chevron_left कर्ण पर्व अध्याय १७
सञ्जय़ उवाच:
चिरस्य वत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ||
४९ ख
सञ्जय़ उवाच:
यस्य मे त्वं रणे पाप चक्षुर्विषय़मागतः |
५० क
सञ्जय़ उवाच:
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ||
५० ख
सञ्जय़ उवाच:
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् |
५१ क
सञ्जय़ उवाच:
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ||
५१ ख
सञ्जय़ उवाच:
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः |
५२ क
सञ्जय़ उवाच:
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ||
५२ ख
सञ्जय़ उवाच:
प्रहरस्व रणे वाल पश्यामस्तव पौरुषम् |
५३ क
सञ्जय़ उवाच:
कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ||
५३ ख
सञ्जय़ उवाच:
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः |
५४ क
सञ्जय़ उवाच:
स युध्यस्व मय़ा शक्त्या विनेष्ये दर्पमद्य ते ||
५४ ख
सञ्जय़ उवाच:
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय़ सूतजः |
५५ क
सञ्जय़ उवाच:
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ||
५५ ख
सञ्जय़ उवाच:
नकुलस्तु ततो विद्धः सूतपुत्रेण भारत |
५६ क
सञ्जय़ उवाच:
अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ||
५६ ख
सञ्जय़ उवाच:
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः |
५७ क
सञ्जय़ उवाच:
त्रिंशता परमेष्वासः शरैः पाण्डवमार्दय़त् ||
५७ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |
५८ क
सञ्जय़ उवाच:
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ||
५८ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ हेमपृष्ठं दुरासदम् |
५९ क
सञ्जय़ उवाच:
कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ||
५९ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज नकुलः परवीरहा |
६० क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ||
६० ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं साय़कानां शतैस्त्रिभिः |
६१ क
सञ्जय़ उवाच:
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ||
६१ ख
सञ्जय़ उवाच:
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष |
६२ क
सञ्जय़ उवाच:
विस्मय़ं परमं जग्मू रथिनः सह दैवतैः ||
६२ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ कर्णो वैकर्तनस्तदा |
६३ क
सञ्जय़ उवाच:
नकुलं पञ्चभिर्वाणैर्जत्रुदेशे समार्दय़त् ||
६३ ख
सञ्जय़ उवाच:
उरःस्थैरथ तैर्वाणैर्माद्रीपुत्रो व्यरोचत |
६४ क
सञ्जय़ उवाच:
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ||
६४ ख
सञ्जय़ उवाच:
नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिराय़सैः |
६५ क
सञ्जय़ उवाच:
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ||
६५ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ समरे वेगवत्तरम् |
६६ क
सञ्जय़ उवाच:
नकुलस्य ततो वाणैः सर्वतोऽवारय़द्दिशः ||
६६ ख
सञ्जय़ उवाच:
सञ्छाद्यमानः सहसा कर्णचापच्युतैः शरैः |
६७ क
सञ्जय़ उवाच:
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ||
६७ ख
सञ्जय़ उवाच:
ततो वाणमय़ं जालं विततं व्योम्न्यदृश्यत |
६८ क
सञ्जय़ उवाच:
खद्योतानां गणैरेव सम्पतद्भिर्यथा नभः ||
६८ ख
सञ्जय़ उवाच:
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा |
६९ क
सञ्जय़ उवाच:
शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ||
६९ ख
सञ्जय़ उवाच:
ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः |
७० क
सञ्जय़ उवाच:
श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ||
७० ख
सञ्जय़ उवाच:
वाणजालावृते व्योम्नि छादिते च दिवाकरे |
७१ क
सञ्जय़ उवाच:
समसर्पत्ततो भूतं किञ्चिदेव विशां पते ||
७१ ख
सञ्जय़ उवाच:
निरुद्धे तत्र मार्गे तु शरसङ्घैः समन्ततः |
७२ क
सञ्जय़ उवाच:
व्यरोचतां महाभागौ वालसूर्याविवोदितौ ||
७२ ख
सञ्जय़ उवाच:
कर्णचापच्युतैर्वाणैर्वध्यमानास्तु सोमकाः |
७३ क
सञ्जय़ उवाच:
अवालीय़न्त राजेन्द्र वेदनार्ताः शरार्दिताः ||
७३ ख
सञ्जय़ उवाच:
नकुलस्य तथा वाणैर्वध्यमाना चमूस्तव |
७४ क
सञ्जय़ उवाच:
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्वुदाः ||
७४ ख
सञ्जय़ उवाच:
ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः |
७५ क
सञ्जय़ उवाच:
शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ||
७५ ख
सञ्जय़ उवाच:
प्रोत्सारिते जने तस्मिन्कर्णपाण्डवय़ोः शरैः |
७६ क
सञ्जय़ उवाच:
विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ||
७६ ख
सञ्जय़ उवाच:
निदर्शय़न्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि |
७७ क
सञ्जय़ उवाच:
छादय़न्तौ च सहसा परस्परवधैषिणौ ||
७७ ख
सञ्जय़ उवाच:
नकुलेन शरा मुक्ताः कङ्कवर्हिणवाससः |
७८ क
सञ्जय़ उवाच:
ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ||
७८ ख
सञ्जय़ उवाच:
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन |
७९ क
सञ्जय़ उवाच:
चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ||
७९ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः |
८० क
सञ्जय़ उवाच:
पाण्डवं छादय़ामास समन्ताच्छरवृष्टिभिः ||
८० ख
सञ्जय़ उवाच:
स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः |
८१ क
सञ्जय़ उवाच:
न चकार व्यथां राजन्भास्करो जलदैर्यथा ||
८१ ख
सञ्जय़ उवाच:
ततः प्रहस्याधिरथिः शरजालानि मारिष |
८२ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे शतशोऽथ सहस्रशः ||
८२ ख
सञ्जय़ उवाच:
एकच्छाय़मभूत्सर्वं तस्य वाणैर्महात्मनः |
८३ क
सञ्जय़ उवाच:
अभ्रच्छाय़ेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ||
८३ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः |
८४ क
सञ्जय़ उवाच:
सारथिं पातय़ामास रथनीडाद्धसन्निव ||
८४ ख
सञ्जय़ उवाच:
तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः |
८५ क
सञ्जय़ उवाच:
यमस्य सदनं तूर्णं प्रेषय़ामास भारत ||
८५ ख
सञ्जय़ उवाच:
अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः |
८६ क
सञ्जय़ उवाच:
पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष |
८६ ख
सञ्जय़ उवाच:
शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ||
८६ ग
सञ्जय़ उवाच:
हताश्वो विरथश्चैव विवर्मा च विशां पते |
८७ क
सञ्जय़ उवाच:
अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ||
८७ ख
सञ्जय़ उवाच:
तमुद्यतं महाघोरं परिघं तस्य सूतजः |
८८ क
सञ्जय़ उवाच:
व्यहनत्साय़कै राजञ्शतशोऽथ सहस्रशः ||
८८ ख
सञ्जय़ उवाच:
व्याय़ुधं चैनमालक्ष्य शरैः संनतपर्वभिः |
८९ क
सञ्जय़ उवाच:
आर्दय़द्वहुशः कर्णो न चैनं समपीडय़त् ||
८९ ख
सञ्जय़ उवाच:
स वध्यमानः समरे कृतास्त्रेण वलीय़सा |
९० क
सञ्जय़ उवाच:
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रिय़ः ||
९० ख
सञ्जय़ उवाच:
तमभिद्रुत्य राधेय़ः प्रहसन्वै पुनः पुनः |
९१ क
सञ्जय़ उवाच:
सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ||
९१ ख
सञ्जय़ उवाच:
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः |
९२ क
सञ्जय़ उवाच:
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः |
९२ ख
सञ्जय़ उवाच:
यथैव च सितो मेघः शक्रचापेन शोभितः ||
९२ ग
सञ्जय़ उवाच:
तमव्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि |
९३ क
सञ्जय़ उवाच:
वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ||
९३ ख
सञ्जय़ उवाच:
मा योत्सीर्गुरुभिः सार्धं वलवद्भिश्च पाण्डव |
९४ क
सञ्जय़ उवाच:
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव |
९४ ख
सञ्जय़ उवाच:
गृहं वा गच्छ माद्रेय़ यत्र वा कृष्णफल्गुनौ ||
९४ ग
सञ्जय़ उवाच:
एवमुक्त्वा महाराज व्यसर्जय़त तं ततः |
९५ क
सञ्जय़ उवाच:
वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः |
९५ ख
सञ्जय़ उवाच:
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जय़त् ||
९५ ग
सञ्जय़ उवाच:
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना |
९६ क
सञ्जय़ उवाच:
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ||
९६ ख
सञ्जय़ उवाच:
आरुरोह रथं चापि सूतपुत्रप्रतापितः |
९७ क