वासुदेव उवाच:
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् |
१ क
वासुदेव उवाच:
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ||
१ ख
काश्यप उवाच:
कथं शरीरं च्यवते कथं चैवोपपद्यते |
२ क
काश्यप उवाच:
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ||
२ ख
काश्यप उवाच:
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति |
३ क
काश्यप उवाच:
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ||
३ ख
काश्यप उवाच:
कथं शुभाशुभे चाय़ं कर्मणी स्वकृते नरः |
४ क
काश्यप उवाच:
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ||
४ ख
व्राह्मण उवाच:
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत |
५ क
व्राह्मण उवाच:
आनुपूर्व्येण वार्ष्णेय़ यथा तन्मे वचः शृणु ||
५ ख
सिद्ध उवाच:
आय़ुःकीर्तिकराणीह यानि कर्माणि सेवते |
६ क
सिद्ध उवाच:
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ||
६ ख
सिद्ध उवाच:
आय़ुःक्षय़परीतात्मा विपरीतानि सेवते |
७ क
सिद्ध उवाच:
वुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ||
७ ख
सिद्ध उवाच:
सत्त्वं वलं च कालं चाप्यविदित्वात्मनस्तथा |
८ क
सिद्ध उवाच:
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ||
८ ख
सिद्ध उवाच:
यदाय़मतिकष्टानि सर्वाण्युपनिषेवते |
९ क
सिद्ध उवाच:
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ||
९ ख
सिद्ध उवाच:
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च |
१० क
सिद्ध उवाच:
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ||
१० ख
सिद्ध उवाच:
व्याय़ाममतिमात्रं वा व्यवाय़ं चोपसेवते |
११ क
सिद्ध उवाच:
सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ||
११ ख
सिद्ध उवाच:
रसातिय़ुक्तमन्नं वा दिवास्वप्नं निषेवते |
१२ क
सिद्ध उवाच:
अपक्वानागते काले स्वय़ं दोषान्प्रकोपय़न् ||
१२ ख
सिद्ध उवाच:
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् |
१३ क
सिद्ध उवाच:
अथ चोद्वन्धनादीनि परीतानि व्यवस्यति ||
१३ ख
सिद्ध उवाच:
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा |
१४ क
सिद्ध उवाच:
जीवितं प्रोच्यमानं तद्यथावदुपधारय़ ||
१४ ख
सिद्ध उवाच:
ऊष्मा प्रकुपितः काय़े तीव्रवाय़ुसमीरितः |
१५ क
सिद्ध उवाच:
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ||
१५ ख
सिद्ध उवाच:
अत्यर्थं वलवानूष्मा शरीरे परिकोपितः |
१६ क
सिद्ध उवाच:
भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ||
१६ ख
सिद्ध उवाच:
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् |
१७ क
सिद्ध उवाच:
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु |
१७ ख
सिद्ध उवाच:
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ||
१७ ग
सिद्ध उवाच:
जातीमरणसंविग्नाः सततं सर्वजन्तवः |
१८ क
सिद्ध उवाच:
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ||
१८ ख
सिद्ध उवाच:
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे |
१९ क
सिद्ध उवाच:
तादृशीमेव लभते वेदनां मानवः पुनः ||
१९ ख
सिद्ध उवाच:
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः |
२० क
सिद्ध उवाच:
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति |
२० ख
सिद्ध उवाच:
शैत्यात्प्रकुपितः काय़े तीव्रवाय़ुसमीरितः ||
२० ग
सिद्ध उवाच:
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः |
२१ क
सिद्ध उवाच:
स गच्छत्यूर्ध्वगो वाय़ुः कृच्छ्रान्मुक्त्वा शरीरिणम् ||
२१ ख
सिद्ध उवाच:
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते |
२२ क
सिद्ध उवाच:
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ||
२२ ख
सिद्ध उवाच:
व्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः |
२३ क
सिद्ध उवाच:
स्रोतोभिर्यैर्विजानाति इन्द्रिय़ार्थाञ्शरीरभृत् |
२३ ख
सिद्ध उवाच:
तैरेव न विजानाति प्राणमाहारसम्भवम् ||
२३ ग
सिद्ध उवाच:
तत्रैव कुरुते काय़े यः स जीवः सनातनः |
२४ क
सिद्ध उवाच:
तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् |
२४ ख
सिद्ध उवाच:
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ||
२४ ग
सिद्ध उवाच:
तेषु मर्मसु भिन्नेषु ततः स समुदीरय़न् |
२५ क
सिद्ध उवाच:
आविश्य हृदय़ं जन्तोः सत्त्वं चाशु रुणद्धि वै |
२५ ख
सिद्ध उवाच:
ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन ||
२५ ग
सिद्ध उवाच:
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु |
२६ क
सिद्ध उवाच:
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ||
२६ ख
सिद्ध उवाच:
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् |
२७ क
सिद्ध उवाच:
निष्क्रामन्कम्पय़त्याशु तच्छरीरमचेतनम् ||
२७ ख
सिद्ध उवाच:
स जीवः प्रच्युतः काय़ात्कर्मभिः स्वैः समावृतः |
२८ क
सिद्ध उवाच:
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ||
२८ ख
सिद्ध उवाच:
व्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चय़ाः |
२९ क
सिद्ध उवाच:
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ||
२९ ख
सिद्ध उवाच:
यथान्धकारे खद्योतं लीय़मानं ततस्ततः |
३० क
सिद्ध उवाच:
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ||
३० ख
सिद्ध उवाच:
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा |
३१ क
सिद्ध उवाच:
च्यवन्तं जाय़मानं च योनिं चानुप्रवेशितम् ||
३१ ख
सिद्ध उवाच:
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः |
३२ क
सिद्ध उवाच:
कर्मभूमिरिय़ं भूमिर्यत्र तिष्ठन्ति जन्तवः ||
३२ ख
सिद्ध उवाच:
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः |
३३ क
सिद्ध उवाच:
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ||
३३ ख
सिद्ध उवाच:
इहैवाशुभकर्मा तु कर्मभिर्निरय़ं गतः |
३४ क
सिद्ध उवाच:
अवाक्स निरय़े पापो मानवः पच्यते भृशम् |
३४ ख
सिद्ध उवाच:
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ||
३४ ग
सिद्ध उवाच:
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः |
३५ क
सिद्ध उवाच:
कीर्त्यमानानि तानीह तत्त्वतः संनिवोध मे |
३५ ख
सिद्ध उवाच:
तच्छ्रुत्वा नैष्ठिकीं वुद्धिं वुध्येथाः कर्मनिश्चय़ात् ||
३५ ग
सिद्ध उवाच:
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् |
३६ क
सिद्ध उवाच:
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् |
३६ ख
सिद्ध उवाच:
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ||
३६ ग
सिद्ध उवाच:
कर्मक्षय़ाच्च ते सर्वे च्यवन्ते वै पुनः पुनः |
३७ क
सिद्ध उवाच:
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ||
३७ ख
सिद्ध उवाच:
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रिय़म् |
३८ क
सिद्ध उवाच:
इत्येता गतय़ः सर्वाः पृथक्त्वे समुदीरिताः ||
३८ ख
सिद्ध उवाच:
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् |
३९ क
सिद्ध उवाच:
यथावत्तां निगदतः शृणुष्वावहितो द्विज ||
३९ ख