वासुदेव उवाच:
तां तूपय़ात्वा राजेन्द्र शाल्वः सौभपतिस्तदा |
१ क
वासुदेव उवाच:
प्रभूतनरनागेन वलेनोपविवेश ह ||
१ ख
वासुदेव उवाच:
समे निविष्टा सा सेना प्रभूतसलिलाशय़े |
२ क
वासुदेव उवाच:
चतुरङ्गवलोपेता शाल्वराजाभिपालिता ||
२ ख
वासुदेव उवाच:
वर्जय़ित्वा श्मशानानि देवताय़तनानि च |
३ क
वासुदेव उवाच:
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्वलम् ||
३ ख
वासुदेव उवाच:
अनीकानां विभागेन पन्थानः षट्कृताभवन् |
४ क
वासुदेव उवाच:
प्रवणा नव चैवासञ्शाल्वस्य शिविरे नृप ||
४ ख
वासुदेव उवाच:
सर्वाय़ुधसमोपेतं सर्वशस्त्रविशारदम् |
५ क
वासुदेव उवाच:
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ||
५ ख
वासुदेव उवाच:
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् |
६ क
वासुदेव उवाच:
विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ||
६ ख
वासुदेव उवाच:
संनिवेश्य च कौरव्य द्वारकाय़ां नरर्षभ |
७ क
वासुदेव उवाच:
अभिसारय़ामास तदा वेगेन पतगेन्द्रवत् ||
७ ख
वासुदेव उवाच:
तदापतन्तं सन्दृश्य वलं शाल्वपतेस्तदा |
८ क
वासुदेव उवाच:
निर्याय़ योधय़ामासुः कुमारा वृष्णिनन्दनाः ||
८ ख
वासुदेव उवाच:
असहन्तोऽभिय़ानं तच्छाल्वराजस्य कौरव |
९ क
वासुदेव उवाच:
चारुदेष्णश्च साम्वश्च प्रद्युम्नश्च महारथः ||
९ ख
वासुदेव उवाच:
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः |
१० क
वासुदेव उवाच:
संसक्ताः शाल्वराजस्य वहुभिर्योधपुङ्गवैः ||
१० ख
वासुदेव उवाच:
गृहीत्वा तु धनुः साम्वः शाल्वस्य सचिवं रणे |
११ क
वासुदेव उवाच:
योधय़ामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ||
११ ख
वासुदेव उवाच:
तस्य वाणमय़ं वर्षं जाम्ववत्याः सुतो महत् |
१२ क
वासुदेव उवाच:
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ||
१२ ख
वासुदेव उवाच:
तद्वाणवर्षं तुमुलं विषेहे स चमूपतिः |
१३ क
वासुदेव उवाच:
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ||
१३ ख
वासुदेव उवाच:
ततः साम्वाय़ राजेन्द्र क्षेमवृद्धिरपि स्म ह |
१४ क
वासुदेव उवाच:
मुमोच माय़ाविहितं शरजालं महत्तरम् ||
१४ ख
वासुदेव उवाच:
ततो माय़ामय़ं जालं माय़यैव विदार्य सः |
१५ क
वासुदेव उवाच:
साम्वः शरसहस्रेण रथमस्याभ्यवर्षत ||
१५ ख
वासुदेव उवाच:
ततः स विद्धः साम्वेन क्षेमवृद्धिश्चमूपतिः |
१६ क
वासुदेव उवाच:
अपाय़ाज्जवनैरश्वैः साम्ववाणप्रपीडितः ||
१६ ख
वासुदेव उवाच:
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ |
१७ क
वासुदेव उवाच:
वेगवान्नाम दैतेय़ः सुतं मेऽभ्यद्रवद्वली ||
१७ ख
वासुदेव उवाच:
अभिपन्नस्तु राजेन्द्र साम्वो वृष्णिकुलोद्वहः |
१८ क
वासुदेव उवाच:
वेगं वेगवतो राजंस्तस्थौ वीरो विधारय़न् ||
१८ ख
वासुदेव उवाच:
स वेगवति कौन्तेय़ साम्वो वेगवतीं गदाम् |
१९ क
वासुदेव उवाच:
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ||
१९ ख
वासुदेव उवाच:
तय़ा त्वभिहतो राजन्वेगवानपतद्भुवि |
२० क
वासुदेव उवाच:
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ||
२० ख
वासुदेव उवाच:
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे |
२१ क
वासुदेव उवाच:
प्रविश्य महतीं सेनां योधय़ामास मे सुतः ||
२१ ख
वासुदेव उवाच:
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः |
२२ क
वासुदेव उवाच:
महारथः समाज्ञातो महाराज महाधनुः ||
२२ ख
वासुदेव उवाच:
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः |
२३ क
वासुदेव उवाच:
वृत्रवासवय़ो राजन्यथा पूर्वं तथाभवत् ||
२३ ख
वासुदेव उवाच:
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः |
२४ क
वासुदेव उवाच:
विनदन्तौ महाराज सिंहाविव महावलौ ||
२४ ख
वासुदेव उवाच:
रौक्मिणेय़स्ततो वाणमग्न्यर्कोपमवर्चसम् |
२५ क
वासुदेव उवाच:
अभिमन्त्र्य महास्त्रेण सन्दधे शत्रुनाशनम् ||
२५ ख
वासुदेव उवाच:
स विविन्ध्याय़ सक्रोधः समाहूय़ महारथः |
२६ क
वासुदेव उवाच:
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ||
२६ ख
वासुदेव उवाच:
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् |
२७ क
वासुदेव उवाच:
कामगेन स सौभेन शाल्वः पुनरुपागमत् ||
२७ ख
वासुदेव उवाच:
ततो व्याकुलितं सर्वं द्वारकावासि तद्वलम् |
२८ क
वासुदेव उवाच:
दृष्ट्वा शाल्वं महावाहो सौभस्थं पृथिवीगतम् ||
२८ ख
वासुदेव उवाच:
ततो निर्याय़ कौन्तेय़ व्यवस्थाप्य च तद्वलम् |
२९ क
वासुदेव उवाच:
आनर्तानां महाराज प्रद्युम्नो वाक्यमव्रवीत् ||
२९ ख
वासुदेव उवाच:
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि |
३० क
वासुदेव उवाच:
निवारय़न्तं सङ्ग्रामे वलात्सौभं सराजकम् ||
३० ख
वासुदेव उवाच:
अहं सौभपतेः सेनामाय़सैर्भुजगैरिव |
३१ क
वासुदेव उवाच:
धनुर्भुजविनिर्मुक्तैर्नाशय़ाम्यद्य यादवाः ||
३१ ख
वासुदेव उवाच:
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति |
३२ क
वासुदेव उवाच:
मय़ाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ||
३२ ख
वासुदेव उवाच:
एवं व्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन |
३३ क
वासुदेव उवाच:
विष्ठितं तद्वलं वीर युय़ुधे च यथासुखम् ||
३३ ख