chevron_left शान्ति पर्व अध्याय १७
युधिष्ठिर उवाच:
असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता |
१ क
युधिष्ठिर उवाच:
वलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ||
१ ख
युधिष्ठिर उवाच:
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि |
२ क
युधिष्ठिर उवाच:
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ||
२ ख
युधिष्ठिर उवाच:
य इमामखिलां भूमिं शिष्यादेको महीपतिः |
३ क
युधिष्ठिर उवाच:
तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ||
३ ख
युधिष्ठिर उवाच:
नाह्ना पूरय़ितुं शक्या न मासेन नरर्षभ |
४ क
युधिष्ठिर उवाच:
अपूर्यां पूरय़न्निच्छामाय़ुषापि न शक्नुय़ात् ||
४ ख
युधिष्ठिर उवाच:
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति |
५ क
युधिष्ठिर उवाच:
अल्पाहारतय़ा त्वग्निं शमय़ौदर्यमुत्थितम् |
५ ख
युधिष्ठिर उवाच:
जय़ोदरं पृथिव्या ते श्रेय़ो निर्जितय़ा जितम् ||
५ ग
युधिष्ठिर उवाच:
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि |
६ क
युधिष्ठिर उवाच:
अभोगिनोऽवलाश्चैव यान्ति स्थानमनुत्तमम् ||
६ ख
युधिष्ठिर उवाच:
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वय़ि स्थितौ |
७ क
युधिष्ठिर उवाच:
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय़ ||
७ ख
युधिष्ठिर उवाच:
एकोदरकृते व्याघ्रः करोति विघसं वहु |
८ क
युधिष्ठिर उवाच:
तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः ||
८ ख
युधिष्ठिर उवाच:
विषय़ान्प्रतिसंहृत्य संन्यासं कुरुते यतिः |
९ क
युधिष्ठिर उवाच:
न च तुष्यन्ति राजानः पश्य वुद्ध्यन्तरं यथा ||
९ ख
युधिष्ठिर उवाच:
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा |
१० क
युधिष्ठिर उवाच:
अव्भक्षैर्वाय़ुभक्षैश्च तैरय़ं नरको जितः ||
१० ख
युधिष्ठिर उवाच:
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः |
११ क
युधिष्ठिर उवाच:
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ||
११ ख
युधिष्ठिर उवाच:
सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव |
१२ क
युधिष्ठिर उवाच:
विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ||
१२ ख
युधिष्ठिर उवाच:
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् |
१३ क
युधिष्ठिर उवाच:
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ||
१३ ख
युधिष्ठिर उवाच:
पन्थानौ पितृय़ानश्च देवय़ानश्च विश्रुतौ |
१४ क
युधिष्ठिर उवाच:
ईजानाः पितृय़ानेन देवय़ानेन मोक्षिणः ||
१४ ख
युधिष्ठिर उवाच:
तपसा व्रह्मचर्येण स्वाध्याय़ेन च पाविताः |
१५ क
युधिष्ठिर उवाच:
विमुच्य देहान्वै भान्ति मृत्योरविषय़ं गताः ||
१५ ख
युधिष्ठिर उवाच:
आमिषं वन्धनं लोके कर्मेहोक्तं तथामिषम् |
१६ क
युधिष्ठिर उवाच:
ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ||
१६ ख
युधिष्ठिर उवाच:
अपि गाथामिमां गीतां जनकेन वदन्त्युत |
१७ क
युधिष्ठिर उवाच:
निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता ||
१७ ख
युधिष्ठिर उवाच:
अनन्तं वत मे वित्तं यस्य मे नास्ति किञ्चन |
१८ क
युधिष्ठिर उवाच:
मिथिलाय़ां प्रदीप्ताय़ां न मे दह्यति किञ्चन ||
१८ ख
युधिष्ठिर उवाच:
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् |
१९ क
युधिष्ठिर उवाच:
जगतीस्थानिवाद्रिस्थो मन्दवुद्धीनवेक्षते ||
१९ ख
युधिष्ठिर उवाच:
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स वुद्धिमान् |
२० क
युधिष्ठिर उवाच:
अज्ञातानां च विज्ञानात्सम्वोधाद्वुद्धिरुच्यते ||
२० ख
युधिष्ठिर उवाच:
यस्तु वाचं विजानाति वहुमानमिय़ात्स वै |
२१ क
युधिष्ठिर उवाच:
व्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ||
२१ ख
युधिष्ठिर उवाच:
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
२२ क
युधिष्ठिर उवाच:
तत एव च विस्तारं व्रह्म सम्पद्यते तदा ||
२२ ख
युधिष्ठिर उवाच:
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः |
२३ क
युधिष्ठिर उवाच:
नावुद्धय़ो नातपसः सर्वं वुद्धौ प्रतिष्ठितम् ||
२३ ख