सञ्जय़ उवाच:
निःश्वसन्दुःखसन्तप्तः कुम्भे क्षिप्त इवोरगः ||
९७ ख
सञ्जय़ उवाच:
तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो यय़ौ |
९८ क
सञ्जय़ उवाच:
रथेनातिपताकेन चन्द्रवर्णहय़ेन च ||
९८ ख
सञ्जय़ उवाच:
तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते |
९९ क
सञ्जय़ उवाच:
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ||
९९ ख
सञ्जय़ उवाच:
तत्राकरोन्महाराज कदनं सूतनन्दनः |
१०० क
सञ्जय़ उवाच:
मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ||
१०० ख
सञ्जय़ उवाच:
भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः |
१०१ क
सञ्जय़ उवाच:
ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष |
१०१ ख
सञ्जय़ उवाच:
ह्रिय़माणानपश्याम पाञ्चालानां रथव्रजान् ||
१०१ ग
सञ्जय़ उवाच:
तत्र तत्र च सम्भ्रान्ता विचेरुर्मत्तकुञ्जराः |
१०२ क
सञ्जय़ उवाच:
दवाग्निना परीताङ्गा यथैव स्युर्महावने ||
१०२ ख
सञ्जय़ उवाच:
भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः |
१०३ क
सञ्जय़ उवाच:
भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष |
१०३ ख
सञ्जय़ उवाच:
छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना ||
१०३ ग
सञ्जय़ उवाच:
अपरे त्रासिता नागा नाराचशततोमरैः |
१०४ क
सञ्जय़ उवाच:
तमेवाभिमुखा यान्ति शलभा इव पावकम् ||
१०४ ख
सञ्जय़ उवाच:
अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः |
१०५ क
सञ्जय़ उवाच:
क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ||
१०५ ख
सञ्जय़ उवाच:
उरश्छदैर्विमुक्ताश्च वालवन्धैश्च वाजिनः |
१०६ क
सञ्जय़ उवाच:
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ||
१०६ ख
सञ्जय़ उवाच:
हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः |
१०७ क
सञ्जय़ उवाच:
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ||
१०७ ख
सञ्जय़ उवाच:
निहतैः सादिभिश्चैव शूरैराहवशोभिभिः |
१०८ क
सञ्जय़ उवाच:
अपश्याम रणे तत्र भ्राम्यमाणान्हय़ोत्तमान् ||
१०८ ख
सञ्जय़ उवाच:
प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप |
१०९ क
सञ्जय़ उवाच:
हय़योधानपश्याम कञ्चुकोष्णीषधारिणः ||
१०९ ख
सञ्जय़ उवाच:
रथान्हेमपरिष्कारान्सुय़ुक्ताञ्जवनैर्हय़ैः |
११० क
सञ्जय़ उवाच:
भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ||
११० ख
सञ्जय़ उवाच:
भग्नाक्षकूवरान्कांश्चिच्छिन्नचक्रांश्च मारिष |
१११ क
सञ्जय़ उवाच:
विपताकाध्वजांश्चान्याञ्छिन्नेषाय़ुगवन्धुरान् ||
१११ ख
सञ्जय़ उवाच:
विहीनान्रथिनस्तत्र धावमानान्समन्ततः |
११२ क
सञ्जय़ उवाच:
सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ||
११२ ख
सञ्जय़ उवाच:
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च वहून्हतान् |
११३ क
सञ्जय़ उवाच:
तावकाञ्जालसञ्छन्नानुरोघण्टाविभूषितान् ||
११३ ख
सञ्जय़ उवाच:
नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् |
११४ क
सञ्जय़ उवाच:
पदातीनन्वपश्याम धावमानान्समन्ततः ||
११४ ख
सञ्जय़ उवाच:
शिरांसि वाहूनूरूंश्च छिन्नानन्यांस्तथा युधि |
११५ क
सञ्जय़ उवाच:
कर्णचापच्युतैर्वाणैरपश्याम विनाकृतान् ||
११५ ख
सञ्जय़ उवाच:
महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत |
११६ क
सञ्जय़ उवाच:
कर्णसाय़कनुन्नानां हतानां निशितैः शरैः ||
११६ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जय़ाः |
११७ क
सञ्जय़ उवाच:
तमेवाभिमुखा यान्ति पतङ्गा इव पावकम् ||
११७ ख
सञ्जय़ उवाच:
तं दहन्तमनीकानि तत्र तत्र महारथम् |
११८ क
सञ्जय़ उवाच:
क्षत्रिय़ा वर्जय़ामासुर्युगान्ताग्निमिवोल्वणम् ||
११८ ख
सञ्जय़ उवाच:
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः |
११९ क
सञ्जय़ उवाच:
तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः |
११९ ख
सञ्जय़ उवाच:
अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ||
११९ ग
सञ्जय़ उवाच:
तापय़ामास तान्वाणैः सूतपुत्रो महारथः |
१२० क
सञ्जय़ उवाच:
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः ||
१२० ख