ्जय़ उवाच:
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमव्रवीत् |
४२ क
सञ्जय़ उवाच:
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ||
४२ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा महावलममर्षणम् |
४३ क
सञ्जय़ उवाच:
पाञ्चाल्याय़ाभिसङ्क्रुद्धमन्तकाय़ान्तकोपमम् ||
४३ ख
सञ्जय़ उवाच:
चोदितो वासुदेवेन भीमसेनो महावलः |
४४ क
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं वाहुभ्यां समवारय़त् ||
४४ ख
सञ्जय़ उवाच:
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो वली |
४५ क
सञ्जय़ उवाच:
प्रस्कन्दमानमादाय़ जगाम वलिनं वलात् ||
४५ ख
सञ्जय़ उवाच:
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः |
४६ क
सञ्जय़ उवाच:
निगृहीतः पदे षष्ठे वलेन वलिनां वरः ||
४६ ख
सञ्जय़ उवाच:
अवरुह्य रथात्तं तु ह्रिय़माणं वलीय़सा |
४७ क
सञ्जय़ उवाच:
उवाच श्लक्ष्णय़ा वाचा सहदेवो विशां पते ||
४७ ख
सञ्जय़ उवाच:
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते |
४८ क
सञ्जय़ उवाच:
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ||
४८ ख
सञ्जय़ उवाच:
तथैवान्धकवृष्णीनां तव चैव विशेषतः |
४९ क
सञ्जय़ उवाच:
कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ||
४९ ख
सञ्जय़ उवाच:
पाञ्चालानां च वार्ष्णेय़ समुद्रान्तां विचिन्वताम् |
५० क