chevron_left भीष्म पर्व अध्याय १७
सञ्जय़ उवाच:
यथा स भगवान्व्यासः कृष्णद्वैपाय़नोऽव्रवीत् |
१ क
सञ्जय़ उवाच:
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ||
१ ख
सञ्जय़ उवाच:
मघाविषय़गः सोमस्तद्दिनं प्रत्यपद्यत |
२ क
सञ्जय़ उवाच:
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ||
२ ख
सञ्जय़ उवाच:
द्विधाभूत इवादित्य उदय़े प्रत्यदृश्यत |
३ क
सञ्जय़ उवाच:
ज्वलन्त्या शिखय़ा भूय़ो भानुमानुदितो दिवि ||
३ ख
सञ्जय़ उवाच:
ववाशिरे च दीप्ताय़ां दिशि गोमाय़ुवाय़साः |
४ क
सञ्जय़ उवाच:
लिप्समानाः शरीराणि मांसशोणितभोजनाः ||
४ ख
सञ्जय़ उवाच:
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः |
५ क
सञ्जय़ उवाच:
भरद्वाजात्मजश्चैव प्रातरुत्थाय़ संय़तौ ||
५ ख
सञ्जय़ उवाच:
जय़ोऽस्तु पाण्डुपुत्राणामित्यूचतुररिन्दमौ |
६ क
सञ्जय़ उवाच:
युय़ुधाते तवार्थाय़ यथा स समय़ः कृतः ||
६ ख
सञ्जय़ उवाच:
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |
७ क
सञ्जय़ उवाच:
समानीय़ महीपालानिदं वचनमव्रवीत् ||
७ ख
सञ्जय़ उवाच:
इदं वः क्षत्रिय़ा द्वारं स्वर्गाय़ापावृतं महत् |
८ क
सञ्जय़ उवाच:
गच्छध्वं तेन शक्रस्य व्रह्मणश्च सलोकताम् ||
८ ख
सञ्जय़ उवाच:
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः |
९ क
सञ्जय़ उवाच:
सम्भावय़त चात्मानमव्यग्रमनसो युधि ||
९ ख
सञ्जय़ उवाच:
नाभागो हि यय़ातिश्च मान्धाता नहुषो नृगः |
१० क
सञ्जय़ उवाच:
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ||
१० ख
सञ्जय़ उवाच:
अधर्मः क्षत्रिय़स्यैष यद्व्याधिमरणं गृहे |
११ क
सञ्जय़ उवाच:
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ||
११ ख
सञ्जय़ उवाच:
एवमुक्ता महीपाला भीष्मेण भरतर्षभ |
१२ क
सञ्जय़ उवाच:
निर्ययुः स्वान्यनीकानि शोभय़न्तो रथोत्तमैः ||
१२ ख
सञ्जय़ उवाच:
स तु वैकर्तनः कर्णः सामात्यः सह वन्धुभिः |
१३ क
सञ्जय़ उवाच:
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ||
१३ ख
सञ्जय़ उवाच:
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः |
१४ क
सञ्जय़ उवाच:
निर्ययुः सिंहनादेन नादय़न्तो दिशो दश ||
१४ ख
सञ्जय़ उवाच:
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः |
१५ क
सञ्जय़ उवाच:
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ||
१५ ख
सञ्जय़ उवाच:
भेरीपणवशव्दैश्च पटहानां च निस्वनैः |
१६ क
सञ्जय़ उवाच:
रथनेमिनिनादैश्च वभूवाकुलिता मही ||
१६ ख
सञ्जय़ उवाच:
काञ्चनाङ्गदकेय़ूरैः कार्मुकैश्च महारथाः |
१७ क
सञ्जय़ उवाच:
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ||
१७ ख
सञ्जय़ उवाच:
तालेन महता भीष्मः पञ्चतारेण केतुना |
१८ क
सञ्जय़ उवाच:
विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः ||
१८ ख
सञ्जय़ उवाच:
ये त्वदीय़ा महेष्वासा राजानो भरतर्षभ |
१९ क
सञ्जय़ उवाच:
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ||
१९ ख
सञ्जय़ उवाच:
स तु गोवासनः शैव्यः सहितः सर्वराजभिः |
२० क
सञ्जय़ उवाच:
यय़ौ मातङ्गराजेन राजार्हेण पताकिना |
२० ख
सञ्जय़ उवाच:
