chevron_left अनुशासन पर्व अध्याय १७
वासुदेव उवाच:
ततः स प्रय़तो भूत्वा मम तात युधिष्ठिर |
१ क
वासुदेव उवाच:
प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ||
१ ख
उपमन्युरु उवाच:
व्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः |
२ क
उपमन्युरु उवाच:
सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ||
२ ख
उपमन्युरु उवाच:
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः |
३ क
उपमन्युरु उवाच:
ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ||
३ ख
उपमन्युरु उवाच:
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः |
४ क
उपमन्युरु उवाच:
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् |
४ ख
उपमन्युरु उवाच:
श्रुतैः सर्वत्र जगति व्रह्मलोकावतारितैः ||
४ ग
उपमन्युरु उवाच:
यत्तद्रहस्यं परमं व्रह्मप्रोक्तं सनातनम् |
५ क
उपमन्युरु उवाच:
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ||
५ ख
उपमन्युरु उवाच:
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् |
६ क
उपमन्युरु उवाच:
तेन ते श्रावय़िष्यामि यत्तद्व्रह्म सनातनम् ||
६ ख
उपमन्युरु उवाच:
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् |
७ क
उपमन्युरु उवाच:
युक्तेनापि विभूतीनामपि वर्षशतैरपि ||
७ ख
उपमन्युरु उवाच:
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते |
८ क
उपमन्युरु उवाच:
कस्तस्य शक्नुय़ाद्वक्तुं गुणान्कार्त्स्न्येन माधव ||
८ ख
उपमन्युरु उवाच:
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् |
९ क
उपमन्युरु उवाच:
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ||
९ ख
उपमन्युरु उवाच:
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः |
१० क
उपमन्युरु उवाच:
यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ||
१० ख
उपमन्युरु उवाच:
अनादिनिधनस्याहं सर्वय़ोनेर्महात्मनः |
११ क
उपमन्युरु उवाच:
नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तय़ोनिनः ||
११ ख
उपमन्युरु उवाच:
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः |
१२ क
उपमन्युरु उवाच:
शृणु नामसमुद्देशं यदुक्तं पद्मय़ोनिना ||
१२ ख
उपमन्युरु उवाच:
दश नामसहस्राणि यान्याह प्रपितामहः |
१३ क
उपमन्युरु उवाच:
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ||
१३ ख
उपमन्युरु उवाच:
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु |
१४ क
उपमन्युरु उवाच:
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ||
१४ ख
उपमन्युरु उवाच:
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् |
१५ क
उपमन्युरु उवाच:
प्रय़त्नेनाधिगन्तव्यं धार्यं च प्रय़तात्मना |
१५ ख
उपमन्युरु उवाच:
शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ||
१५ ग
उपमन्युरु उवाच:
इदं भक्ताय़ दातव्यं श्रद्दधानास्तिकाय़ च |
१६ क
उपमन्युरु उवाच:
नाश्रद्दधानरूपाय़ नास्तिकाय़ाजितात्मने ||
१६ ख
उपमन्युरु उवाच:
यश्चाभ्यसूय़ते देवं भूतात्मानं पिनाकिनम् |
१७ क
उपमन्युरु उवाच:
स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ||
१७ ख
उपमन्युरु उवाच:
इदं ध्यानमिदं योगमिदं ध्येय़मनुत्तमम् |
१८ क
उपमन्युरु उवाच:
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् |
१८ ख
उपमन्युरु उवाच:
इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ||
१८ ग
उपमन्युरु उवाच:
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् |
१९ क
उपमन्युरु उवाच:
निगदिष्ये महावाहो स्तवानामुत्तमं स्तवम् ||
१९ ख
उपमन्युरु उवाच:
इदं व्रह्मा पुरा कृत्वा सर्वलोकपितामहः |
२० क
उपमन्युरु उवाच:
सर्वस्तवानां दिव्यानां राजत्वे समकल्पय़त् ||
२० ख
उपमन्युरु उवाच:
तदाप्रभृति चैवाय़मीश्वरस्य महात्मनः |
२१ क
उपमन्युरु उवाच:
स्तवराजेति विख्यातो जगत्यमरपूजितः |
२१ ख
उपमन्युरु उवाच:
व्रह्मलोकादय़ं चैव स्तवराजोऽवतारितः ||
२१ ग
उपमन्युरु उवाच:
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् |
२२ क
उपमन्युरु उवाच:
स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ||
२२ ख
उपमन्युरु उवाच:
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् |
२३ क
