उपमन्युरु उवाच:
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः |
१४९ क
उपमन्युरु उवाच:
व्रताधिपः परं व्रह्म मुक्तानां परमा गतिः ||
१४९ ख
उपमन्युरु उवाच:
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् |
१५० क
उपमन्युरु उवाच:
यथाप्रधानं भगवानिति भक्त्या स्तुतो मय़ा ||
१५० ख
उपमन्युरु उवाच:
यं न व्रह्मादय़ो देवा विदुर्यं न महर्षय़ः |
१५१ क
उपमन्युरु उवाच:
तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ||
१५१ ख
उपमन्युरु उवाच:
भक्तिमेव पुरस्कृत्य मय़ा यज्ञपतिर्वसुः |
१५२ क
उपमन्युरु उवाच:
ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ||
१५२ ख
उपमन्युरु उवाच:
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः |
१५३ क
उपमन्युरु उवाच:
नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ||
१५३ ख
उपमन्युरु उवाच:
एतद्धि परमं व्रह्म स्वय़ं गीतं स्वय़म्भुवा |
१५४ क
उपमन्युरु उवाच:
ऋषय़श्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ||
१५४ ख
उपमन्युरु उवाच:
स्तूय़मानो महादेवः प्रीय़ते चात्मनामभिः |
१५५ क
उपमन्युरु उवाच:
भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ||
१५५ ख
उपमन्युरु उवाच:
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः |
१५६ क
उपमन्युरु उवाच:
आस्तिकाः श्रद्दधानाश्च वहुभिर्जन्मभिः स्तवैः ||
१५६ ख
उपमन्युरु उवाच:
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः |
१५७ क
उपमन्युरु उवाच:
स्तुवन्ति स्तूय़मानाश्च तुष्यन्ति च रमन्ति च |
१५७ ख
उपमन्युरु उवाच:
जन्मकोटिसहस्रेषु नानासंसारय़ोनिषु ||
१५७ ग
उपमन्युरु उवाच:
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजाय़ते |
१५८ क
उपमन्युरु उवाच:
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ||
१५८ ख
उपमन्युरु उवाच:
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः |
१५९ क
उपमन्युरु उवाच:
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ||
१५९ ख
उपमन्युरु उवाच:
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी |
१६० क
उपमन्युरु उवाच:
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् |
१६० ख
उपमन्युरु उवाच:
यय़ा यान्ति परां सिद्धिं तद्भावगतचेतसः ||
१६० ग
उपमन्युरु उवाच:
ये सर्वभावोपगताः परत्वेनाभवन्नराः |
१६१ क
उपमन्युरु उवाच:
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ||
१६१ ख
उपमन्युरु उवाच:
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् |
१६२ क
उपमन्युरु उवाच:
मनुष्याणां महादेवादन्यत्रापि तपोवलात् ||
१६२ ख
उपमन्युरु उवाच:
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः |
१६३ क
उपमन्युरु उवाच:
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धवुद्धिना ||
१६३ ख
उपमन्युरु उवाच:
स्तवमेतं भगवतो व्रह्मा स्वय़मधारय़त् |
१६४ क
उपमन्युरु उवाच:
व्रह्मा प्रोवाच शक्राय़ शक्रः प्रोवाच मृत्यवे ||
१६४ ख
उपमन्युरु उवाच:
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् |
१६५ क
उपमन्युरु उवाच:
महता तपसा प्राप्तस्तण्डिना व्रह्मसद्मनि ||
१६५ ख
उपमन्युरु उवाच:
तण्डिः प्रोवाच शुक्राय़ गौतमाय़ाह भार्गवः |
१६६ क
उपमन्युरु उवाच:
वैवस्वताय़ मनवे गौतमः प्राह माधव ||
१६६ ख
उपमन्युरु उवाच:
नाराय़णाय़ साध्याय़ मनुरिष्टाय़ धीमते |
१६७ क
उपमन्युरु उवाच:
यमाय़ प्राह भगवान्साध्यो नाराय़णोऽच्युतः ||
१६७ ख
उपमन्युरु उवाच:
नाचिकेताय़ भगवानाह वैवस्वतो यमः |
१६८ क
उपमन्युरु उवाच:
मार्कण्डेय़ाय़ वार्ष्णेय़ नाचिकेतोऽभ्यभाषत ||
१६८ ख
उपमन्युरु उवाच:
मार्कण्डेय़ान्मय़ा प्राप्तं निय़मेन जनार्दन |
१६९ क
उपमन्युरु उवाच:
तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् |
१६९ ख
उपमन्युरु उवाच:
स्वर्ग्यमारोग्यमाय़ुष्यं धन्यं वल्यं तथैव च ||
१६९ ग
उपमन्युरु उवाच:
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः |
१७० क
उपमन्युरु उवाच:
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ||
१७० ख
उपमन्युरु उवाच:
यः पठेत शुचिर्भूत्वा व्रह्मचारी जितेन्द्रिय़ः |
१७१ क
उपमन्युरु उवाच:
अभग्नय़ोगो वर्षं तु सोऽश्वमेधफलं लभेत् ||
१७१ ख