chevron_left सभा पर्व अध्याय १७
राक्षस्यु उवाच:
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी |
१ क
राक्षस्यु उवाच:
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ||
१ ख
राक्षस्यु उवाच:
साहं प्रत्युपकारार्थं चिन्तय़न्त्यनिशं नृप |
२ क
राक्षस्यु उवाच:
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ||
२ ख
राक्षस्यु उवाच:
संश्लेषिते मय़ा दैवात्कुमारः समपद्यत |
३ क
राक्षस्यु उवाच:
तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ||
३ ख
कृष्ण उवाच:
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीय़त |
४ क
कृष्ण उवाच:
स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ||
४ ख
कृष्ण उवाच:
तस्य वालस्य यत्कृत्यं तच्चकार नृपस्तदा |
५ क
कृष्ण उवाच:
आज्ञापय़च्च राक्षस्या मागधेषु महोत्सवम् ||
५ ख
कृष्ण उवाच:
तस्य नामाकरोत्तत्र प्रजापतिसमः पिता |
६ क
कृष्ण उवाच:
जरय़ा सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ||
६ ख
कृष्ण उवाच:
सोऽवर्धत महातेजा मगधाधिपतेः सुतः |
७ क
कृष्ण उवाच:
प्रमाणवलसम्पन्नो हुताहुतिरिवानलः ||
७ ख
कृष्ण उवाच:
कस्यचित्त्वथ कालस्य पुनरेव महातपाः |
८ क
कृष्ण उवाच:
मगधानुपचक्राम भगवांश्चण्डकौशिकः ||
८ ख
कृष्ण उवाच:
तस्यागमनसंहृष्टः सामात्यः सपुरःसरः |
९ क
कृष्ण उवाच:
सभार्यः सह पुत्रेण निर्जगाम वृहद्रथः ||
९ ख
कृष्ण उवाच:
पाद्यार्घ्याचमनीय़ैस्तमर्चय़ामास भारत |
१० क
कृष्ण उवाच:
स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदय़त् ||
१० ख
कृष्ण उवाच:
प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः |
११ क
कृष्ण उवाच:
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ||
११ ख
कृष्ण उवाच:
सर्वमेतन्मय़ा राजन्विज्ञातं ज्ञानचक्षुषा |
१२ क
कृष्ण उवाच:
पुत्रस्तु शृणु राजेन्द्र यादृशोऽय़ं भविष्यति ||
१२ ख
कृष्ण उवाच:
अस्य वीर्यवतो वीर्यं नानुय़ास्यन्ति पार्थिवाः |
१३ क
कृष्ण उवाच:
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते |
१३ ख
कृष्ण उवाच:
न रुजं जनय़िष्यन्ति गिरेरिव नदीरय़ाः ||
१३ ग
कृष्ण उवाच:
सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति |
१४ क
कृष्ण उवाच:
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ||
१४ ख
कृष्ण उवाच:
एनमासाद्य राजानः समृद्धवलवाहनाः |
१५ क
कृष्ण उवाच:
विनाशमुपय़ास्यन्ति शलभा इव पावकम् ||
१५ ख
कृष्ण उवाच:
एष श्रिय़ं समुदितां सर्वराज्ञां ग्रहीष्यति |
१६ क
कृष्ण उवाच:
वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ||
१६ ख
कृष्ण उवाच:
एष धारय़िता सम्यक्चातुर्वर्ण्यं महावलः |
१७ क
कृष्ण उवाच:
शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ||
१७ ख
कृष्ण उवाच:
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः |
१८ क
कृष्ण उवाच:
सर्वभूतात्मभूतस्य वाय़ोरिव शरीरिणः ||
१८ ख
कृष्ण उवाच:
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् |
१९ क
कृष्ण उवाच:
सर्वलोकेष्वतिवलः स्वय़ं द्रक्ष्यति मागधः ||
१९ ख
कृष्ण उवाच:
एवं व्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तय़न् |
२० क
कृष्ण उवाच:
विसर्जय़ामास नृपं वृहद्रथमथारिहन् ||
२० ख
कृष्ण उवाच:
प्रविश्य नगरं चैव ज्ञातिसम्वन्धिभिर्वृतः |
२१ क
कृष्ण उवाच:
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा |
२१ ख
कृष्ण उवाच:
वृहद्रथो नरपतिः परां निर्वृतिमाय़यौ ||
२१ ग
कृष्ण उवाच:
अभिषिक्ते जरासन्धे तदा राजा वृहद्रथः |
२२ क
कृष्ण उवाच:
पत्नीद्वय़ेनानुगतस्तपोवनरतोऽभवत् ||
२२ ख
कृष्ण उवाच:
तपोवनस्थे पितरि मातृभ्यां सह भारत |
२३ क
कृष्ण उवाच:
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ||
२३ ख
कृष्ण उवाच:
अथ दीर्घस्य कालस्य तपोवनगतो नृपः |
२४ क
कृष्ण उवाच:
सभार्यः स्वर्गमगमत्तपस्तप्त्वा वृहद्रथः ||
२४ ख
कृष्ण उवाच:
तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ |
२५ क
कृष्ण उवाच:
मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ||
२५ ख
कृष्ण उवाच:
यौ तौ मय़ा ते कथितौ पूर्वमेव महावलौ |
२६ क
कृष्ण उवाच:
त्रय़स्त्रय़ाणां लोकानां पर्याप्ता इति मे मतिः ||
२६ ख
कृष्ण उवाच:
एवमेष तदा वीर वलिभिः कुकुरान्धकैः |
२७ क
कृष्ण उवाच:
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ||
२७ ख