उपमन्युरु उवाच:
निगदिष्ये महावाहो स्तवानामुत्तमं स्तवम् ||
२३ ख
उपमन्युरु उवाच:
व्रह्मणामपि यद्व्रह्म पराणामपि यत्परम् |
२४ क
उपमन्युरु उवाच:
तेजसामपि यत्तेजस्तपसामपि यत्तपः ||
२४ ख
उपमन्युरु उवाच:
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः |
२५ क
उपमन्युरु उवाच:
दान्तानामपि यो दान्तो धीमतामपि या च धीः ||
२५ ख
उपमन्युरु उवाच:
देवानामपि यो देवो मुनीनामपि यो मुनिः |
२६ क
उपमन्युरु उवाच:
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ||
२६ ख
उपमन्युरु उवाच:
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि |
२७ क
उपमन्युरु उवाच:
योगिनामपि यो योगी कारणानां च कारणम् ||
२७ ख
उपमन्युरु उवाच:
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः |
२८ क
उपमन्युरु उवाच:
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ||
२८ ख
उपमन्युरु उवाच:
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु |
२९ क
उपमन्युरु उवाच:
यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ||
२९ ख
उपमन्युरु उवाच:
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः |
३० क
उपमन्युरु उवाच:
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ||
३० ख
उपमन्युरु उवाच:
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः |
३१ क
उपमन्युरु उवाच:
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ||
३१ ख
उपमन्युरु उवाच:
प्रवृत्तिश्च निवृत्तिश्च निय़तः शाश्वतो ध्रुवः |
३२ क
उपमन्युरु उवाच:
श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ||
३२ ख
उपमन्युरु उवाच:
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः |
३३ क
उपमन्युरु उवाच:
उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ||
३३ ख
उपमन्युरु उवाच:
महारूपो महाकाय़ः सर्वरूपो महाय़शाः |
३४ क
उपमन्युरु उवाच:
महात्मा सर्वभूतश्च विरूपो वामनो मनुः ||
३४ ख
उपमन्युरु उवाच:
लोकपालोऽन्तर्हितात्मा प्रसादो हय़गर्दभिः |
३५ क
उपमन्युरु उवाच:
पवित्रश्च महांश्चैव निय़मो निय़माश्रय़ः ||
३५ ख
उपमन्युरु उवाच:
सर्वकर्मा स्वय़म्भूश्च आदिरादिकरो निधिः |
३६ क
उपमन्युरु उवाच:
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ||
३६ ख
उपमन्युरु उवाच:
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः |
३७ क
उपमन्युरु उवाच:
अद्रिरद्र्यालय़ः कर्ता मृगवाणार्पणोऽनघः ||
३७ ख
उपमन्युरु उवाच:
महातपा घोरतपा अदीनो दीनसाधकः |
३८ क
उपमन्युरु उवाच:
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ||
३८ ख
उपमन्युरु उवाच:
योगी योज्यो महावीजो महारेता महातपाः |
३९ क
उपमन्युरु उवाच:
सुवर्णरेताः सर्वज्ञः सुवीजो वृषवाहनः ||
३९ ख
उपमन्युरु उवाच:
दशवाहुस्त्वनिमिषो नीलकण्ठ उमापतिः |
४० क
उपमन्युरु उवाच:
विश्वरूपः स्वय़ंश्रेष्ठो वलवीरो वलो गणः ||
४० ख
उपमन्युरु उवाच:
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च |
४१ क
उपमन्युरु उवाच:
पवित्रं परमं मन्त्रः सर्वभावकरो हरः ||
४१ ख
उपमन्युरु उवाच:
कमण्डलुधरो धन्वी वाणहस्तः कपालवान् |
४२ क
उपमन्युरु उवाच:
अशनी शतघ्नी खड्गी पट्टिशी चाय़ुधी महान् ||
४२ ख
उपमन्युरु उवाच:
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |
४३ क
उपमन्युरु उवाच:
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ||
४३ ख
उपमन्युरु उवाच:
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |
४४ क
उपमन्युरु उवाच:
सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ||
४४ ख
उपमन्युरु उवाच:
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि |
४५ क
उपमन्युरु उवाच:
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशाय़ी नभस्तलः ||
४५ ख
उपमन्युरु उवाच:
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः |
४६ क
उपमन्युरु उवाच:
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ||
४६ ख
उपमन्युरु उवाच:
गजहा दैत्यहा लोको लोकधाता गुणाकरः |
४७ क
उपमन्युरु उवाच:
सिंहशार्दूलरूपश्च आर्द्रचर्माम्वरावृतः ||
४७ ख
उपमन्युरु उवाच:
कालय़ोगी महानादः सर्ववासश्चतुष्पथः |
४८ क
उपमन्युरु उवाच:
निशाचरः प्रेतचारी भूतचारी महेश्वरः ||
४८ ख