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ||
२० ग
सञ्जय़ उवाच:
अश्वत्थामा यय़ौ यत्तः सिंहलाङ्गूलकेतनः |
२१ क
सञ्जय़ उवाच:
श्रुताय़ुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ||
२१ ख
सञ्जय़ उवाच:
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः |
२२ क
सञ्जय़ उवाच:
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः |
२२ ख
सञ्जय़ उवाच:
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ||
२२ ग
सञ्जय़ उवाच:
तेषामपि महोत्सेधाः शोभय़न्तो रथोत्तमान् |
२३ क
सञ्जय़ उवाच:
भ्राजमाना व्यदृश्यन्त जाम्वूनदमय़ा ध्वजाः ||
२३ ख
सञ्जय़ उवाच:
जाम्वूनदमय़ी वेदिः कमण्डलुविभूषिता |
२४ क
सञ्जय़ उवाच:
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ||
२४ ख
सञ्जय़ उवाच:
अनेकशतसाहस्रमनीकमनुकर्षतः |
२५ क
सञ्जय़ उवाच:
महान्दुर्योधनस्यासीन्नागो मणिमय़ो ध्वजः ||
२५ ख
सञ्जय़ उवाच:
तस्य पौरवकालिङ्गौ काम्वोजश्च सुदक्षिणः |
२६ क
सञ्जय़ उवाच:
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ||
२६ ख
सञ्जय़ उवाच:
स्यन्दनेन महार्हेण केतुना वृषभेण च |
२७ क
सञ्जय़ उवाच:
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो यय़ौ ||
२७ ख
सञ्जय़ उवाच:
तदङ्गपतिना गुप्तं कृपेण च महात्मना |
२८ क
सञ्जय़ उवाच:
शारदाभ्रचय़प्रख्यं प्राच्यानामभवद्वलम् ||
२८ ख
सञ्जय़ उवाच:
अनीकप्रमुखे तिष्ठन्वराहेण महाय़शाः |
२९ क
सञ्जय़ उवाच:
शुशुभे केतुमुख्येन राजतेन जय़द्रथः ||
२९ ख
सञ्जय़ उवाच:
शतं रथसहस्राणां तस्यासन्वशवर्तिनः |
३० क
सञ्जय़ उवाच:
अष्टौ नागसहस्राणि सादिनामय़ुतानि षट् ||
३० ख
सञ्जय़ उवाच:
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् |
३१ क
सञ्जय़ उवाच:
अनन्तरथनागाश्वमशोभत महद्वलम् ||
३१ ख
सञ्जय़ उवाच:
षष्ट्या रथसहस्रैस्तु नागानामय़ुतेन च |
३२ क
सञ्जय़ उवाच:
पतिः सर्वकलिङ्गानां यय़ौ केतुमता सह ||
३२ ख
सञ्जय़ उवाच:
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः |
३३ क
सञ्जय़ उवाच:
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ||
३३ ख
सञ्जय़ उवाच:
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः |
३४ क
सञ्जय़ उवाच:
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ||
३४ ख
सञ्जय़ उवाच:
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् |
३५ क
सञ्जय़ उवाच:
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ||
३५ ख
सञ्जय़ उवाच:
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः |
३६ क
सञ्जय़ उवाच:
भगदत्तो यय़ौ राजा यथा वज्रधरस्तथा ||
३६ ख
सञ्जय़ उवाच:
गजस्कन्धगतावास्तां भगदत्तेन संमितौ |
३७ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ||
३७ ख
सञ्जय़ उवाच:
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् |
३८ क
सञ्जय़ उवाच:
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ||
३८ ख
सञ्जय़ उवाच:
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च |
३९ क
सञ्जय़ उवाच:
तथैवाचार्यपुत्रेण वाह्लीकेन कृपेण च ||
३९ ख