chevron_left सौप्तिक पर्व अध्याय १७
वैशम्पाय़न उवाच:
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः |
१ क
वैशम्पाय़न उवाच:
शोचन्युधिष्ठिरो राजा दाशार्हमिदमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा |
२ क
वैशम्पाय़न उवाच:
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ||
२ ख
वैशम्पाय़न उवाच:
तथा कृतास्त्रा विक्रान्ताः सहस्रशतय़ोधिनः |
३ क
वैशम्पाय़न उवाच:
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ||
३ ख
वैशम्पाय़न उवाच:
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् |
४ क
वैशम्पाय़न उवाच:
तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ||
४ ख
वैशम्पाय़न उवाच:
किं नु तेन कृतं कर्म तथाय़ुक्तं नरर्षभ |
५ क
वैशम्पाय़न उवाच:
यदेकः शिविरं सर्वमवधीन्नो गुरोः सुतः ||
५ ख
वासुदेव उवाच:
नूनं स देवदेवानामीश्वरेश्वरमव्ययम् |
६ क
वासुदेव उवाच:
जगाम शरणं द्रौणिरेकस्तेनावधीद्वहून् ||
६ ख
वासुदेव उवाच:
प्रसन्नो हि महादेवो दद्यादमरतामपि |
७ क
वासुदेव उवाच:
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातय़ेत् ||
७ ख
वासुदेव उवाच:
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ |
८ क
वासुदेव उवाच:
यानि चास्य पुराणानि कर्माणि विविधान्युत ||
८ ख
वासुदेव उवाच:
आदिरेष हि भूतानां मध्यमन्तश्च भारत |
९ क
वासुदेव उवाच:
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ||
९ ख
वासुदेव उवाच:
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः |
१० क
वासुदेव उवाच:
पितामहोऽव्रवीच्चैनं भूतानि सृज माचिरम् ||
१० ख
वासुदेव उवाच:
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् |
११ क
वासुदेव उवाच:
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ||
११ ख
वासुदेव उवाच:
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः |
१२ क
वासुदेव उवाच:
स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ||
१२ ख
वासुदेव उवाच:
सोऽव्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि |
१३ क
वासुदेव उवाच:
यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ||
१३ ख
वासुदेव उवाच:
तमव्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः |
१४ क
वासुदेव उवाच:
स्थाणुरेष जले मग्नो विस्रव्धः कुरु वै कृतिम् ||
१४ ख
वासुदेव उवाच:
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् |
१५ क
वासुदेव उवाच:
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ||
१५ ख
वासुदेव उवाच:
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् |
१६ क
वासुदेव उवाच:
विभक्षय़िषवो राजन्सहसा प्राद्रवंस्तदा ||
१६ ख
वासुदेव उवाच:
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् |
१७ क
वासुदेव उवाच:
आभ्यो मां भगवान्पातु वृत्तिरासां विधीय़ताम् ||
१७ ख
वासुदेव उवाच:
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च |
१८ क
वासुदेव उवाच:
जङ्गमानि च भूतानि दुर्वलानि वलीय़साम् ||
१८ ख
वासुदेव उवाच:
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् |
१९ क
वासुदेव उवाच:
ततो ववृधिरे राजन्प्रीतिमत्यः स्वय़ोनिषु ||
१९ ख
वासुदेव उवाच:
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि |
२० क
वासुदेव उवाच:
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ||
२० ख
वासुदेव उवाच:
वहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा |
२१ क
वासुदेव उवाच:
चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ||
२१ ख
वासुदेव उवाच:
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत |
२२ क
वासुदेव उवाच:
तमुवाचाव्ययो व्रह्मा वचोभिः शमय़न्निव ||
२२ ख
वासुदेव उवाच:
किं कृतं सलिले शर्व चिरकालं स्थितेन ते |
२३ क
वासुदेव उवाच:
किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ||
२३ ख
वासुदेव उवाच:
सोऽव्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् |
२४ क
वासुदेव उवाच:
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ||
२४ ख
वासुदेव उवाच:
तपसाधिगतं चान्नं प्रजार्थं मे पितामह |
२५ क
वासुदेव उवाच:
ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ||
२५ ख
वासुदेव उवाच:
एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः |
२६ क
वासुदेव उवाच:
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ||
२६ ख